Sūkta 38
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-3, 5); triṣṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिंद्र॑हूतिं ।
पन्य॑सीं धी॒तिं दैव्य॑स्य॒ यामं॒जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ॥अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् |
पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ||ápāditá údu naścitrátamo mahī́m bharṣaddyumátīmíndrahūtim ǀ
pányasīm dhītím dáivyasya yā́mañjánasya rātím vanate sudā́nuḥ ǁapād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim |
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ ||अपा॑त् । इ॒तः । उत् । ऊं॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् ।
पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥अपात् । इतः । उत् । ऊं इति । नः । चित्रऽतमः । महीम् । भर्षत् । द्युऽमतीम् । इन्द्रऽहूतिम् ।
पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सुऽदानुः ॥ápāt ǀ itáḥ ǀ út ǀ ūṃ íti ǀ naḥ ǀ citrá-tamaḥ ǀ mahī́m ǀ bharṣat ǀ dyu-mátīm ǀ índra-hūtim ǀ
pányasīm ǀ dhītím ǀ dáivyasya ǀ yā́man ǀ jánasya ǀ rātím ǀ vanate ǀ su-dā́nuḥ ǁapāt ǀ itaḥ ǀ ut ǀ ūṃ iti ǀ naḥ ǀ citra-tamaḥ ǀ mahīm ǀ bharṣat ǀ dyu-matīm ǀ indra-hūtim ǀ
panyasīm ǀ dhītim ǀ daivyasya ǀ yāman ǀ janasya ǀ rātim ǀ vanate ǀ su-dānuḥ ǁ6.38.1 Aṣṭaka 4.7.10.1Anuvāka 6.3.90
-
Ṛk 2
दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिंद्र॑स्य तन्यति ब्रुवा॒णः ।
एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिंद्र॑मि॒यमृ॒च्यमा॑ना ॥दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः |
एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम् ऋच्यमाना ||dūrā́ccidā́ vasato asya kárṇā ghóṣādíndrasya tanyati bruvāṇáḥ ǀ
éyámenam deváhūtirvavṛtyānmadryágíndramiyámṛcyámānā ǁdūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ |
eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā ||दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।
आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः ।
आ । इयम् । एनम् । देवऽहूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना ॥dūrā́t ǀ cit ǀ ā́ ǀ vasataḥ ǀ asya ǀ kárṇā ǀ ghóṣāt ǀ índrasya ǀ tanyati ǀ bruvāṇáḥ ǀ
ā́ ǀ iyám ǀ enam ǀ devá-hūtiḥ ǀ vavṛtyāt ǀ madryák ǀ índram ǀ iyám ǀ ṛcyámānā ǁdūrāt ǀ cit ǀ ā ǀ vasataḥ ǀ asya ǀ karṇā ǀ ghoṣāt ǀ indrasya ǀ tanyati ǀ bruvāṇaḥ ǀ
ā ǀ iyam ǀ enam ǀ deva-hūtiḥ ǀ vavṛtyāt ǀ madryak ǀ indram ǀ iyam ǀ ṛcyamānā ǁ6.38.2 Aṣṭaka 4.7.10.2Anuvāka 6.3.91
-
Ṛk 3
तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिंद्र॑म॒भ्य॑नूष्य॒र्कैः ।
ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हांश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिंद्रे॑ ॥तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः |
ब्रह्मा च गिरो दधिरे सम् अस्मिन् महांश् च स्तोमो अधि वर्धद् इन्द्रे ||tám vo dhiyā́ paramáyā purājā́majáramíndramabhyánūṣyarkáiḥ ǀ
bráhmā ca gíro dadhiré sámasminmahā́ṃśca stómo ádhi vardhadíndre ǁtaṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ |
brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre ||तम् । वः॒ । धि॒या । प॒र॒मया॑ । पु॒रा॒ऽजाम् । अ॒जर॑म् । इन्द्र॑म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः ।
ब्रह्म॑ । च॒ । गिरः॑ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः॑ । अधि॑ । व॒र्ध॒त् । इन्द्रे॑ ॥तम् । वः । धिया । परमया । पुराऽजाम् । अजरम् । इन्द्रम् । अभि । अनूषि । अर्कैः ।
ब्रह्म । च । गिरः । दधिरे । सम् । अस्मिन् । महान् । च । स्तोमः । अधि । वर्धत् । इन्द्रे ॥tám ǀ vaḥ ǀ dhiyā́ ǀ paramáyā ǀ purā-jā́m ǀ ajáram ǀ índram ǀ abhí ǀ anūṣi ǀ arkáiḥ ǀ
bráhma ǀ ca ǀ gíraḥ ǀ dadhiré ǀ sám ǀ asmin ǀ mahā́n ǀ ca ǀ stómaḥ ǀ ádhi ǀ vardhat ǀ índre ǁtam ǀ vaḥ ǀ dhiyā ǀ paramayā ǀ purā-jām ǀ ajaram ǀ indram ǀ abhi ǀ anūṣi ǀ arkaiḥ ǀ
brahma ǀ ca ǀ giraḥ ǀ dadhire ǀ sam ǀ asmin ǀ mahān ǀ ca ǀ stomaḥ ǀ adhi ǀ vardhat ǀ indre ǁ6.38.3 Aṣṭaka 4.7.10.3Anuvāka 6.3.92
-
Ṛk 4
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इंद्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।
वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इंद्रं॑ ॥वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म |
वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ||várdhādyám yajñá utá sóma índram várdhādbráhma gíra ukthā́ ca mánma ǀ
várdhā́hainamuṣáso yā́mannaktórvárdhānmā́sāḥ śarádo dyā́va índram ǁvardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma |
vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram ||वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ ।
वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म ।
वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम् ॥várdhāt ǀ yám ǀ yajñáḥ ǀ utá ǀ sómaḥ ǀ índram ǀ várdhāt ǀ bráhma ǀ gíraḥ ǀ ukthā́ ǀ ca ǀ mánma ǀ
várdha ǀ áha ǀ enam ǀ uṣásaḥ ǀ yā́man ǀ aktóḥ ǀ várdhān ǀ mā́sāḥ ǀ śarádaḥ ǀ dyā́vaḥ ǀ índram ǁvardhāt ǀ yam ǀ yajñaḥ ǀ uta ǀ somaḥ ǀ indram ǀ vardhāt ǀ brahma ǀ giraḥ ǀ ukthā ǀ ca ǀ manma ǀ
vardha ǀ aha ǀ enam ǀ uṣasaḥ ǀ yāman ǀ aktoḥ ǀ vardhān ǀ māsāḥ ǀ śaradaḥ ǀ dyāvaḥ ǀ indram ǁ6.38.4 Aṣṭaka 4.7.10.4Anuvāka 6.3.93
-
Ṛk 5
ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।
म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय |
महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ||evā́ jajñānám sáhase ásāmi vāvṛdhānám rā́dhase ca śrutā́ya ǀ
mahā́mugrámávase vipra nūnámā́ vivāsema vṛtratū́ryeṣu ǁevā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya |
mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu ||ए॒व । ज॒ज्ञा॒नम् । सह॑से । असा॑मि । व॒वृ॒धा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ।
म॒हाम् । उ॒ग्रम् । अव॑से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒ऽतूर्ये॑षु ॥एव । जज्ञानम् । सहसे । असामि । ववृधानम् । राधसे । च । श्रुताय ।
महाम् । उग्रम् । अवसे । विप्र । नूनम् । आ । विवासेम । वृत्रऽतूर्येषु ॥evá ǀ jajñānám ǀ sáhase ǀ ásāmi ǀ vavṛdhānám ǀ rā́dhase ǀ ca ǀ śrutā́ya ǀ
mahā́m ǀ ugrám ǀ ávase ǀ vipra ǀ nūnám ǀ ā́ ǀ vivāsema ǀ vṛtra-tū́ryeṣu ǁeva ǀ jajñānam ǀ sahase ǀ asāmi ǀ vavṛdhānam ǀ rādhase ǀ ca ǀ śrutāya ǀ
mahām ǀ ugram ǀ avase ǀ vipra ǀ nūnam ǀ ā ǀ vivāsema ǀ vṛtra-tūryeṣu ǁ6.38.5 Aṣṭaka 4.7.10.5Anuvāka 6.3.94
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.