Ṛk 6.17.1
Saṃhitā
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इं॑द्र ।
वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥
पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र |
वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ||
píbā sómamabhí yámugra tárda ūrvám gávyam máhi gṛṇāná indra ǀ
ví yó dhṛṣṇo vádhiṣo vajrahasta víśvā vṛtrámamitríyā śávobhiḥ ǁ
pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra |
vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ ||
Padapāṭha
पिब॑ । सोम॑म् । अ॒भि । यम् । उ॒ग्र॒ । तर्दः॑ । ऊ॒र्वम् । गव्य॑म् । महि॑ । गृ॒णा॒नः । इ॒न्द्र॒ ।
वि । यः । धृ॒ष्णो॒ इति॑ । वधि॑षः । व॒ज्र॒ऽह॒स्त॒ । विश्वा॑ । वृ॒त्रम् । अ॒मि॒त्रिया॑ । शवः॑ऽभिः ॥
पिब । सोमम् । अभि । यम् । उग्र । तर्दः । ऊर्वम् । गव्यम् । महि । गृणानः । इन्द्र ।
वि । यः । धृष्णो इति । वधिषः । वज्रऽहस्त । विश्वा । वृत्रम् । अमित्रिया । शवःऽभिः ॥
píba ǀ sómam ǀ abhí ǀ yám ǀ ugra ǀ tárdaḥ ǀ ūrvám ǀ gávyam ǀ máhi ǀ gṛṇānáḥ ǀ indra ǀ
ví ǀ yáḥ ǀ dhṛṣṇo íti ǀ vádhiṣaḥ ǀ vajra-hasta ǀ víśvā ǀ vṛtrám ǀ amitríyā ǀ śávaḥ-bhiḥ ǁ
piba ǀ somam ǀ abhi ǀ yam ǀ ugra ǀ tardaḥ ǀ ūrvam ǀ gavyam ǀ mahi ǀ gṛṇānaḥ ǀ indra ǀ
vi ǀ yaḥ ǀ dhṛṣṇo iti ǀ vadhiṣaḥ ǀ vajra-hasta ǀ viśvā ǀ vṛtram ǀ amitriyā ǀ śavaḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.017.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.01.01
- Maṇḍala · Anuvāka · Ṛk
- 06.02.049
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.