Ṛk 6.24.5
Saṃhitā
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिंद्रः॑ ।
मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥
अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः |
मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ||
anyádadyá kárvaramanyádu śvó’sacca sánmúhurācakríríndraḥ ǀ
mitró no átra váruṇaśca pūṣā́ryó váśasya paryetā́sti ǁ
anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ |
mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti ||
Padapāṭha
अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊं॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ॒ऽच॒क्रिः । इन्द्रः॑ ।
मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥
अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊं इति । श्वः । असत् । च । सत् । मुहुः । आऽचक्रिः । इन्द्रः ।
मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिऽएता । अस्ति ॥
anyát ǀ adyá ǀ kárvaram ǀ anyát ǀ ūṃ íti ǀ śváḥ ǀ ásat ǀ ca ǀ sát ǀ múhuḥ ǀ ā-cakríḥ ǀ índraḥ ǀ
mitráḥ ǀ naḥ ǀ átra ǀ váruṇaḥ ǀ ca ǀ pūṣā́ ǀ aryáḥ ǀ váśasya ǀ pari-etā́ ǀ asti ǁ
anyat ǀ adya ǀ karvaram ǀ anyat ǀ ūṃ iti ǀ śvaḥ ǀ asat ǀ ca ǀ sat ǀ muhuḥ ǀ ā-cakriḥ ǀ indraḥ ǀ
mitraḥ ǀ naḥ ǀ atra ǀ varuṇaḥ ǀ ca ǀ pūṣā ǀ aryaḥ ǀ vaśasya ǀ pari-etā ǀ asti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.024.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.17.05
- Maṇḍala · Anuvāka · Ṛk
- 06.03.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.