Sūkta 13
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (3, 4); nicṛttriṣṭup (5, 6); paṅktiḥ (1); svarāṭpaṅkti (2)
2nd set of styles triṣṭubh
-
Ṛk 1
त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि यं॑ति व॒निनो॒ न व॒याः ।
श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पां ॥त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः |
श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् ईड्यो रीतिर् अपाम् ||tvádvíśvā subhaga sáubhagānyágne ví yanti vaníno ná vayā́ḥ ǀ
śruṣṭī́ rayírvā́jo vṛtratū́rye divó vṛṣṭírī́ḍyo rītírapā́m ǁtvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ |
śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām ||त्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः ।
श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥त्वत् । विश्वा । सुऽभग । सौभगानि । अग्ने । वि । यान्ति । वनिनः । न । वयाः ।
श्रुष्टी । रयिः । वाजः । वृत्रऽतूर्ये । दिवः । वृष्टिः । ईड्यः । रीतिः । अपाम् ॥tvát ǀ víśvā ǀ su-bhaga ǀ sáubhagāni ǀ ágne ǀ ví ǀ yānti ǀ vanínaḥ ǀ ná ǀ vayā́ḥ ǀ
śruṣṭī́ ǀ rayíḥ ǀ vā́jaḥ ǀ vṛtra-tū́rye ǀ diváḥ ǀ vṛṣṭíḥ ǀ ī́ḍyaḥ ǀ rītíḥ ǀ apā́m ǁtvat ǀ viśvā ǀ su-bhaga ǀ saubhagāni ǀ agne ǀ vi ǀ yānti ǀ vaninaḥ ǀ na ǀ vayāḥ ǀ
śruṣṭī ǀ rayiḥ ǀ vājaḥ ǀ vṛtra-tūrye ǀ divaḥ ǀ vṛṣṭiḥ ǀ īḍyaḥ ǀ rītiḥ ǀ apām ǁ6.13.1 Aṣṭaka 4.5.15.1Anuvāka 6.1.95
-
Ṛk 2
त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः ।
अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः॑ ॥त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः |
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ||tvám bhágo na ā́ hí rátnamiṣé párijmeva kṣayasi dasmávarcāḥ ǀ
ágne mitró ná bṛhatá ṛtásyā́si kṣattā́ vāmásya deva bhū́reḥ ǁtvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ |
agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||त्वम् । भगः॑ । नः॒ । आ । हि । रत्न॑म् । इ॒षे । परि॑ज्माऽइव । क्ष॒य॒सि॒ । द॒स्मऽव॑र्चाः ।
अग्ने॑ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य॑ । असि॑ । क्ष॒त्ता । वा॒मस्य॑ । दे॒व॒ । भूरेः॑ ॥त्वम् । भगः । नः । आ । हि । रत्नम् । इषे । परिज्माऽइव । क्षयसि । दस्मऽवर्चाः ।
अग्ने । मित्रः । न । बृहतः । ऋतस्य । असि । क्षत्ता । वामस्य । देव । भूरेः ॥tvám ǀ bhágaḥ ǀ naḥ ǀ ā́ ǀ hí ǀ rátnam ǀ iṣé ǀ párijmā-iva ǀ kṣayasi ǀ dasmá-varcāḥ ǀ
ágne ǀ mitráḥ ǀ ná ǀ bṛhatáḥ ǀ ṛtásya ǀ ási ǀ kṣattā́ ǀ vāmásya ǀ deva ǀ bhū́reḥ ǁtvam ǀ bhagaḥ ǀ naḥ ǀ ā ǀ hi ǀ ratnam ǀ iṣe ǀ parijmā-iva ǀ kṣayasi ǀ dasma-varcāḥ ǀ
agne ǀ mitraḥ ǀ na ǀ bṛhataḥ ǀ ṛtasya ǀ asi ǀ kṣattā ǀ vāmasya ǀ deva ǀ bhūreḥ ǁ6.13.2 Aṣṭaka 4.5.15.2Anuvāka 6.1.96
-
Ṛk 3
स सत्प॑तिः॒ शव॑सा हंति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाजं॑ ।
यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् |
यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ||sá sátpatiḥ śávasā hanti vṛtrámágne vípro ví paṇérbharti vā́jam ǀ
yám tvám praceta ṛtajāta rāyā́ sajóṣā náptrāpā́m hinóṣi ǁsa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam |
yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi ||सः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् ।
यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥सः । सत्ऽपतिः । शवसा । हन्ति । वृत्रम् । अग्ने । विप्रः । वि । पणेः । भर्ति । वाजम् ।
यम् । त्वम् । प्रऽचेतः । ऋतऽजात । राया । सऽजोषाः । नप्त्रा । अपाम् । हिनोषि ॥sáḥ ǀ sát-patiḥ ǀ śávasā ǀ hanti ǀ vṛtrám ǀ agne ǀ vípraḥ ǀ ví ǀ paṇéḥ ǀ bharti ǀ vā́jam ǀ
yám ǀ tvám ǀ pra-cetaḥ ǀ ṛta-jāta ǀ rāyā́ ǀ sa-jóṣāḥ ǀ náptrā ǀ apā́m ǀ hinóṣi ǁsaḥ ǀ sat-patiḥ ǀ śavasā ǀ hanti ǀ vṛtram ǀ agne ǀ vipraḥ ǀ vi ǀ paṇeḥ ǀ bharti ǀ vājam ǀ
yam ǀ tvam ǀ pra-cetaḥ ǀ ṛta-jāta ǀ rāyā ǀ sa-joṣāḥ ǀ naptrā ǀ apām ǀ hinoṣi ǁ6.13.3 Aṣṭaka 4.5.15.3Anuvāka 6.1.97
-
Ṛk 4
यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् ।
विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यैः॑ ॥यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिं वेद्यानट् |
विश्वं स देव प्रति वारम् अग्ने धत्ते धान्यम् पत्यते वसव्यैः ||yáste sūno sahaso gīrbhíruktháiryajñáirmárto níśitim vedyā́naṭ ǀ
víśvam sá deva práti vā́ramagne dhatté dhānyám pátyate vasavyáiḥ ǁyas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ |
viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ ||यः । ते॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । य॒ज्ञैः । मर्तः॑ । निऽशि॑तम् । वे॒द्या । आन॑ट् ।
विश्व॑म् । सः । दे॒व॒ । प्रति॑ । वार॑म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्य॑म् । पत्य॑ते । व॒स॒व्यैः॑ ॥यः । ते । सूनो इति । सहसः । गीःऽभिः । उक्थैः । यज्ञैः । मर्तः । निऽशितम् । वेद्या । आनट् ।
विश्वम् । सः । देव । प्रति । वारम् । अग्ने । धत्ते । धान्यम् । पत्यते । वसव्यैः ॥yáḥ ǀ te ǀ sūno íti ǀ sahasaḥ ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ yajñáiḥ ǀ mártaḥ ǀ ní-śitam ǀ vedyā́ ǀ ā́naṭ ǀ
víśvam ǀ sáḥ ǀ deva ǀ práti ǀ vā́ram ǀ agne ǀ dhatté ǀ dhānyám ǀ pátyate ǀ vasavyáiḥ ǁyaḥ ǀ te ǀ sūno iti ǀ sahasaḥ ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ yajñaiḥ ǀ martaḥ ǀ ni-śitam ǀ vedyā ǀ ānaṭ ǀ
viśvam ǀ saḥ ǀ deva ǀ prati ǀ vāram ǀ agne ǀ dhatte ǀ dhānyam ǀ patyate ǀ vasavyaiḥ ǁ6.13.4 Aṣṭaka 4.5.15.4Anuvāka 6.1.98
-
Ṛk 5
ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः ।
कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः |
कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये ||tā́ nṛ́bhya ā́ sauśravasā́ suvī́rā́gne sūno sahasaḥ puṣyáse dhāḥ ǀ
kṛṇóṣi yácchávasā bhū́ri paśvó váyo vṛ́kāyāráye jásuraye ǁtā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ |
kṛṇoṣi yac chavasā bhūri paśvo vayo vṛkāyāraye jasuraye ||ता । नृऽभ्यः॑ । आ । सौ॒श्र॒व॒सा । सु॒ऽवीरा॑ । अग्ने॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । पु॒ष्यसे॑ । धाः॒ ।
कृ॒णोषि॑ । यत् । शव॑सा । भूरि॑ । प॒श्वः । वयः॑ । वृका॑य । अ॒रये॑ । जसु॑रये ॥ता । नृऽभ्यः । आ । सौश्रवसा । सुऽवीरा । अग्ने । सूनो इति । सहसः । पुष्यसे । धाः ।
कृणोषि । यत् । शवसा । भूरि । पश्वः । वयः । वृकाय । अरये । जसुरये ॥tā́ ǀ nṛ́-bhyaḥ ǀ ā́ ǀ sauśravasā́ ǀ su-vī́rā ǀ ágne ǀ sūno íti ǀ sahasaḥ ǀ puṣyáse ǀ dhāḥ ǀ
kṛṇóṣi ǀ yát ǀ śávasā ǀ bhū́ri ǀ paśváḥ ǀ váyaḥ ǀ vṛ́kāya ǀ aráye ǀ jásuraye ǁtā ǀ nṛ-bhyaḥ ǀ ā ǀ sauśravasā ǀ su-vīrā ǀ agne ǀ sūno iti ǀ sahasaḥ ǀ puṣyase ǀ dhāḥ ǀ
kṛṇoṣi ǀ yat ǀ śavasā ǀ bhūri ǀ paśvaḥ ǀ vayaḥ ǀ vṛkāya ǀ araye ǀ jasuraye ǁ6.13.5 Aṣṭaka 4.5.15.5Anuvāka 6.1.99
-
Ṛk 6
व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः ।
विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः |
विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः ||vadmā́ sūno sahaso no víhāyā ágne tokám tánayam vājí no dāḥ ǀ
víśvābhirgīrbhírabhí pūrtímaśyām mádema śatáhimāḥ suvī́rāḥ ǁvadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ |
viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ ||व॒द्मा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । विऽहा॑याः । अग्ने॑ । तो॒कम् । तन॑यम् । वा॒जि । नः॒ । दाः॒ ।
विश्वा॑भिः । गीः॒ऽभिः । अ॒भि । पू॒र्तिम् । अ॒श्या॒म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥वद्मा । सूनो इति । सहसः । नः । विऽहायाः । अग्ने । तोकम् । तनयम् । वाजि । नः । दाः ।
विश्वाभिः । गीःऽभिः । अभि । पूर्तिम् । अश्याम् । मदेम । शतऽहिमाः । सुऽवीराः ॥vadmā́ ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ ví-hāyāḥ ǀ ágne ǀ tokám ǀ tánayam ǀ vājí ǀ naḥ ǀ dāḥ ǀ
víśvābhiḥ ǀ gīḥ-bhíḥ ǀ abhí ǀ pūrtím ǀ aśyām ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁvadmā ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ vi-hāyāḥ ǀ agne ǀ tokam ǀ tanayam ǀ vāji ǀ naḥ ǀ dāḥ ǀ
viśvābhiḥ ǀ gīḥ-bhiḥ ǀ abhi ǀ pūrtim ǀ aśyām ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ6.13.6 Aṣṭaka 4.5.15.6Anuvāka 6.1.100
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.