Ṛgveda · Maṇḍala 6

Sūkta 17

Indra · Bharadvāja Bārhaspatya · 15 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh, Dvipadā
Metres by ṛk

1st set of styles triṣṭup (1-4, 11); nicṛttriṣṭup (7, 9, 10, 12, 14); virāṭtrisṭup (5, 6, 8); svarāṭpaṅkti (13); ārcyuṣṇik (15)

2nd set of styles triṣṭubh (1-14); dvipadā (15)

  1. Ṛk 1

    पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इं॑द्र ।
    वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥

    पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र |
    वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ||

    píbā sómamabhí yámugra tárda ūrvám gávyam máhi gṛṇāná indra ǀ
    ví yó dhṛṣṇo vádhiṣo vajrahasta víśvā vṛtrámamitríyā śávobhiḥ ǁ

    pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra |
    vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ ||

    पिब॑ । सोम॑म् । अ॒भि । यम् । उ॒ग्र॒ । तर्दः॑ । ऊ॒र्वम् । गव्य॑म् । महि॑ । गृ॒णा॒नः । इ॒न्द्र॒ ।
    वि । यः । धृ॒ष्णो॒ इति॑ । वधि॑षः । व॒ज्र॒ऽह॒स्त॒ । विश्वा॑ । वृ॒त्रम् । अ॒मि॒त्रिया॑ । शवः॑ऽभिः ॥

    पिब । सोमम् । अभि । यम् । उग्र । तर्दः । ऊर्वम् । गव्यम् । महि । गृणानः । इन्द्र ।
    वि । यः । धृष्णो इति । वधिषः । वज्रऽहस्त । विश्वा । वृत्रम् । अमित्रिया । शवःऽभिः ॥

    píba ǀ sómam ǀ abhí ǀ yám ǀ ugra ǀ tárdaḥ ǀ ūrvám ǀ gávyam ǀ máhi ǀ gṛṇānáḥ ǀ indra ǀ
    ví ǀ yáḥ ǀ dhṛṣṇo íti ǀ vádhiṣaḥ ǀ vajra-hasta ǀ víśvā ǀ vṛtrám ǀ amitríyā ǀ śávaḥ-bhiḥ ǁ

    piba ǀ somam ǀ abhi ǀ yam ǀ ugra ǀ tardaḥ ǀ ūrvam ǀ gavyam ǀ mahi ǀ gṛṇānaḥ ǀ indra ǀ
    vi ǀ yaḥ ǀ dhṛṣṇo iti ǀ vadhiṣaḥ ǀ vajra-hasta ǀ viśvā ǀ vṛtram ǀ amitriyā ǀ śavaḥ-bhiḥ ǁ

    6.17.1 Aṣṭaka 4.6.1.1Anuvāka 6.2.49

  2. Ṛk 2

    स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नां ।
    यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इं॑द्र चि॒त्राँ अ॒भि तृं॑धि॒ वाजा॑न् ॥

    स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् |
    यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ||

    sá īm pāhi yá ṛjīṣī́ tárutro yáḥ śípravānvṛṣabhó yó matīnā́m ǀ
    yó gotrabhídvajrabhṛ́dyó hariṣṭhā́ḥ sá indra citrā́m̐ abhí tṛndhi vā́jān ǁ

    sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām |
    yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṃ abhi tṛndhi vājān ||

    सः । ई॒म् । पा॒हि॒ । यः । ऋ॒जी॒षी । तरु॑त्रः । यः । शिप्र॑ऽवान् । वृ॒ष॒भः । यः । म॒ती॒नाम् ।
    यः । गो॒त्र॒ऽभित् । व॒ज्र॒ऽभृत् । यः । ह॒रि॒ऽस्थाः । सः । इ॒न्द्र॒ । चि॒त्रान् । अ॒भि । तृ॒न्धि॒ । वाजा॑न् ॥

    सः । ईम् । पाहि । यः । ऋजीषी । तरुत्रः । यः । शिप्रऽवान् । वृषभः । यः । मतीनाम् ।
    यः । गोत्रऽभित् । वज्रऽभृत् । यः । हरिऽस्थाः । सः । इन्द्र । चित्रान् । अभि । तृन्धि । वाजान् ॥

    sáḥ ǀ īm ǀ pāhi ǀ yáḥ ǀ ṛjīṣī́ ǀ tárutraḥ ǀ yáḥ ǀ śípra-vān ǀ vṛṣabháḥ ǀ yáḥ ǀ matīnā́m ǀ
    yáḥ ǀ gotra-bhít ǀ vajra-bhṛ́t ǀ yáḥ ǀ hari-sthā́ḥ ǀ sáḥ ǀ indra ǀ citrā́n ǀ abhí ǀ tṛndhi ǀ vā́jān ǁ

    saḥ ǀ īm ǀ pāhi ǀ yaḥ ǀ ṛjīṣī ǀ tarutraḥ ǀ yaḥ ǀ śipra-vān ǀ vṛṣabhaḥ ǀ yaḥ ǀ matīnām ǀ
    yaḥ ǀ gotra-bhit ǀ vajra-bhṛt ǀ yaḥ ǀ hari-sthāḥ ǀ saḥ ǀ indra ǀ citrān ǀ abhi ǀ tṛndhi ǀ vājān ǁ

    6.17.2 Aṣṭaka 4.6.1.2Anuvāka 6.2.50

  3. Ṛk 3

    ए॒वा पा॑हि प्र॒त्नथा॒ मंद॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः ।
    आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इं॑द्र तृंधि ॥

    एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः |
    आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ||

    evā́ pāhi pratnáthā mándatu tvā śrudhí bráhma vāvṛdhásvotá gīrbhíḥ ǀ
    āvíḥ sū́ryam kṛṇuhí pīpihī́ṣo jahí śátrūm̐rabhí gā́ indra tṛndhi ǁ

    evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ |
    āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi ||

    ए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रु॒धि । ब्रह्म॑ । व॒वृ॒धस्व॑ । उ॒त । गीः॒ऽभिः ।
    आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒पि॒हि । इषः॑ । ज॒हि । शत्रू॑न् । अ॒भि । गाः । इ॒न्द्र॒ । तृ॒न्धि॒ ॥

    एव । पाहि । प्रत्नऽथा । मन्दतु । त्वा । श्रुधि । ब्रह्म । ववृधस्व । उत । गीःऽभिः ।
    आविः । सूर्यम् । कृणुहि । पीपिहि । इषः । जहि । शत्रून् । अभि । गाः । इन्द्र । तृन्धि ॥

    evá ǀ pāhi ǀ pratná-thā ǀ mándatu ǀ tvā ǀ śrudhí ǀ bráhma ǀ vavṛdhásva ǀ utá ǀ gīḥ-bhíḥ ǀ
    āvíḥ ǀ sū́ryam ǀ kṛṇuhí ǀ pīpihí ǀ íṣaḥ ǀ jahí ǀ śátrūn ǀ abhí ǀ gā́ḥ ǀ indra ǀ tṛndhi ǁ

    eva ǀ pāhi ǀ pratna-thā ǀ mandatu ǀ tvā ǀ śrudhi ǀ brahma ǀ vavṛdhasva ǀ uta ǀ gīḥ-bhiḥ ǀ
    āviḥ ǀ sūryam ǀ kṛṇuhi ǀ pīpihi ǀ iṣaḥ ǀ jahi ǀ śatrūn ǀ abhi ǀ gāḥ ǀ indra ǀ tṛndhi ǁ

    6.17.3 Aṣṭaka 4.6.1.3Anuvāka 6.2.51

  4. Ṛk 4

    ते त्वा॒ मदा॑ बृ॒हदिं॑द्र स्वधाव इ॒मे पी॒ता उ॑क्षयंत द्यु॒मंतं॑ ।
    म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषंत प्र॒साहं॑ ॥

    ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् |
    महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम् ||

    té tvā mádā bṛhádindra svadhāva imé pītā́ ukṣayanta dyumántam ǀ
    mahā́mánūnam tavásam víbhūtim matsarā́so jarhṛṣanta prasā́ham ǁ

    te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam |
    mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham ||

    ते । त्वा॒ । मदाः॑ । बृ॒हत् । इ॒न्द्र॒ । स्व॒धा॒ऽवः॒ । इ॒मे । पी॒ताः । उ॒क्ष॒य॒न्त॒ । द्यु॒ऽमन्त॑म् ।
    म॒हाम् । अनू॑नम् । त॒वस॑म् । विऽभू॑तिम् । म॒त्स॒रासः॑ । ज॒र्हृ॒ष॒न्त॒ । प्र॒ऽसह॑म् ॥

    ते । त्वा । मदाः । बृहत् । इन्द्र । स्वधाऽवः । इमे । पीताः । उक्षयन्त । द्युऽमन्तम् ।
    महाम् । अनूनम् । तवसम् । विऽभूतिम् । मत्सरासः । जर्हृषन्त । प्रऽसहम् ॥

    té ǀ tvā ǀ mádāḥ ǀ bṛhát ǀ indra ǀ svadhā-vaḥ ǀ imé ǀ pītā́ḥ ǀ ukṣayanta ǀ dyu-mántam ǀ
    mahā́m ǀ ánūnam ǀ tavásam ǀ ví-bhūtim ǀ matsarā́saḥ ǀ jarhṛṣanta ǀ pra-sáham ǁ

    te ǀ tvā ǀ madāḥ ǀ bṛhat ǀ indra ǀ svadhā-vaḥ ǀ ime ǀ pītāḥ ǀ ukṣayanta ǀ dyu-mantam ǀ
    mahām ǀ anūnam ǀ tavasam ǀ vi-bhūtim ǀ matsarāsaḥ ǀ jarhṛṣanta ǀ pra-saham ǁ

    6.17.4 Aṣṭaka 4.6.1.4Anuvāka 6.2.52

  5. Ṛk 5

    येभिः॒ सूर्य॑मु॒षसं॑ मंदसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् ।
    म॒हामद्रिं॒ परि॒ गा इं॑द्र॒ संतं॑ नु॒त्था अच्यु॑तं॒ सद॑सः॒ परि॒ स्वात् ॥

    येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृऌहानि दर्द्रत् |
    महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् ||

    yébhiḥ sū́ryamuṣásam mandasānó’vāsayó’pa dṛḷhā́ni dárdrat ǀ
    mahā́mádrim pári gā́ indra sántam nutthā́ ácyutam sádasaḥ pári svā́t ǁ

    yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛḷhāni dardrat |
    mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt ||

    येभिः॑ । सूर्य॑म् । उ॒षस॑म् । म॒न्द॒सा॒नः । अवा॑सयः । अप॑ । दृ॒ळ्हानि॑ । दर्द्र॑त् ।
    म॒हाम् । अद्रि॑म् । परि॑ । गाः । इ॒न्द्र॒ । सन्त॑म् । नु॒त्थाः । अच्यु॑तम् । सद॑सः । परि॑ । स्वात् ॥

    येभिः । सूर्यम् । उषसम् । मन्दसानः । अवासयः । अप । दृळ्हानि । दर्द्रत् ।
    महाम् । अद्रिम् । परि । गाः । इन्द्र । सन्तम् । नुत्थाः । अच्युतम् । सदसः । परि । स्वात् ॥

    yébhiḥ ǀ sū́ryam ǀ uṣásam ǀ mandasānáḥ ǀ ávāsayaḥ ǀ ápa ǀ dṛḷhā́ni ǀ dárdrat ǀ
    mahā́m ǀ ádrim ǀ pári ǀ gā́ḥ ǀ indra ǀ sántam ǀ nutthā́ḥ ǀ ácyutam ǀ sádasaḥ ǀ pári ǀ svā́t ǁ

    yebhiḥ ǀ sūryam ǀ uṣasam ǀ mandasānaḥ ǀ avāsayaḥ ǀ apa ǀ dṛḷhāni ǀ dardrat ǀ
    mahām ǀ adrim ǀ pari ǀ gāḥ ǀ indra ǀ santam ǀ nutthāḥ ǀ acyutam ǀ sadasaḥ ǀ pari ǀ svāt ǁ

    6.17.5 Aṣṭaka 4.6.1.5Anuvāka 6.2.53

  6. Ṛk 6

    तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः ।
    और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अंगि॑रस्वान् ॥

    तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि दीधः |
    और्णोर् दुर उस्रियाभ्यो वि दृऌहोद् ऊर्वाद् गा असृजो अङ्गिरस्वान् ||

    táva krátvā táva táddaṃsánābhirāmā́su pakvám śácyā ní dīdhaḥ ǀ
    áurṇordúra usríyābhyo ví dṛḷhódūrvā́dgā́ asṛjo áṅgirasvān ǁ

    tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ |
    aurṇor dura usriyābhyo vi dṛḷhod ūrvād gā asṛjo aṅgirasvān ||

    तव॑ । क्रत्वा॑ । तव॑ । तत् । दं॒सना॑भिः । आ॒मासु॑ । प॒क्वम् । शच्या॑ । नि । दी॒ध॒रिति॑ दीधः ।
    और्णोः॑ । दुरः॑ । उ॒स्रिया॑भ्यः । वि । दृ॒ळ्हा । उत् । ऊ॒र्वात् । गाः । अ॒सृ॒जः॒ । अङ्गि॑रस्वान् ॥

    तव । क्रत्वा । तव । तत् । दंसनाभिः । आमासु । पक्वम् । शच्या । नि । दीधरिति दीधः ।
    और्णोः । दुरः । उस्रियाभ्यः । वि । दृळ्हा । उत् । ऊर्वात् । गाः । असृजः । अङ्गिरस्वान् ॥

    táva ǀ krátvā ǀ táva ǀ tát ǀ daṃsánābhiḥ ǀ āmā́su ǀ pakvám ǀ śácyā ǀ ní ǀ dīdharíti dīdhaḥ ǀ
    áurṇoḥ ǀ dúraḥ ǀ usríyābhyaḥ ǀ ví ǀ dṛḷhā́ ǀ út ǀ ūrvā́t ǀ gā́ḥ ǀ asṛjaḥ ǀ áṅgirasvān ǁ

    tava ǀ kratvā ǀ tava ǀ tat ǀ daṃsanābhiḥ ǀ āmāsu ǀ pakvam ǀ śacyā ǀ ni ǀ dīdhariti dīdhaḥ ǀ
    aurṇoḥ ǀ duraḥ ǀ usriyābhyaḥ ǀ vi ǀ dṛḷhā ǀ ut ǀ ūrvāt ǀ gāḥ ǀ asṛjaḥ ǀ aṅgirasvān ǁ

    6.17.6 Aṣṭaka 4.6.2.1Anuvāka 6.2.54

  7. Ṛk 7

    प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदिं॑द्र स्तभायः ।
    अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥

    पप्राथ क्षाम् महि दंसो व्य् उर्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः |
    अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ||

    paprā́tha kṣā́m máhi dáṃso vyúrvī́múpa dyā́mṛṣvó bṛhádindra stabhāyaḥ ǀ
    ádhārayo ródasī deváputre pratné mātárā yahvī́ ṛtásya ǁ

    paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ |
    adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||

    प॒प्राथ॑ । क्षाम् । महि॑ । दंसः॑ । वि । उ॒र्वीम् । उप॑ । द्याम् । ऋ॒ष्वः । बृ॒हत् । इ॒न्द्र॒ । स्त॒भा॒यः॒ ।
    अधा॑रयः । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । प्र॒त्ने इति॑ । मा॒तरा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ ॥

    पप्राथ । क्षाम् । महि । दंसः । वि । उर्वीम् । उप । द्याम् । ऋष्वः । बृहत् । इन्द्र । स्तभायः ।
    अधारयः । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । प्रत्ने इति । मातरा । यह्वी इति । ऋतस्य ॥

    paprā́tha ǀ kṣā́m ǀ máhi ǀ dáṃsaḥ ǀ ví ǀ urvī́m ǀ úpa ǀ dyā́m ǀ ṛṣváḥ ǀ bṛhát ǀ indra ǀ stabhāyaḥ ǀ
    ádhārayaḥ ǀ ródasī íti ǀ deváputre íti devá-putre ǀ pratné íti ǀ mātárā ǀ yahvī́ íti ǀ ṛtásya ǁ

    paprātha ǀ kṣām ǀ mahi ǀ daṃsaḥ ǀ vi ǀ urvīm ǀ upa ǀ dyām ǀ ṛṣvaḥ ǀ bṛhat ǀ indra ǀ stabhāyaḥ ǀ
    adhārayaḥ ǀ rodasī iti ǀ devaputre iti deva-putre ǀ pratne iti ǀ mātarā ǀ yahvī iti ǀ ṛtasya ǁ

    6.17.7 Aṣṭaka 4.6.2.2Anuvāka 6.2.55

  8. Ṛk 8

    अध॑ त्वा॒ विश्वे॑ पु॒र इं॑द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य ।
    अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्त्स्व॑र्षाता वृणत॒ इंद्र॒मत्र॑ ॥

    अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय |
    अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र ||

    ádha tvā víśve purá indra devā́ ékam tavásam dadhire bhárāya ǀ
    ádevo yádabhyáuhiṣṭa devā́ntsvárṣātā vṛṇata índramátra ǁ

    adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya |
    adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra ||

    अध॑ । त्वा॒ । विश्वे॑ । पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक॑म् । त॒वस॑म् । द॒धि॒रे॒ । भरा॑य ।
    अदे॑वः । यत् । अ॒भि । औहि॑ष्ट । दे॒वान् । स्वः॑ऽसाता । वृ॒ण॒ते॒ । इन्द्र॑म् । अत्र॑ ॥

    अध । त्वा । विश्वे । पुरः । इन्द्र । देवाः । एकम् । तवसम् । दधिरे । भराय ।
    अदेवः । यत् । अभि । औहिष्ट । देवान् । स्वःऽसाता । वृणते । इन्द्रम् । अत्र ॥

    ádha ǀ tvā ǀ víśve ǀ puráḥ ǀ indra ǀ devā́ḥ ǀ ékam ǀ tavásam ǀ dadhire ǀ bhárāya ǀ
    ádevaḥ ǀ yát ǀ abhí ǀ áuhiṣṭa ǀ devā́n ǀ sváḥ-sātā ǀ vṛṇate ǀ índram ǀ átra ǁ

    adha ǀ tvā ǀ viśve ǀ puraḥ ǀ indra ǀ devāḥ ǀ ekam ǀ tavasam ǀ dadhire ǀ bharāya ǀ
    adevaḥ ǀ yat ǀ abhi ǀ auhiṣṭa ǀ devān ǀ svaḥ-sātā ǀ vṛṇate ǀ indram ǀ atra ǁ

    6.17.8 Aṣṭaka 4.6.2.3Anuvāka 6.2.56

  9. Ṛk 9

    अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
    अहिं॒ यदिंद्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे॑ ज॒घान॑ ॥

    अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः |
    अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ||

    ádha dyáuścitte ápa sā́ nú vájrāddvitā́namadbhiyásā svásya manyóḥ ǀ
    áhim yádíndro abhyóhasānam ní cidviśvā́yuḥ śayáthe jaghā́na ǁ

    adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
    ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||

    अध॑ । द्यौः । चि॒त् । ते॒ । अप॑ । सा । नु । वज्रा॑त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।
    अहि॑म् । यत् । इन्द्रः॑ । अ॒भि । ओह॑सानम् । नि । चि॒त् । वि॒श्वऽआ॑युः । श॒यथे॑ । ज॒घान॑ ॥

    अध । द्यौः । चित् । ते । अप । सा । नु । वज्रात् । द्विता । अनमत् । भियसा । स्वस्य । मन्योः ।
    अहिम् । यत् । इन्द्रः । अभि । ओहसानम् । नि । चित् । विश्वऽआयुः । शयथे । जघान ॥

    ádha ǀ dyáuḥ ǀ cit ǀ te ǀ ápa ǀ sā́ ǀ nú ǀ vájrāt ǀ dvitā́ ǀ anamat ǀ bhiyásā ǀ svásya ǀ manyóḥ ǀ
    áhim ǀ yát ǀ índraḥ ǀ abhí ǀ óhasānam ǀ ní ǀ cit ǀ viśvá-āyuḥ ǀ śayáthe ǀ jaghā́na ǁ

    adha ǀ dyauḥ ǀ cit ǀ te ǀ apa ǀ sā ǀ nu ǀ vajrāt ǀ dvitā ǀ anamat ǀ bhiyasā ǀ svasya ǀ manyoḥ ǀ
    ahim ǀ yat ǀ indraḥ ǀ abhi ǀ ohasānam ǀ ni ǀ cit ǀ viśva-āyuḥ ǀ śayathe ǀ jaghāna ǁ

    6.17.9 Aṣṭaka 4.6.2.4Anuvāka 6.2.57

  10. Ṛk 10

    अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रिं॑ ।
    निका॑मम॒रम॑णसं॒ येन॒ नवं॑त॒महिं॒ सं पि॑णगृजीषिन् ॥

    अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच् छताश्रिम् |
    निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन् ||

    ádha tváṣṭā te mahá ugra vájram sahásrabhṛṣṭim vavṛtacchatā́śrim ǀ
    níkāmamarámaṇasam yéna návantamáhim sám piṇagṛjīṣin ǁ

    adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtac chatāśrim |
    nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin ||

    अध॑ । त्वष्टा॑ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टिम् । व॒वृ॒त॒त् । श॒तऽअ॑श्रिम् ।
    निऽका॑मम् । अ॒रऽम॑नसम् । येन॑ । नव॑न्तम् । अहि॑म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥

    अध । त्वष्टा । ते । महः । उग्र । वज्रम् । सहस्रऽभृष्टिम् । ववृतत् । शतऽअश्रिम् ।
    निऽकामम् । अरऽमनसम् । येन । नवन्तम् । अहिम् । सम् । पिणक् । ऋजीषिन् ॥

    ádha ǀ tváṣṭā ǀ te ǀ maháḥ ǀ ugra ǀ vájram ǀ sahásra-bhṛṣṭim ǀ vavṛtat ǀ śatá-aśrim ǀ
    ní-kāmam ǀ ará-manasam ǀ yéna ǀ návantam ǀ áhim ǀ sám ǀ piṇak ǀ ṛjīṣin ǁ

    adha ǀ tvaṣṭā ǀ te ǀ mahaḥ ǀ ugra ǀ vajram ǀ sahasra-bhṛṣṭim ǀ vavṛtat ǀ śata-aśrim ǀ
    ni-kāmam ǀ ara-manasam ǀ yena ǀ navantam ǀ ahim ǀ sam ǀ piṇak ǀ ṛjīṣin ǁ

    6.17.10 Aṣṭaka 4.6.2.5Anuvāka 6.2.58

  11. Ṛk 11

    वर्धा॒न्यं विश्वे॑ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ इं॑द्र॒ तुभ्यं॑ ।
    पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥

    वर्धान् यं विश्वे मरुतः सजोषाः पचच् छतम् महिषां इन्द्र तुभ्यम् |
    पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम् अंशुम् अस्मै ||

    várdhānyám víśve marútaḥ sajóṣāḥ pácacchatám mahiṣā́m̐ indra túbhyam ǀ
    pūṣā́ víṣṇustrī́ṇi sárāṃsi dhāvanvṛtraháṇam madirámaṃśúmasmai ǁ

    vardhān yaṃ viśve marutaḥ sajoṣāḥ pacac chatam mahiṣāṃ indra tubhyam |
    pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai ||

    वर्धा॑न् । यम् । विश्वे॑ । म॒रुतः॑ । स॒ऽजोषाः॑ । पच॑त् । श॒तम् । म॒हि॒षान् । इ॒न्द्र॒ । तुभ्य॑म् ।
    पू॒षा । विष्णुः॑ । त्रीणि॑ । सरां॑सि । धा॒व॒न् । वृ॒त्र॒ऽहन॑म् । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ ॥

    वर्धान् । यम् । विश्वे । मरुतः । सऽजोषाः । पचत् । शतम् । महिषान् । इन्द्र । तुभ्यम् ।
    पूषा । विष्णुः । त्रीणि । सरांसि । धावन् । वृत्रऽहनम् । मदिरम् । अंशुम् । अस्मै ॥

    várdhān ǀ yám ǀ víśve ǀ marútaḥ ǀ sa-jóṣāḥ ǀ pácat ǀ śatám ǀ mahiṣā́n ǀ indra ǀ túbhyam ǀ
    pūṣā́ ǀ víṣṇuḥ ǀ trī́ṇi ǀ sárāṃsi ǀ dhāvan ǀ vṛtra-hánam ǀ madirám ǀ aṃśúm ǀ asmai ǁ

    vardhān ǀ yam ǀ viśve ǀ marutaḥ ǀ sa-joṣāḥ ǀ pacat ǀ śatam ǀ mahiṣān ǀ indra ǀ tubhyam ǀ
    pūṣā ǀ viṣṇuḥ ǀ trīṇi ǀ sarāṃsi ǀ dhāvan ǀ vṛtra-hanam ǀ madiram ǀ aṃśum ǀ asmai ǁ

    6.17.11 Aṣṭaka 4.6.3.1Anuvāka 6.2.59

  12. Ṛk 12

    आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पां ।
    तासा॒मनु॑ प्र॒वत॑ इंद्र॒ पंथां॒ प्रार्द॑यो॒ नीची॑र॒पसः॑ समु॒द्रं ॥

    आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् |
    तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ||

    ā́ kṣódo máhi vṛtám nadī́nām páriṣṭhitamasṛja ūrmímapā́m ǀ
    tā́sāmánu praváta indra pánthām prā́rdayo nī́cīrapásaḥ samudrám ǁ

    ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām |
    tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram ||

    आ । क्षोदः॑ । महि॑ । वृ॒तम् । न॒दीना॑म् । परि॑ऽस्थितम् । अ॒सृ॒जः॒ । ऊ॒र्मिम् । अ॒पाम् ।
    तासा॑म् । अनु॑ । प्र॒ऽवतः॑ । इ॒न्द्र॒ । पन्था॑म् । प्र । आ॒र्द॒यः॒ । नीचीः॑ । अ॒पसः॑ । स॒मु॒द्रम् ॥

    आ । क्षोदः । महि । वृतम् । नदीनाम् । परिऽस्थितम् । असृजः । ऊर्मिम् । अपाम् ।
    तासाम् । अनु । प्रऽवतः । इन्द्र । पन्थाम् । प्र । आर्दयः । नीचीः । अपसः । समुद्रम् ॥

    ā́ ǀ kṣódaḥ ǀ máhi ǀ vṛtám ǀ nadī́nām ǀ pári-sthitam ǀ asṛjaḥ ǀ ūrmím ǀ apā́m ǀ
    tā́sām ǀ ánu ǀ pra-vátaḥ ǀ indra ǀ pánthām ǀ prá ǀ ārdayaḥ ǀ nī́cīḥ ǀ apásaḥ ǀ samudrám ǁ

    ā ǀ kṣodaḥ ǀ mahi ǀ vṛtam ǀ nadīnām ǀ pari-sthitam ǀ asṛjaḥ ǀ ūrmim ǀ apām ǀ
    tāsām ǀ anu ǀ pra-vataḥ ǀ indra ǀ panthām ǀ pra ǀ ārdayaḥ ǀ nīcīḥ ǀ apasaḥ ǀ samudram ǁ

    6.17.12 Aṣṭaka 4.6.3.2Anuvāka 6.2.60

  13. Ṛk 13

    ए॒वा ता विश्वा॑ चकृ॒वांस॒मिंद्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दां ।
    सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥

    एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं सहोदाम् |
    सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात् ||

    evā́ tā́ víśvā cakṛvā́ṃsamíndram mahā́mugrámajuryám sahodā́m ǀ
    suvī́ram tvā svāyudhám suvájramā́ bráhma návyamávase vavṛtyāt ǁ

    evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām |
    suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt ||

    ए॒व । ता । विश्वा॑ । च॒कृ॒ऽवांस॑म् । इन्द्र॑म् । म॒हाम् । उ॒ग्रम् । अ॒जु॒र्यम् । स॒हः॒ऽदाम् ।
    सु॒ऽवीर॑म् । त्वा॒ । सु॒ऽआ॒यु॒धम् । सु॒ऽवज्र॑म् । आ । ब्रह्म॑ । नव्य॑म् । अव॑से । व॒वृ॒त्या॒त् ॥

    एव । ता । विश्वा । चकृऽवांसम् । इन्द्रम् । महाम् । उग्रम् । अजुर्यम् । सहःऽदाम् ।
    सुऽवीरम् । त्वा । सुऽआयुधम् । सुऽवज्रम् । आ । ब्रह्म । नव्यम् । अवसे । ववृत्यात् ॥

    evá ǀ tā́ ǀ víśvā ǀ cakṛ-vā́ṃsam ǀ índram ǀ mahā́m ǀ ugrám ǀ ajuryám ǀ sahaḥ-dā́m ǀ
    su-vī́ram ǀ tvā ǀ su-āyudhám ǀ su-vájram ǀ ā́ ǀ bráhma ǀ návyam ǀ ávase ǀ vavṛtyāt ǁ

    eva ǀ tā ǀ viśvā ǀ cakṛ-vāṃsam ǀ indram ǀ mahām ǀ ugram ǀ ajuryam ǀ sahaḥ-dām ǀ
    su-vīram ǀ tvā ǀ su-āyudham ǀ su-vajram ǀ ā ǀ brahma ǀ navyam ǀ avase ǀ vavṛtyāt ǁ

    6.17.13 Aṣṭaka 4.6.3.3Anuvāka 6.2.61

  14. Ṛk 14

    स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इंद्र॒ विप्रा॑न् ।
    भ॒रद्वा॑जे नृ॒वत॑ इंद्र सू॒रींदि॒वि च॑ स्मैधि॒ पार्ये॑ न इंद्र ॥

    स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् |
    भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र ||

    sá no vā́jāya śrávasa iṣé ca rāyé dhehi dyumáta indra víprān ǀ
    bharádvāje nṛváta indra sūrī́ndiví ca smaidhi pā́rye na indra ǁ

    sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
    bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra ||

    सः । नः॒ । वाजा॑य । श्रव॑से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒ऽमतः॑ । इ॒न्द्र॒ । विप्रा॑न् ।
    भ॒रत्ऽवा॑जे । नृ॒ऽवतः॑ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये॑ । नः॒ । इ॒न्द्र॒ ॥

    सः । नः । वाजाय । श्रवसे । इषे । च । राये । धेहि । द्युऽमतः । इन्द्र । विप्रान् ।
    भरत्ऽवाजे । नृऽवतः । इन्द्र । सूरीन् । दिवि । च । स्म । एधि । पार्ये । नः । इन्द्र ॥

    sáḥ ǀ naḥ ǀ vā́jāya ǀ śrávase ǀ iṣé ǀ ca ǀ rāyé ǀ dhehi ǀ dyu-mátaḥ ǀ indra ǀ víprān ǀ
    bharát-vāje ǀ nṛ-vátaḥ ǀ indra ǀ sūrī́n ǀ diví ǀ ca ǀ sma ǀ edhi ǀ pā́rye ǀ naḥ ǀ indra ǁ

    saḥ ǀ naḥ ǀ vājāya ǀ śravase ǀ iṣe ǀ ca ǀ rāye ǀ dhehi ǀ dyu-mataḥ ǀ indra ǀ viprān ǀ
    bharat-vāje ǀ nṛ-vataḥ ǀ indra ǀ sūrīn ǀ divi ǀ ca ǀ sma ǀ edhi ǀ pārye ǀ naḥ ǀ indra ǁ

    6.17.14 Aṣṭaka 4.6.3.4Anuvāka 6.2.62

  15. Ṛk 15

    अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥

    अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ||

    ayā́ vā́jam deváhitam sanema mádema śatáhimāḥ suvī́rāḥ ǁ

    ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||

    अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

    अया । वाजम् । देवऽहितम् । सनेम । मदेम । शतऽहिमाः । सुऽवीराः ॥

    ayā́ ǀ vā́jam ǀ devá-hitam ǀ sanema ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ

    ayā ǀ vājam ǀ deva-hitam ǀ sanema ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ

    6.17.15 Aṣṭaka 4.6.3.5Anuvāka 6.2.63

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.17 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

DRINK Soma, Mighty One, for which, when lauded, thou breakest through the cattle-stall, O Indra; Thou who, O Bold One, armed with thunder smotest Vṛtra with might, and every hostile being.

Ṛk 2

Drink it thou God who art impetuous victor, Lord of our hymns, with beauteousjaws, the Hero, Render of kine-stalls, car-borne, thunder-wielding, so pierce thy way to wondrous strength, O Indra.

Ṛk 3

Drink as of old, and let the draught delight thee. hear thou our prayer and let our songs exalt thee. Make the Sun visible, make food abundant, slaughter the foes, pierce through and free the cattle.

Ṛk 4

These gladdening drops, O Indra, Self-sustainer, quaffed shall augment thee in thy mighty splendour. Yea, let the cheering drops delight thee greatly, great, perfect, strong, powerful, all-subduing.

Ṛk 5

Gladdened whereby, bursting the firm enclosures, thou gavest splendour to the Sun and Morning. The mighty rock that compassed in the cattle, ne’er moved, thou shookest from its seat, O Indra.

Ṛk 6

Thou with thy wisdom, power, and works of wonder, hast stored the ripe milk in the raw cows' udders Unbarred the firm doors for the kine of Morning, and, with the Aṅgirases, set free the cattle.

Ṛk 7

Thou hast spread out wide earth, a mighty marvel, and, high thyself, propped lofty heaven, O Indra. Both worlds, whose Sons are Gods, thou hast supported, young, Mothers from old time ofholy Order.

Ṛk 8

Yea, Indra, all the Deities installed thee their one strong Champion in the van for battle. What time the godless was the Gods’ assailant, Indra they chose to win the light of heaven.

Ṛk 9

Yea, e’en that heaven itself of old bent backward before thy bolt, in terror of its anger, When Indra, life of every living creature, smote down within his lair the assailing Dragon.

Ṛk 10

Yea, Strong One! Tvaṣṭar turned for thee, the Mighty, the bolt with thousand spikes and hundred edges, Eager and prompt at will, wherewith thou crushedst the boasting Dragon, O impetuous Hero.

Ṛk 11

He dressed a hundred buffaloes, O Indra, for thee whom all accordant Maruts strengthen. He, Pūṣan Viṣṇu, poured forth three great vessels to him, the juice that cheers, that slaughters Vṛtra.

Ṛk 12

Thou settest free the rushing wave of waters, the floods' great swell encompassed and obstructed. Along steep slopes their course thou tumedst, Indra, directed downward, speeding to the ocean.

Ṛk 13

So may our new prayer bring thee to protect us, thee well-armed Hero with thy bolt of thunder, Indra, who made these worlds, the Strong, the ty, who never groweth old, the victory-giver.

Ṛk 14

So, Indra, form us brilliant holy singers for strength, for glory, and for food and riches. Give Bharadvāja hero patrons, Indra Indra, be ours upon the day of trial.