Ṛk 6.17.9
Saṃhitā
अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
अहिं॒ यदिंद्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे॑ ज॒घान॑ ॥
अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः |
अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ||
ádha dyáuścitte ápa sā́ nú vájrāddvitā́namadbhiyásā svásya manyóḥ ǀ
áhim yádíndro abhyóhasānam ní cidviśvā́yuḥ śayáthe jaghā́na ǁ
adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||
Padapāṭha
अध॑ । द्यौः । चि॒त् । ते॒ । अप॑ । सा । नु । वज्रा॑त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।
अहि॑म् । यत् । इन्द्रः॑ । अ॒भि । ओह॑सानम् । नि । चि॒त् । वि॒श्वऽआ॑युः । श॒यथे॑ । ज॒घान॑ ॥
अध । द्यौः । चित् । ते । अप । सा । नु । वज्रात् । द्विता । अनमत् । भियसा । स्वस्य । मन्योः ।
अहिम् । यत् । इन्द्रः । अभि । ओहसानम् । नि । चित् । विश्वऽआयुः । शयथे । जघान ॥
ádha ǀ dyáuḥ ǀ cit ǀ te ǀ ápa ǀ sā́ ǀ nú ǀ vájrāt ǀ dvitā́ ǀ anamat ǀ bhiyásā ǀ svásya ǀ manyóḥ ǀ
áhim ǀ yát ǀ índraḥ ǀ abhí ǀ óhasānam ǀ ní ǀ cit ǀ viśvá-āyuḥ ǀ śayáthe ǀ jaghā́na ǁ
adha ǀ dyauḥ ǀ cit ǀ te ǀ apa ǀ sā ǀ nu ǀ vajrāt ǀ dvitā ǀ anamat ǀ bhiyasā ǀ svasya ǀ manyoḥ ǀ
ahim ǀ yat ǀ indraḥ ǀ abhi ǀ ohasānam ǀ ni ǀ cit ǀ viśva-āyuḥ ǀ śayathe ǀ jaghāna ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.017.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.02.04
- Maṇḍala · Anuvāka · Ṛk
- 06.02.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.