Ṛk 6.38.2
Saṃhitā
दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिंद्र॑स्य तन्यति ब्रुवा॒णः ।
एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिंद्र॑मि॒यमृ॒च्यमा॑ना ॥
दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः |
एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम् ऋच्यमाना ||
dūrā́ccidā́ vasato asya kárṇā ghóṣādíndrasya tanyati bruvāṇáḥ ǀ
éyámenam deváhūtirvavṛtyānmadryágíndramiyámṛcyámānā ǁ
dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ |
eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā ||
Padapāṭha
दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।
आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥
दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः ।
आ । इयम् । एनम् । देवऽहूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना ॥
dūrā́t ǀ cit ǀ ā́ ǀ vasataḥ ǀ asya ǀ kárṇā ǀ ghóṣāt ǀ índrasya ǀ tanyati ǀ bruvāṇáḥ ǀ
ā́ ǀ iyám ǀ enam ǀ devá-hūtiḥ ǀ vavṛtyāt ǀ madryák ǀ índram ǀ iyám ǀ ṛcyámānā ǁ
dūrāt ǀ cit ǀ ā ǀ vasataḥ ǀ asya ǀ karṇā ǀ ghoṣāt ǀ indrasya ǀ tanyati ǀ bruvāṇaḥ ǀ
ā ǀ iyam ǀ enam ǀ deva-hūtiḥ ǀ vavṛtyāt ǀ madryak ǀ indram ǀ iyam ǀ ṛcyamānā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.038.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.10.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.091
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.