Sūkta 37
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 4, 5); nicṛtpaṅkti (2, 3)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेंद्र॑ यु॒क्तासो॒ हर॑यो वहंतु ।
की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु |
कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य ||arvā́grátham viśvávāram ta ugréndra yuktā́so hárayo vahantu ǀ
kīríściddhí tvā hávate svárvānṛdhīmáhi sadhamā́daste adyá ǁarvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu |
kīriś cid dhi tvā havate svarvān ṛdhīmahi sadhamādas te adya ||अ॒र्वाक् । रथ॑म् । वि॒श्वऽवा॑रम् । ते॒ । उ॒ग्र॒ । इन्द्र॑ । यु॒क्तासः॑ । हर॑यः । व॒ह॒न्तु॒ ।
की॒रिः । चि॒त् । हि । त्वा॒ । हव॑ते । स्वः॑ऽवान् । ऋ॒धी॒महि॑ । स॒ध॒ऽमादः॑ । ते॒ । अ॒द्य ॥अर्वाक् । रथम् । विश्वऽवारम् । ते । उग्र । इन्द्र । युक्तासः । हरयः । वहन्तु ।
कीरिः । चित् । हि । त्वा । हवते । स्वःऽवान् । ऋधीमहि । सधऽमादः । ते । अद्य ॥arvā́k ǀ rátham ǀ viśvá-vāram ǀ te ǀ ugra ǀ índra ǀ yuktā́saḥ ǀ hárayaḥ ǀ vahantu ǀ
kīríḥ ǀ cit ǀ hí ǀ tvā ǀ hávate ǀ sváḥ-vān ǀ ṛdhīmáhi ǀ sadha-mā́daḥ ǀ te ǀ adyá ǁarvāk ǀ ratham ǀ viśva-vāram ǀ te ǀ ugra ǀ indra ǀ yuktāsaḥ ǀ harayaḥ ǀ vahantu ǀ
kīriḥ ǀ cit ǀ hi ǀ tvā ǀ havate ǀ svaḥ-vān ǀ ṛdhīmahi ǀ sadha-mādaḥ ǀ te ǀ adya ǁ6.37.1 Aṣṭaka 4.7.9.1Anuvāka 6.3.85
-
Ṛk 2
प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्यं॑तो अभूवन् ।
इंद्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् |
इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ||pró dróṇe hárayaḥ kármāgmanpunānā́sa ṛ́jyanto abhūvan ǀ
índro no asyá pūrvyáḥ papīyāddyukṣó mádasya somyásya rā́jā ǁpro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan |
indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā ||प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् ।
इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य॑ । राजा॑ ॥प्रो इति । द्रोणे । हरयः । कर्म । अग्मन् । पुनानासः । ऋज्यन्तः । अभूवन् ।
इन्द्रः । नः । अस्य । पूर्व्यः । पपीयात् । द्युक्षः । मदस्य । सोम्यस्य । राजा ॥pró íti ǀ dróṇe ǀ hárayaḥ ǀ kárma ǀ agman ǀ punānā́saḥ ǀ ṛ́jyantaḥ ǀ abhūvan ǀ
índraḥ ǀ naḥ ǀ asyá ǀ pūrvyáḥ ǀ papīyāt ǀ dyukṣáḥ ǀ mádasya ǀ somyásya ǀ rā́jā ǁpro iti ǀ droṇe ǀ harayaḥ ǀ karma ǀ agman ǀ punānāsaḥ ǀ ṛjyantaḥ ǀ abhūvan ǀ
indraḥ ǀ naḥ ǀ asya ǀ pūrvyaḥ ǀ papīyāt ǀ dyukṣaḥ ǀ madasya ǀ somyasya ǀ rājā ǁ6.37.2 Aṣṭaka 4.7.9.2Anuvāka 6.3.86
-
Ṛk 3
आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेंद्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वाः॑ ।
अ॒भि श्रव॒ ऋज्यं॑तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥आसस्राणासः शवसानम् अच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः |
अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि दस्येत् ||āsasrāṇā́saḥ śavasānámácchéndram sucakré rathyā́so áśvāḥ ǀ
abhí śráva ṛ́jyanto vaheyurnū́ cinnú vāyóramṛ́tam ví dasyet ǁāsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ |
abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet ||आ॒ऽस॒स्रा॒णासः॑ । श॒व॒सा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वाः॑ ।
अ॒भि । श्रवः॑ । ऋज्य॑न्तः । व॒हे॒युः॒ । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑म् । वि । द॒स्ये॒त् ॥आऽसस्राणासः । शवसानम् । अच्छ । इन्द्रम् । सुऽचक्रे । रथ्यासः । अश्वाः ।
अभि । श्रवः । ऋज्यन्तः । वहेयुः । नु । चित् । नु । वायोः । अमृतम् । वि । दस्येत् ॥ā-sasrāṇā́saḥ ǀ śavasānám ǀ áccha ǀ índram ǀ su-cakré ǀ rathyā́saḥ ǀ áśvāḥ ǀ
abhí ǀ śrávaḥ ǀ ṛ́jyantaḥ ǀ vaheyuḥ ǀ nú ǀ cit ǀ nú ǀ vāyóḥ ǀ amṛ́tam ǀ ví ǀ dasyet ǁā-sasrāṇāsaḥ ǀ śavasānam ǀ accha ǀ indram ǀ su-cakre ǀ rathyāsaḥ ǀ aśvāḥ ǀ
abhi ǀ śravaḥ ǀ ṛjyantaḥ ǀ vaheyuḥ ǀ nu ǀ cit ǀ nu ǀ vāyoḥ ǀ amṛtam ǀ vi ǀ dasyet ǁ6.37.3 Aṣṭaka 4.7.9.3Anuvāka 6.3.87
-
Ṛk 4
वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तींद्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः ।
यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां तुविकूर्मितमः |
यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि सूरीन् ||váriṣṭho asya dákṣiṇāmiyartī́ndro maghónām tuvikūrmítamaḥ ǀ
yáyā vajrivaḥ pariyā́syáṃho maghā́ ca dhṛṣṇo dáyase ví sūrī́n ǁvariṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ |
yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn ||वरि॑ष्ठः । अ॒स्य॒ । दक्षि॑णाम् । इ॒य॒र्ति॒ । इन्द्रः॑ । म॒घोना॑म् । तु॒वि॒कू॒र्मिऽत॑मः ।
यया॑ । व॒ज्रि॒ऽवः॒ । प॒रि॒ऽयासि॑ । अंहः॑ । म॒घा । च॒ । धृ॒ष्णो॒ इति॑ । दय॑से । वि । सू॒रीन् ॥वरिष्ठः । अस्य । दक्षिणाम् । इयर्ति । इन्द्रः । मघोनाम् । तुविकूर्मिऽतमः ।
यया । वज्रिऽवः । परिऽयासि । अंहः । मघा । च । धृष्णो इति । दयसे । वि । सूरीन् ॥váriṣṭhaḥ ǀ asya ǀ dákṣiṇām ǀ iyarti ǀ índraḥ ǀ maghónām ǀ tuvikūrmí-tamaḥ ǀ
yáyā ǀ vajri-vaḥ ǀ pari-yā́si ǀ áṃhaḥ ǀ maghā́ ǀ ca ǀ dhṛṣṇo íti ǀ dáyase ǀ ví ǀ sūrī́n ǁvariṣṭhaḥ ǀ asya ǀ dakṣiṇām ǀ iyarti ǀ indraḥ ǀ maghonām ǀ tuvikūrmi-tamaḥ ǀ
yayā ǀ vajri-vaḥ ǀ pari-yāsi ǀ aṃhaḥ ǀ maghā ǀ ca ǀ dhṛṣṇo iti ǀ dayase ǀ vi ǀ sūrīn ǁ6.37.4 Aṣṭaka 4.7.9.4Anuvāka 6.3.88
-
Ṛk 5
इंद्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेंद्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः ।
इंद्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां वृद्धमहाः |
इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ||índro vā́jasya sthávirasya dāténdro gīrbhírvardhatām vṛddhámahāḥ ǀ
índro vṛtrám hániṣṭho astu sátvā́ tā́ sūríḥ pṛṇati tū́tujānaḥ ǁindro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ |
indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||इन्द्रः॑ । वाज॑स्य । स्थवि॑रस्य । दा॒ता । इन्द्रः॑ । गीः॒ऽभिः । व॒र्ध॒ता॒म् । वृ॒द्धऽम॑हाः ।
इन्द्रः॑ । वृ॒त्रम् । हनि॑ष्ठः । अ॒स्तु॒ । सत्वा॑ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः ॥इन्द्रः । वाजस्य । स्थविरस्य । दाता । इन्द्रः । गीःऽभिः । वर्धताम् । वृद्धऽमहाः ।
इन्द्रः । वृत्रम् । हनिष्ठः । अस्तु । सत्वा । आ । ता । सूरिः । पृणति । तूतुजानः ॥índraḥ ǀ vā́jasya ǀ sthávirasya ǀ dātā́ ǀ índraḥ ǀ gīḥ-bhíḥ ǀ vardhatām ǀ vṛddhá-mahāḥ ǀ
índraḥ ǀ vṛtrám ǀ hániṣṭhaḥ ǀ astu ǀ sátvā ǀ ā́ ǀ tā́ ǀ sūríḥ ǀ pṛṇati ǀ tū́tujānaḥ ǁindraḥ ǀ vājasya ǀ sthavirasya ǀ dātā ǀ indraḥ ǀ gīḥ-bhiḥ ǀ vardhatām ǀ vṛddha-mahāḥ ǀ
indraḥ ǀ vṛtram ǀ haniṣṭhaḥ ǀ astu ǀ satvā ǀ ā ǀ tā ǀ sūriḥ ǀ pṛṇati ǀ tūtujānaḥ ǁ6.37.5 Aṣṭaka 4.7.9.5Anuvāka 6.3.89
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.