Ṛk 6.38.1
Saṃhitā
अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिंद्र॑हूतिं ।
पन्य॑सीं धी॒तिं दैव्य॑स्य॒ यामं॒जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ॥
अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् |
पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ||
ápāditá údu naścitrátamo mahī́m bharṣaddyumátīmíndrahūtim ǀ
pányasīm dhītím dáivyasya yā́mañjánasya rātím vanate sudā́nuḥ ǁ
apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim |
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ ||
Padapāṭha
अपा॑त् । इ॒तः । उत् । ऊं॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् ।
पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥
अपात् । इतः । उत् । ऊं इति । नः । चित्रऽतमः । महीम् । भर्षत् । द्युऽमतीम् । इन्द्रऽहूतिम् ।
पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सुऽदानुः ॥
ápāt ǀ itáḥ ǀ út ǀ ūṃ íti ǀ naḥ ǀ citrá-tamaḥ ǀ mahī́m ǀ bharṣat ǀ dyu-mátīm ǀ índra-hūtim ǀ
pányasīm ǀ dhītím ǀ dáivyasya ǀ yā́man ǀ jánasya ǀ rātím ǀ vanate ǀ su-dā́nuḥ ǁ
apāt ǀ itaḥ ǀ ut ǀ ūṃ iti ǀ naḥ ǀ citra-tamaḥ ǀ mahīm ǀ bharṣat ǀ dyu-matīm ǀ indra-hūtim ǀ
panyasīm ǀ dhītim ǀ daivyasya ǀ yāman ǀ janasya ǀ rātim ǀ vanate ǀ su-dānuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.038.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.10.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.090
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.