Ṛgveda · Maṇḍala 6

Sūkta 15

Agni · Bharadvāja Bārhaspatya Or Vītahavya Āṅgirasa · 19 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Bharadvāja Bārhaspatya Or Vītahavya Āṅgirasa
Chandas छन्दस्
Jagatī, Triṣṭubh, Śakvarī, Atiśakvarī, Anuṣṭubh, Bṛhatī
Metres by ṛk

1st set of styles triṣṭup (9-11, 16, 19); nicṛjjagatī (1, 2, 5); bhuriktriṣṭup (4, 14); nicṛdatijagatī (3); nicṛdatiśakvarī (6); jagatī (7); virāḍjagatī (8); paṅktiḥ (12); virāṭtrisṭup (13); brāhmībṛhatī (15); virāḍanuṣṭup (17); svarāḍanuṣṭup (18)

2nd set of styles jagatī (1, 2, 4, 5, 7-9); triṣṭubh (10-14, 16, 19); śakvarī (3, 15); atiśakvarī (6); anuṣṭubh (17); bṛhatī (18)

  1. Ṛk 1

    इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृंजसे गि॒रा ।
    वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तं ॥

    इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम् ऋञ्जसे गिरा |
    वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम् ||

    imámū ṣú vo átithimuṣarbúdham víśvāsām viśā́m pátimṛñjase girā́ ǀ
    vétī́ddivó janúṣā káccidā́ śúcirjyókcidatti gárbho yádácyutam ǁ

    imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā |
    vetīd divo januṣā kac cid ā śucir jyok cid atti garbho yad acyutam ||

    इ॒मम् । ऊं॒ इति॑ । सु । वः॒ । अति॑थिम् । उ॒षः॒ऽबुध॑म् । विश्वा॑साम् । वि॒शाम् । पति॑म् । ऋ॒ञ्ज॒से॒ । गि॒रा ।
    वेति॑ । इत् । दि॒वः । ज॒नुषा॑ । कत् । चि॒त् । आ । शुचिः॑ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः॑ । यत् । अच्यु॑तम् ॥

    इमम् । ऊं इति । सु । वः । अतिथिम् । उषःऽबुधम् । विश्वासाम् । विशाम् । पतिम् । ऋञ्जसे । गिरा ।
    वेति । इत् । दिवः । जनुषा । कत् । चित् । आ । शुचिः । ज्योक् । चित् । अत्ति । गर्भः । यत् । अच्युतम् ॥

    imám ǀ ūṃ íti ǀ sú ǀ vaḥ ǀ átithim ǀ uṣaḥ-búdham ǀ víśvāsām ǀ viśā́m ǀ pátim ǀ ṛñjase ǀ girā́ ǀ
    véti ǀ ít ǀ diváḥ ǀ janúṣā ǀ kát ǀ cit ǀ ā́ ǀ śúciḥ ǀ jyók ǀ cit ǀ atti ǀ gárbhaḥ ǀ yát ǀ ácyutam ǁ

    imam ǀ ūṃ iti ǀ su ǀ vaḥ ǀ atithim ǀ uṣaḥ-budham ǀ viśvāsām ǀ viśām ǀ patim ǀ ṛñjase ǀ girā ǀ
    veti ǀ it ǀ divaḥ ǀ januṣā ǀ kat ǀ cit ǀ ā ǀ śuciḥ ǀ jyok ǀ cit ǀ atti ǀ garbhaḥ ǀ yat ǀ acyutam ǁ

    6.15.1 Aṣṭaka 4.5.17.1Anuvāka 6.1.107

  2. Ṛk 2

    मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषं ।
    स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥

    मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् ईड्यम् ऊर्ध्वशोचिषम् |
    स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे ||

    mitrám ná yám súdhitam bhṛ́gavo dadhúrvánaspátāvī́ḍyamūrdhváśociṣam ǀ
    sá tvám súprīto vītáhavye adbhuta práśastibhirmahayase divédive ǁ

    mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam |
    sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive-dive ||

    मि॒त्रम् । न । यम् । सुऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् ।
    सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥

    मित्रम् । न । यम् । सुऽधितम् । भृगवः । दधुः । वनस्पतौ । ईड्यम् । ऊर्ध्वऽशोचिषम् ।
    सः । त्वम् । सुऽप्रीतः । वीतऽहव्ये । अद्भुत । प्रशस्तिऽभिः । महयसे । दिवेऽदिवे ॥

    mitrám ǀ ná ǀ yám ǀ sú-dhitam ǀ bhṛ́gavaḥ ǀ dadhúḥ ǀ vánaspátau ǀ ī́ḍyam ǀ ūrdhvá-śociṣam ǀ
    sáḥ ǀ tvám ǀ sú-prītaḥ ǀ vītá-havye ǀ adbhuta ǀ práśasti-bhiḥ ǀ mahayase ǀ divé-dive ǁ

    mitram ǀ na ǀ yam ǀ su-dhitam ǀ bhṛgavaḥ ǀ dadhuḥ ǀ vanaspatau ǀ īḍyam ǀ ūrdhva-śociṣam ǀ
    saḥ ǀ tvam ǀ su-prītaḥ ǀ vīta-havye ǀ adbhuta ǀ praśasti-bhiḥ ǀ mahayase ǀ dive-dive ǁ

    6.15.2 Aṣṭaka 4.5.17.2Anuvāka 6.1.108

  3. Ṛk 3

    स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यांत॑रस्य॒ तरु॑षः ।
    रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥

    स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः |
    रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ||

    sá tvám dákṣasyāvṛkó vṛdhó bhūraryáḥ párasyā́ntarasya táruṣaḥ ǀ
    rāyáḥ sūno sahaso mártyeṣvā́ chardíryaccha vītáhavyāya saprátho bharádvājāya sapráthaḥ ǁ

    sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ |
    rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ ||

    सः । त्वम् । दक्ष॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।
    रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥

    सः । त्वम् । दक्षस्य । अवृकः । वृधः । भूः । अर्यः । परस्य । अन्तरस्य । तरुषः ।
    रायः । सूनो इति । सहसः । मर्त्येषु । आ । छर्दिः । यच्छ । वीतऽहव्याय । सऽप्रथः । भरत्ऽवाजाय । सऽप्रथः ॥

    sáḥ ǀ tvám ǀ dákṣasya ǀ avṛkáḥ ǀ vṛdháḥ ǀ bhūḥ ǀ aryáḥ ǀ párasya ǀ ántarasya ǀ táruṣaḥ ǀ
    rāyáḥ ǀ sūno íti ǀ sahasaḥ ǀ mártyeṣu ǀ ā́ ǀ chardíḥ ǀ yaccha ǀ vītá-havyāya ǀ sa-práthaḥ ǀ bharát-vājāya ǀ sa-práthaḥ ǁ

    saḥ ǀ tvam ǀ dakṣasya ǀ avṛkaḥ ǀ vṛdhaḥ ǀ bhūḥ ǀ aryaḥ ǀ parasya ǀ antarasya ǀ taruṣaḥ ǀ
    rāyaḥ ǀ sūno iti ǀ sahasaḥ ǀ martyeṣu ǀ ā ǀ chardiḥ ǀ yaccha ǀ vīta-havyāya ǀ sa-prathaḥ ǀ bharat-vājāya ǀ sa-prathaḥ ǁ

    6.15.3 Aṣṭaka 4.5.17.3Anuvāka 6.1.109

  4. Ṛk 4

    द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रं ।
    विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृं॑जसे ॥

    द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः स्वध्वरम् |
    विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं देवम् ऋञ्जसे ||

    dyutānám vo átithim svárṇaramagním hótāram mánuṣaḥ svadhvarám ǀ
    vípram ná dyukṣávacasam suvṛktíbhirhavyavā́hamaratím devámṛñjase ǁ

    dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram |
    vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase ||

    द्यु॒ता॒नम् । वः॒ । अति॑थिम् । स्वः॑ऽनरम् । अ॒ग्निम् । होता॑रम् । मनु॑षः । सु॒ऽअ॒ध्व॒रम् ।
    विप्र॑म् । न । द्यु॒क्षऽव॑चसम् । सु॒वृ॒क्तिऽभिः॑ । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । दे॒वम् । ऋ॒ञ्ज॒से॒ ॥

    द्युतानम् । वः । अतिथिम् । स्वःऽनरम् । अग्निम् । होतारम् । मनुषः । सुऽअध्वरम् ।
    विप्रम् । न । द्युक्षऽवचसम् । सुवृक्तिऽभिः । हव्यऽवाहम् । अरतिम् । देवम् । ऋञ्जसे ॥

    dyutānám ǀ vaḥ ǀ átithim ǀ sváḥ-naram ǀ agním ǀ hótāram ǀ mánuṣaḥ ǀ su-adhvarám ǀ
    vípram ǀ ná ǀ dyukṣá-vacasam ǀ suvṛktí-bhiḥ ǀ havya-vā́ham ǀ aratím ǀ devám ǀ ṛñjase ǁ

    dyutānam ǀ vaḥ ǀ atithim ǀ svaḥ-naram ǀ agnim ǀ hotāram ǀ manuṣaḥ ǀ su-adhvaram ǀ
    vipram ǀ na ǀ dyukṣa-vacasam ǀ suvṛkti-bhiḥ ǀ havya-vāham ǀ aratim ǀ devam ǀ ṛñjase ǁ

    6.15.4 Aṣṭaka 4.5.17.4Anuvāka 6.1.110

  5. Ṛk 5

    पा॒व॒कया॒ यश्चि॒तयं॑त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
    तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥

    पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना |
    तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ||

    pāvakáyā yáścitáyantyā kṛpā́ kṣā́manrurucá uṣáso ná bhānúnā ǀ
    tū́rvanná yā́mannétaśasya nū́ ráṇa ā́ yó ghṛṇé ná tatṛṣāṇó ajáraḥ ǁ

    pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā |
    tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||

    पा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ ।
    तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । आ । यः । घृ॒णे । न । त॒तृ॒षा॒णः । अ॒जरः॑ ॥

    पावकया । यः । चितयन्त्या । कृपा । क्षामन् । रुरुचे । उषसः । न । भानुना ।
    तूर्वन् । न । यामन् । एतशस्य । नु । रणे । आ । यः । घृणे । न । ततृषाणः । अजरः ॥

    pāvakáyā ǀ yáḥ ǀ citáyantyā ǀ kṛpā́ ǀ kṣā́man ǀ rurucé ǀ uṣásaḥ ǀ ná ǀ bhānúnā ǀ
    tū́rvan ǀ ná ǀ yā́man ǀ étaśasya ǀ nú ǀ ráṇe ǀ ā́ ǀ yáḥ ǀ ghṛṇé ǀ ná ǀ tatṛṣāṇáḥ ǀ ajáraḥ ǁ

    pāvakayā ǀ yaḥ ǀ citayantyā ǀ kṛpā ǀ kṣāman ǀ ruruce ǀ uṣasaḥ ǀ na ǀ bhānunā ǀ
    tūrvan ǀ na ǀ yāman ǀ etaśasya ǀ nu ǀ raṇe ǀ ā ǀ yaḥ ǀ ghṛṇe ǀ na ǀ tatṛṣāṇaḥ ǀ ajaraḥ ǁ

    6.15.5 Aṣṭaka 4.5.17.5Anuvāka 6.1.111

  6. Ṛk 6

    अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यंप्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ ।
    उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥

    अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि |
    उप वो गीर्भिर् अमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ||

    agnímagnim vaḥ samídhā duvasyata priyámpriyam vo átithim gṛṇīṣáṇi ǀ
    úpa vo gīrbhíramṛ́tam vivāsata devó devéṣu vánate hí vāryam devó devéṣu vánate hí no dúvaḥ ǁ

    agnim-agniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ gṛṇīṣaṇi |
    upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ ||

    अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । स॒म्ऽइधा॑ । दु॒व॒स्य॒त॒ । प्रि॒यम्ऽप्रि॑यम् । वः॒ । अति॑थिम् । गृ॒णी॒षणि॑ ।
    उप॑ । वः॒ । गीः॒ऽभिः । अ॒मृत॑म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । नः॒ । दुवः॑ ॥

    अग्निम्ऽअग्निम् । वः । सम्ऽइधा । दुवस्यत । प्रियम्ऽप्रियम् । वः । अतिथिम् । गृणीषणि ।
    उप । वः । गीःऽभिः । अमृतम् । विवासत । देवः । देवेषु । वनते । हि । वार्यम् । देवः । देवेषु । वनते । हि । नः । दुवः ॥

    agním-agnim ǀ vaḥ ǀ sam-ídhā ǀ duvasyata ǀ priyám-priyam ǀ vaḥ ǀ átithim ǀ gṛṇīṣáṇi ǀ
    úpa ǀ vaḥ ǀ gīḥ-bhíḥ ǀ amṛ́tam ǀ vivāsata ǀ deváḥ ǀ devéṣu ǀ vánate ǀ hí ǀ vā́ryam ǀ deváḥ ǀ devéṣu ǀ vánate ǀ hí ǀ naḥ ǀ dúvaḥ ǁ

    agnim-agnim ǀ vaḥ ǀ sam-idhā ǀ duvasyata ǀ priyam-priyam ǀ vaḥ ǀ atithim ǀ gṛṇīṣaṇi ǀ
    upa ǀ vaḥ ǀ gīḥ-bhiḥ ǀ amṛtam ǀ vivāsata ǀ devaḥ ǀ deveṣu ǀ vanate ǀ hi ǀ vāryam ǀ devaḥ ǀ deveṣu ǀ vanate ǀ hi ǀ naḥ ǀ duvaḥ ǁ

    6.15.6 Aṣṭaka 4.5.18.1Anuvāka 6.1.112

  7. Ṛk 7

    समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वं ।
    विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसं ॥

    समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् |
    विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे जातवेदसम् ||

    sámiddhamagním samídhā girā́ gṛṇe śúcim pāvakám puró adhvaré dhruvám ǀ
    vípram hótāram puruvā́ramadrúham kavím sumnáirīmahe jātávedasam ǁ

    samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam |
    vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam ||

    सम्ऽइ॑द्धम् । अ॒ग्निम् । स॒म्ऽइधा॑ । गि॒रा । गृ॒णे॒ । शुचि॑म् । पा॒व॒कम् । पु॒रः । अ॒ध्व॒रे । ध्रु॒वम् ।
    विप्र॑म् । होता॑रम् । पु॒रु॒ऽवार॑म् । अ॒द्रुह॑म् । क॒विम् । सु॒म्नैः । ई॒म॒हे॒ । जा॒तऽवे॑दसम् ॥

    सम्ऽइद्धम् । अग्निम् । सम्ऽइधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् ।
    विप्रम् । होतारम् । पुरुऽवारम् । अद्रुहम् । कविम् । सुम्नैः । ईमहे । जातऽवेदसम् ॥

    sám-iddham ǀ agním ǀ sam-ídhā ǀ girā́ ǀ gṛṇe ǀ śúcim ǀ pāvakám ǀ puráḥ ǀ adhvaré ǀ dhruvám ǀ
    vípram ǀ hótāram ǀ puru-vā́ram ǀ adrúham ǀ kavím ǀ sumnáiḥ ǀ īmahe ǀ jātá-vedasam ǁ

    sam-iddham ǀ agnim ǀ sam-idhā ǀ girā ǀ gṛṇe ǀ śucim ǀ pāvakam ǀ puraḥ ǀ adhvare ǀ dhruvam ǀ
    vipram ǀ hotāram ǀ puru-vāram ǀ adruham ǀ kavim ǀ sumnaiḥ ǀ īmahe ǀ jāta-vedasam ǁ

    6.15.7 Aṣṭaka 4.5.18.2Anuvāka 6.1.113

  8. Ṛk 8

    त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्यं॑ ।
    दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥

    त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम् ईड्यम् |
    देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ||

    tvā́m dūtámagne amṛ́tam yugéyuge havyavā́ham dadhire pāyúmī́ḍyam ǀ
    devā́saśca mártāsaśca jā́gṛvim vibhúm viśpátim námasā ní ṣedire ǁ

    tvāṃ dūtam agne amṛtaṃ yuge-yuge havyavāhaṃ dadhire pāyum īḍyam |
    devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire ||

    त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् । यु॒गेऽयु॑गे । ह॒व्य॒ऽवाह॑म् । द॒धि॒रे॒ । पा॒युम् । ईड्य॑म् ।
    दे॒वासः॑ । च॒ । मर्ता॑सः । च॒ । जागृ॑विम् । वि॒ऽभुम् । वि॒श्पति॑म् । नम॑सा । नि । से॒दि॒रे॒ ॥

    त्वाम् । दूतम् । अग्ने । अमृतम् । युगेऽयुगे । हव्यऽवाहम् । दधिरे । पायुम् । ईड्यम् ।
    देवासः । च । मर्तासः । च । जागृविम् । विऽभुम् । विश्पतिम् । नमसा । नि । सेदिरे ॥

    tvā́m ǀ dūtám ǀ agne ǀ amṛ́tam ǀ yugé-yuge ǀ havya-vā́ham ǀ dadhire ǀ pāyúm ǀ ī́ḍyam ǀ
    devā́saḥ ǀ ca ǀ mártāsaḥ ǀ ca ǀ jā́gṛvim ǀ vi-bhúm ǀ viśpátim ǀ námasā ǀ ní ǀ sedire ǁ

    tvām ǀ dūtam ǀ agne ǀ amṛtam ǀ yuge-yuge ǀ havya-vāham ǀ dadhire ǀ pāyum ǀ īḍyam ǀ
    devāsaḥ ǀ ca ǀ martāsaḥ ǀ ca ǀ jāgṛvim ǀ vi-bhum ǀ viśpatim ǀ namasā ǀ ni ǀ sedire ǁ

    6.15.8 Aṣṭaka 4.5.18.3Anuvāka 6.1.114

  9. Ṛk 9

    वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे ।
    यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥

    विभूषन्न् अग्न उभयां अनु व्रता दूतो देवानां रजसी सम् ईयसे |
    यत् ते धीतिं सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव ||

    vibhū́ṣannagna ubháyām̐ ánu vratā́ dūtó devā́nām rájasī sámīyase ǀ
    yátte dhītím sumatímāvṛṇīmáhé’dha smā nastrivárūthaḥ śivó bhava ǁ

    vibhūṣann agna ubhayāṃ anu vratā dūto devānāṃ rajasī sam īyase |
    yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava ||

    वि॒ऽभूष॑न् । अ॒ग्ने॒ । उ॒भया॑न् । अनु॑ । व्र॒ता । दू॒तः । दे॒वाना॑म् । रज॑सी॒ इति॑ । सम् । ई॒य॒से॒ ।
    यत् । ते॒ । धी॒तिम् । सु॒ऽम॒तिम् । आ॒ऽवृ॒णी॒महे॑ । अध॑ । स्म॒ । नः॒ । त्रि॒ऽवरू॑थः । शि॒वः । भ॒व॒ ॥

    विऽभूषन् । अग्ने । उभयान् । अनु । व्रता । दूतः । देवानाम् । रजसी इति । सम् । ईयसे ।
    यत् । ते । धीतिम् । सुऽमतिम् । आऽवृणीमहे । अध । स्म । नः । त्रिऽवरूथः । शिवः । भव ॥

    vi-bhū́ṣan ǀ agne ǀ ubháyān ǀ ánu ǀ vratā́ ǀ dūtáḥ ǀ devā́nām ǀ rájasī íti ǀ sám ǀ īyase ǀ
    yát ǀ te ǀ dhītím ǀ su-matím ǀ ā-vṛṇīmáhe ǀ ádha ǀ sma ǀ naḥ ǀ tri-várūthaḥ ǀ śiváḥ ǀ bhava ǁ

    vi-bhūṣan ǀ agne ǀ ubhayān ǀ anu ǀ vratā ǀ dūtaḥ ǀ devānām ǀ rajasī iti ǀ sam ǀ īyase ǀ
    yat ǀ te ǀ dhītim ǀ su-matim ǀ ā-vṛṇīmahe ǀ adha ǀ sma ǀ naḥ ǀ tri-varūthaḥ ǀ śivaḥ ǀ bhava ǁ

    6.15.9 Aṣṭaka 4.5.18.4Anuvāka 6.1.115

  10. Ṛk 10

    तं सु॒प्रती॑कं सु॒दृशं॒ स्वंच॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम ।
    स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥

    तं सुप्रतीकं सुदृशं स्वञ्चम् अविद्वांसो विदुष्टरं सपेम |
    स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ||

    tám suprátīkam sudṛ́śam sváñcamávidvāṃso vidúṣṭaram sapema ǀ
    sá yakṣadvíśvā vayúnāni vidvā́nprá havyámagníramṛ́teṣu vocat ǁ

    taṃ supratīkaṃ sudṛśaṃ svañcam avidvāṃso viduṣṭaraṃ sapema |
    sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat ||

    तम् । सु॒ऽप्रती॑कम् । सु॒ऽदृश॑म् । सु॒ऽअञ्च॑म् । अवि॑द्वांसः । वि॒दुःऽत॑रम् । स॒पे॒म॒ ।
    सः । य॒क्ष॒त् । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥

    तम् । सुऽप्रतीकम् । सुऽदृशम् । सुऽअञ्चम् । अविद्वांसः । विदुःऽतरम् । सपेम ।
    सः । यक्षत् । विश्वा । वयुनानि । विद्वान् । प्र । हव्यम् । अग्निः । अमृतेषु । वोचत् ॥

    tám ǀ su-prátīkam ǀ su-dṛ́śam ǀ su-áñcam ǀ ávidvāṃsaḥ ǀ vidúḥ-taram ǀ sapema ǀ
    sáḥ ǀ yakṣat ǀ víśvā ǀ vayúnāni ǀ vidvā́n ǀ prá ǀ havyám ǀ agníḥ ǀ amṛ́teṣu ǀ vocat ǁ

    tam ǀ su-pratīkam ǀ su-dṛśam ǀ su-añcam ǀ avidvāṃsaḥ ǀ viduḥ-taram ǀ sapema ǀ
    saḥ ǀ yakṣat ǀ viśvā ǀ vayunāni ǀ vidvān ǀ pra ǀ havyam ǀ agniḥ ǀ amṛteṣu ǀ vocat ǁ

    6.15.10 Aṣṭaka 4.5.18.5Anuvāka 6.1.116

  11. Ṛk 11

    तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट्क॒वये॑ शूर धी॒तिं ।
    य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥

    तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आनट् कवये शूर धीतिम् |
    यज्ञस्य वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत राया ||

    támagne pāsyutá tám piparṣi yásta ā́naṭkaváye śūra dhītím ǀ
    yajñásya vā níśitim vóditim vā támítpṛṇakṣi śávasotá rāyā́ ǁ

    tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim |
    yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā ||

    तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन॑ट् । क॒वये॑ । शू॒र॒ । धी॒तिम् ।
    य॒ज्ञस्य॑ । वा॒ । निऽशि॑तिम् । वा॒ । उत्ऽइ॑तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव॑सा । उ॒त । रा॒या ॥

    तम् । अग्ने । पासि । उत । तम् । पिपर्षि । यः । ते । आनट् । कवये । शूर । धीतिम् ।
    यज्ञस्य । वा । निऽशितिम् । वा । उत्ऽइतिम् । वा । तम् । इत् । पृणक्षि । शवसा । उत । राया ॥

    tám ǀ agne ǀ pāsi ǀ utá ǀ tám ǀ piparṣi ǀ yáḥ ǀ te ǀ ā́naṭ ǀ kaváye ǀ śūra ǀ dhītím ǀ
    yajñásya ǀ vā ǀ ní-śitim ǀ vā ǀ út-itim ǀ vā ǀ tám ǀ ít ǀ pṛṇakṣi ǀ śávasā ǀ utá ǀ rāyā́ ǁ

    tam ǀ agne ǀ pāsi ǀ uta ǀ tam ǀ piparṣi ǀ yaḥ ǀ te ǀ ānaṭ ǀ kavaye ǀ śūra ǀ dhītim ǀ
    yajñasya ǀ vā ǀ ni-śitim ǀ vā ǀ ut-itim ǀ vā ǀ tam ǀ it ǀ pṛṇakṣi ǀ śavasā ǀ uta ǀ rāyā ǁ

    6.15.11 Aṣṭaka 4.5.19.1Anuvāka 6.1.117

  12. Ṛk 12

    त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
    सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥

    त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् |
    सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ||

    tvámagne vanuṣyató ní pāhi tvámu naḥ sahasāvannavadyā́t ǀ
    sám tvā dhvasmanvádabhyétu pā́thaḥ sám rayíḥ spṛhayā́yyaḥ sahasrī́ ǁ

    tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt |
    saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī ||

    त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।
    सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥

    त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ऊं इति । नः । सहसाऽवन् । अवद्यात् ।
    सम् । त्वा । ध्वस्मन्ऽवत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री ॥

    tvám ǀ agne ǀ vanuṣyatáḥ ǀ ní ǀ pāhi ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ sahasā-van ǀ avadyā́t ǀ
    sám ǀ tvā ǀ dhvasman-vát ǀ abhí ǀ etu ǀ pā́thaḥ ǀ sám ǀ rayíḥ ǀ spṛhayā́yyaḥ ǀ sahasrī́ ǁ

    tvam ǀ agne ǀ vanuṣyataḥ ǀ ni ǀ pāhi ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ sahasā-van ǀ avadyāt ǀ
    sam ǀ tvā ǀ dhvasman-vat ǀ abhi ǀ etu ǀ pāthaḥ ǀ sam ǀ rayiḥ ǀ spṛhayāyyaḥ ǀ sahasrī ǁ

    6.15.12 Aṣṭaka 4.5.19.2Anuvāka 6.1.118

  13. Ṛk 13

    अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
    दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥

    अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः |
    देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा ||

    agnírhótā gṛhápatiḥ sá rā́jā víśvā veda jánimā jātávedāḥ ǀ
    devā́nāmutá yó mártyānām yájiṣṭhaḥ sá prá yajatāmṛtā́vā ǁ

    agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ |
    devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā ||

    अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ । वे॒द॒ । जनि॑म । जा॒तऽवे॑दाः ।
    दे॒वाना॑म् । उ॒त । यः । मर्त्या॑नाम् । यजि॑ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒तऽवा॑ ॥

    अग्निः । होता । गृहऽपतिः । सः । राजा । विश्वा । वेद । जनिम । जातऽवेदाः ।
    देवानाम् । उत । यः । मर्त्यानाम् । यजिष्ठः । सः । प्र । यजताम् । ऋतऽवा ॥

    agníḥ ǀ hótā ǀ gṛhá-patiḥ ǀ sáḥ ǀ rā́jā ǀ víśvā ǀ veda ǀ jánima ǀ jātá-vedāḥ ǀ
    devā́nām ǀ utá ǀ yáḥ ǀ mártyānām ǀ yájiṣṭhaḥ ǀ sáḥ ǀ prá ǀ yajatām ǀ ṛtá-vā ǁ

    agniḥ ǀ hotā ǀ gṛha-patiḥ ǀ saḥ ǀ rājā ǀ viśvā ǀ veda ǀ janima ǀ jāta-vedāḥ ǀ
    devānām ǀ uta ǀ yaḥ ǀ martyānām ǀ yajiṣṭhaḥ ǀ saḥ ǀ pra ǀ yajatām ǀ ṛta-vā ǁ

    6.15.13 Aṣṭaka 4.5.19.3Anuvāka 6.1.119

  14. Ṛk 14

    अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ ।
    ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥

    अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा |
    ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ||

    ágne yádadyá viśó adhvarasya hotaḥ pā́vakaśoce véṣṭvám hí yájvā ǀ
    ṛtā́ yajāsi mahinā́ ví yádbhū́rhavyā́ vaha yaviṣṭha yā́ te adyá ǁ

    agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā |
    ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya ||

    अग्ने॑ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति॑ । पाव॑कऽशोचे । वेः । त्वम् । हि । यज्वा॑ ।
    ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥

    अग्ने । यत् । अद्य । विशः । अध्वरस्य । होतरिति । पावकऽशोचे । वेः । त्वम् । हि । यज्वा ।
    ऋता । यजासि । महिना । वि । यत् । भूः । हव्या । वह । यविष्ठ । या । ते । अद्य ॥

    ágne ǀ yát ǀ adyá ǀ viśáḥ ǀ adhvarasya ǀ hotaríti ǀ pā́vaka-śoce ǀ véḥ ǀ tvám ǀ hí ǀ yájvā ǀ
    ṛtā́ ǀ yajāsi ǀ mahinā́ ǀ ví ǀ yát ǀ bhū́ḥ ǀ havyā́ ǀ vaha ǀ yaviṣṭha ǀ yā́ ǀ te ǀ adyá ǁ

    agne ǀ yat ǀ adya ǀ viśaḥ ǀ adhvarasya ǀ hotariti ǀ pāvaka-śoce ǀ veḥ ǀ tvam ǀ hi ǀ yajvā ǀ
    ṛtā ǀ yajāsi ǀ mahinā ǀ vi ǀ yat ǀ bhūḥ ǀ havyā ǀ vaha ǀ yaviṣṭha ǀ yā ǀ te ǀ adya ǁ

    6.15.14 Aṣṭaka 4.5.19.4Anuvāka 6.1.120

  15. Ṛk 15

    अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै ।
    अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

    अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै |
    अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ||

    abhí práyāṃsi súdhitāni hí khyó ní tvā dadhīta ródasī yájadhyai ǀ
    ávā no maghavanvā́jasātāvágne víśvāni duritā́ tarema tā́ tarema távā́vasā tarema ǁ

    abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai |
    avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema ||

    अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यः । नि । त्वा॒ । द॒धी॒त॒ । रोद॑सी॒ इति॑ । यज॑ध्यै ।
    अव॑ । नः॒ । म॒घ॒ऽव॒न् । वाज॑ऽसातौ । अग्ने॑ । विश्वा॑नि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

    अभि । प्रयांसि । सुऽधितानि । हि । ख्यः । नि । त्वा । दधीत । रोदसी इति । यजध्यै ।
    अव । नः । मघऽवन् । वाजऽसातौ । अग्ने । विश्वानि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥

    abhí ǀ práyāṃsi ǀ sú-dhitāni ǀ hí ǀ khyáḥ ǀ ní ǀ tvā ǀ dadhīta ǀ ródasī íti ǀ yájadhyai ǀ
    áva ǀ naḥ ǀ magha-van ǀ vā́ja-sātau ǀ ágne ǀ víśvāni ǀ duḥ-itā́ ǀ tarema ǀ tā́ ǀ tarema ǀ táva ǀ ávasā ǀ tarema ǁ

    abhi ǀ prayāṃsi ǀ su-dhitāni ǀ hi ǀ khyaḥ ǀ ni ǀ tvā ǀ dadhīta ǀ rodasī iti ǀ yajadhyai ǀ
    ava ǀ naḥ ǀ magha-van ǀ vāja-sātau ǀ agne ǀ viśvāni ǀ duḥ-itā ǀ tarema ǀ tā ǀ tarema ǀ tava ǀ avasā ǀ tarema ǁ

    6.15.15 Aṣṭaka 4.5.19.5Anuvāka 6.1.121

  16. Ṛk 16

    अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वंतं प्रथ॒मः सी॑द॒ योनिं॑ ।
    कु॒ला॒यिनं॑ घृ॒तवं॑तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥

    अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् |
    कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ||

    ágne víśvebhiḥ svanīka deváirū́rṇāvantam prathamáḥ sīda yónim ǀ
    kulāyínam ghṛtávantam savitré yajñám naya yájamānāya sādhú ǁ

    agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim |
    kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu ||

    अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् ।
    कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥

    अग्ने । विश्वेभिः । सुऽअनीक । देवैः । ऊर्णाऽवन्तम् । प्रथमः । सीद । योनिम् ।
    कुलायिनम् । घृतऽवन्तम् । सवित्रे । यज्ञम् । नय । यजमानाय । साधु ॥

    ágne ǀ víśvebhiḥ ǀ su-anīka ǀ deváiḥ ǀ ū́rṇā-vantam ǀ prathamáḥ ǀ sīda ǀ yónim ǀ
    kulāyínam ǀ ghṛtá-vantam ǀ savitré ǀ yajñám ǀ naya ǀ yájamānāya ǀ sādhú ǁ

    agne ǀ viśvebhiḥ ǀ su-anīka ǀ devaiḥ ǀ ūrṇā-vantam ǀ prathamaḥ ǀ sīda ǀ yonim ǀ
    kulāyinam ǀ ghṛta-vantam ǀ savitre ǀ yajñam ǀ naya ǀ yajamānāya ǀ sādhu ǁ

    6.15.16 Aṣṭaka 4.5.20.1Anuvāka 6.1.122

  17. Ṛk 17

    इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं मं॑थंति वे॒धसः॑ ।
    यमं॑कू॒यंत॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥

    इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः |
    यम् अङ्कूयन्तम् आनयन्न् अमूरं श्याव्याभ्यः ||

    imámu tyámatharvavádagním manthanti vedhásaḥ ǀ
    yámaṅkūyántamā́nayannámūram śyāvyā́bhyaḥ ǁ

    imam u tyam atharvavad agnim manthanti vedhasaḥ |
    yam aṅkūyantam ānayann amūraṃ śyāvyābhyaḥ ||

    इ॒मम् । ऊं॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ ।
    यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । श्या॒व्या॑भ्यः ॥

    इमम् । ऊं इति । त्यम् । अथर्वऽवत् । अग्निम् । मन्थन्ति । वेधसः ।
    यम् । अङ्कुऽयन्तम् । आ । अनयन् । अमूरम् । श्याव्याभ्यः ॥

    imám ǀ ūṃ íti ǀ tyám ǀ atharva-vát ǀ agním ǀ manthanti ǀ vedhásaḥ ǀ
    yám ǀ aṅku-yántam ǀ ā́ ǀ ánayan ǀ ámūram ǀ śyāvyā́bhyaḥ ǁ

    imam ǀ ūṃ iti ǀ tyam ǀ atharva-vat ǀ agnim ǀ manthanti ǀ vedhasaḥ ǀ
    yam ǀ aṅku-yantam ǀ ā ǀ anayan ǀ amūram ǀ śyāvyābhyaḥ ǁ

    6.15.17 Aṣṭaka 4.5.20.2Anuvāka 6.1.123

  18. Ṛk 18

    जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ ।
    आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥

    जनिष्वा देववीतये सर्वताता स्वस्तये |
    आ देवान् वक्ष्य् अमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ||

    jániṣvā devávītaye sarvátātā svastáye ǀ
    ā́ devā́nvakṣyamṛ́tām̐ ṛtāvṛ́dho yajñám devéṣu pispṛśaḥ ǁ

    janiṣvā devavītaye sarvatātā svastaye |
    ā devān vakṣy amṛtāṃ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ ||

    जनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ ।
    आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥

    जनिष्व । देवऽवीतये । सर्वऽताता । स्वस्तये ।
    आ । देवान् । वक्षि । अमृतान् । ऋतऽवृधः । यज्ञम् । देवेषु । पिस्पृशः ॥

    jániṣva ǀ devá-vītaye ǀ sarvá-tātā ǀ svastáye ǀ
    ā́ ǀ devā́n ǀ vakṣi ǀ amṛ́tān ǀ ṛta-vṛ́dhaḥ ǀ yajñám ǀ devéṣu ǀ pispṛśaḥ ǁ

    janiṣva ǀ deva-vītaye ǀ sarva-tātā ǀ svastaye ǀ
    ā ǀ devān ǀ vakṣi ǀ amṛtān ǀ ṛta-vṛdhaḥ ǀ yajñam ǀ deveṣu ǀ pispṛśaḥ ǁ

    6.15.18 Aṣṭaka 4.5.20.3Anuvāka 6.1.124

  19. Ṛk 19

    व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हंतं॑ ।
    अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि संतु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥

    वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् |
    अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं शिशाधि ||

    vayámu tvā gṛhapate janānāmágne ákarma samídhā bṛhántam ǀ
    asthūrí no gā́rhapatyāni santu tigména nastéjasā sám śiśādhi ǁ

    vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam |
    asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi ||

    व॒यम् । ऊं॒ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒ना॒ना॒म् । अग्ने॑ । अक॑र्म । स॒म्ऽइधा॑ । बृ॒हन्त॑म् ।
    अ॒स्थू॒रि । नः॒ । गार्ह॑ऽपत्यानि । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । तेज॑सा । सम् । शि॒शा॒धि॒ ॥

    वयम् । ऊं इति । त्वा । गृहऽपते । जनानाम् । अग्ने । अकर्म । सम्ऽइधा । बृहन्तम् ।
    अस्थूरि । नः । गार्हऽपत्यानि । सन्तु । तिग्मेन । नः । तेजसा । सम् । शिशाधि ॥

    vayám ǀ ūṃ íti ǀ tvā ǀ gṛha-pate ǀ janānām ǀ ágne ǀ ákarma ǀ sam-ídhā ǀ bṛhántam ǀ
    asthūrí ǀ naḥ ǀ gā́rha-patyāni ǀ santu ǀ tigména ǀ naḥ ǀ téjasā ǀ sám ǀ śiśādhi ǁ

    vayam ǀ ūṃ iti ǀ tvā ǀ gṛha-pate ǀ janānām ǀ agne ǀ akarma ǀ sam-idhā ǀ bṛhantam ǀ
    asthūri ǀ naḥ ǀ gārha-patyāni ǀ santu ǀ tigmena ǀ naḥ ǀ tejasā ǀ sam ǀ śiśādhi ǁ

    6.15.19 Aṣṭaka 4.5.20.4Anuvāka 6.1.125

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.15 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Thou must crown with the word the guest who wakes from sleep with the dawn, Master of all these peoples. He is pure from his very birth and surely he comes to us from heaven in his time; long too, a child from the womb, he feeds on all that is unfallen. (HTMF PG 79)

Ṛk 2

The Bhrigus set in the Tree the godhead of our aspiration with his high flame of light like a friend well-confirmed in his place. And now, O Wonderful, well-pleased in him who has cast to thee the offering, thou art magnified by wordings of thy power from day to day. (HTMF PG 79 )

Ṛk 3

Be in us the one whom the wolf cannot rend, the god who makes grow the discernment, makes grow the supreme inner Warrior who delivers.11 O Son of Force, extend in mortals the Riches, the wide-spreading House, for the caster of the offering, for Bharadwaja the wide-spreading House. (HTMF PG 79 )

Ṛk 4

Crown must thou the guest shining with light, the Male of the Sun-world, the priest of man’s invocation who makes perfect the Rite of the Path. Crown with your acts of purification the Seer whose speech has its home in the Light,12 the Carrier of offerings, the Traveller, the Godhead of Fire. (HTMF PG 79)

Ṛk 5

He shines with the light that makes pure, the light that awakens to knowledge, shines in beauty on the earth as if with a splendour of Dawn. He is as if one hewing his way in the march and battle of the shining Horse; he is like one athirst and luminously blazing, the ageless Fire. (HTMF PG 80)

Ṛk 6

Fire and again Fire set to work with your fuel, chant with your speech the dear, the beloved Guest. Approach and set the Immortal alight with your words; a god he enjoys in the gods our desirable things,—a god, he enjoys our works in the gods. (HTMF PG 80)

Ṛk 7

I chant the Fire that is kindled with the word for fuel, the Fire that is pure and makes pure; Fire that is steadfast forever and marches in front in the Rite of the Path. We desire with his felicities the Illumined, the priest of the call, the harmless, rich with many blessings, the Seer who knows all births that are. (HTMF PG 80)

Ṛk 8

O Fire, they have set thee here the Messenger, the Immortal in generation after generation, the Carrier of offerings, protector of man and the Godhead of his prayer. Gods alike and mortals sit with obeisance before the all-pervading Master of the peoples, the ever-wakeful Fire. (HTMF PG 81)

Ṛk 9

O Fire, according to the laws of thy works thou pervadest either race; thou art the messenger of the Gods and rangest both the worlds. Since we have accepted thy thinking and the right understanding that is thine, be to us our triple armour of defence and benignant helper. (HTMF PG 81)

Ṛk 10

May we who know not come into touch with this great knower with his true front and just walk and perfect vision. May he who knows all manifested things13 do sacrifice for us, may Fire voice our offering in the world of the Immortals. (HTMF PG 81)

Ṛk 11

O heroic Fire, thou guardest and bringest safe to the other side the man who has reached to the Thought for thee the Seer and achieved the intensity of the sacrifice or its ascending movement; thou fillest him with might and riches. (HTMF PG 81)

Ṛk 12

O Fire that hast the Force, guard us from fault, guard from one who would subject us. May there come to thee along the path full of destructions the thousandfold delectable treasure. (HTMF PG 82)

Ṛk 13

Fire, the priest of the invocation, is a king and the Master in our house; all the births he knows, he is of all things born the Knower. He is strong to sacrifice and the Truth is in him; let him do sacrifice for gods and mortals. (HTMF PG 82)

Ṛk 14

O Fire, O Light that makest pure, O summoning priest of man’s sacrifice, today when thou comest as a doer of worship, today when thou growest all-pervading in thy greatness and offerest the things of the Truth for sacrifice, today carry with thee our offerings, O ever-youthful Fire, even the truths that are thine. (HTMF PG 82

Ṛk 15

Open thy manifesting eye on our firm-based pleasant things; let a man set thee within him to sacrifice to Earth and Heaven. Protect us, O King of Riches, in our conquest of the plenitudes; O Fire, may we pass safe through all the stumbling-places. Let us pass beyond these things, pass in thy keeping through them safe. (HTMF PG 82)

Ṛk 16

O Fire with thy strong armies of flame, sit with the gods,first of them all, in the wool-flecked lair where the Nest is ready and the light-offering; lead for the doer of the rite, for the presser of the wine rightly on its paths the sacrifice. (HTMF PG 83 )

Ṛk 17

This is that Fire whom the ordainers of works churn out like Atharvan of old; a Power unbewildered, they led him in his zigzag walk from the dusky Nights. (HTMF PG 83)

Ṛk 18

Be born to us in our all-forming labour for the coming of the Gods, for our peace. Bring the gods to us, the Immortals, the builders of the growing Truth; give to our sacrifice touch on the gods. (HTMF PG 83)

Ṛk 19

O Fire, O man’s master of the house, we have fed thee with our fuel and made thee a vastness; let the works of the house-master be unhalting, make us utterly keen with thy intense force of light. (HTMF PG 83)