Ṛk 6.38.4
Saṃhitā
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इंद्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।
वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इंद्रं॑ ॥
वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म |
वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ||
várdhādyám yajñá utá sóma índram várdhādbráhma gíra ukthā́ ca mánma ǀ
várdhā́hainamuṣáso yā́mannaktórvárdhānmā́sāḥ śarádo dyā́va índram ǁ
vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma |
vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram ||
Padapāṭha
वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ ।
वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥
वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म ।
वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम् ॥
várdhāt ǀ yám ǀ yajñáḥ ǀ utá ǀ sómaḥ ǀ índram ǀ várdhāt ǀ bráhma ǀ gíraḥ ǀ ukthā́ ǀ ca ǀ mánma ǀ
várdha ǀ áha ǀ enam ǀ uṣásaḥ ǀ yā́man ǀ aktóḥ ǀ várdhān ǀ mā́sāḥ ǀ śarádaḥ ǀ dyā́vaḥ ǀ índram ǁ
vardhāt ǀ yam ǀ yajñaḥ ǀ uta ǀ somaḥ ǀ indram ǀ vardhāt ǀ brahma ǀ giraḥ ǀ ukthā ǀ ca ǀ manma ǀ
vardha ǀ aha ǀ enam ǀ uṣasaḥ ǀ yāman ǀ aktoḥ ǀ vardhān ǀ māsāḥ ǀ śaradaḥ ǀ dyāvaḥ ǀ indram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.038.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.10.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.093
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.