Ṛk 6.24.9
Saṃhitā
गं॒भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो यं॑धि सुतपाव॒न्वाजा॑न् ।
स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायां ॥
गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् |
स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ||
gambhīréṇa na urúṇāmatrinpréṣó yandhi sutapāvanvā́jān ǀ
sthā́ ū ṣú ūrdhvá ūtī́ áriṣaṇyannaktórvyúṣṭau páritakmyāyām ǁ
gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān |
sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām ||
Padapāṭha
ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् ।
स्थाः । ऊं॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥
गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतऽपावन् । वाजान् ।
स्थाः । ऊं इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाम् ॥
gambhīréṇa ǀ naḥ ǀ urúṇā ǀ amatrin ǀ prá ǀ iṣáḥ ǀ yandhi ǀ suta-pāvan ǀ vā́jān ǀ
sthā́ḥ ǀ ūṃ íti ǀ sú ǀ ūrdhváḥ ǀ ūtī́ ǀ áriṣaṇyan ǀ aktóḥ ǀ ví-uṣṭau ǀ pári-takmyāyām ǁ
gambhīreṇa ǀ naḥ ǀ uruṇā ǀ amatrin ǀ pra ǀ iṣaḥ ǀ yandhi ǀ suta-pāvan ǀ vājān ǀ
sthāḥ ǀ ūṃ iti ǀ su ǀ ūrdhvaḥ ǀ ūtī ǀ ariṣaṇyan ǀ aktoḥ ǀ vi-uṣṭau ǀ pari-takmyāyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.024.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.18.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.009
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.