Ṛk 6.37.2
Saṃhitā
प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्यं॑तो अभूवन् ।
इंद्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥
प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् |
इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ||
pró dróṇe hárayaḥ kármāgmanpunānā́sa ṛ́jyanto abhūvan ǀ
índro no asyá pūrvyáḥ papīyāddyukṣó mádasya somyásya rā́jā ǁ
pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan |
indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā ||
Padapāṭha
प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् ।
इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य॑ । राजा॑ ॥
प्रो इति । द्रोणे । हरयः । कर्म । अग्मन् । पुनानासः । ऋज्यन्तः । अभूवन् ।
इन्द्रः । नः । अस्य । पूर्व्यः । पपीयात् । द्युक्षः । मदस्य । सोम्यस्य । राजा ॥
pró íti ǀ dróṇe ǀ hárayaḥ ǀ kárma ǀ agman ǀ punānā́saḥ ǀ ṛ́jyantaḥ ǀ abhūvan ǀ
índraḥ ǀ naḥ ǀ asyá ǀ pūrvyáḥ ǀ papīyāt ǀ dyukṣáḥ ǀ mádasya ǀ somyásya ǀ rā́jā ǁ
pro iti ǀ droṇe ǀ harayaḥ ǀ karma ǀ agman ǀ punānāsaḥ ǀ ṛjyantaḥ ǀ abhūvan ǀ
indraḥ ǀ naḥ ǀ asya ǀ pūrvyaḥ ǀ papīyāt ǀ dyukṣaḥ ǀ madasya ǀ somyasya ǀ rājā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.037.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.09.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.086
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.