Ṛk 6.13.3
Saṃhitā
स सत्प॑तिः॒ शव॑सा हंति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाजं॑ ।
यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥
स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् |
यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ||
sá sátpatiḥ śávasā hanti vṛtrámágne vípro ví paṇérbharti vā́jam ǀ
yám tvám praceta ṛtajāta rāyā́ sajóṣā náptrāpā́m hinóṣi ǁ
sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam |
yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi ||
Padapāṭha
सः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् ।
यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥
सः । सत्ऽपतिः । शवसा । हन्ति । वृत्रम् । अग्ने । विप्रः । वि । पणेः । भर्ति । वाजम् ।
यम् । त्वम् । प्रऽचेतः । ऋतऽजात । राया । सऽजोषाः । नप्त्रा । अपाम् । हिनोषि ॥
sáḥ ǀ sát-patiḥ ǀ śávasā ǀ hanti ǀ vṛtrám ǀ agne ǀ vípraḥ ǀ ví ǀ paṇéḥ ǀ bharti ǀ vā́jam ǀ
yám ǀ tvám ǀ pra-cetaḥ ǀ ṛta-jāta ǀ rāyā́ ǀ sa-jóṣāḥ ǀ náptrā ǀ apā́m ǀ hinóṣi ǁ
saḥ ǀ sat-patiḥ ǀ śavasā ǀ hanti ǀ vṛtram ǀ agne ǀ vipraḥ ǀ vi ǀ paṇeḥ ǀ bharti ǀ vājam ǀ
yam ǀ tvam ǀ pra-cetaḥ ǀ ṛta-jāta ǀ rāyā ǀ sa-joṣāḥ ǀ naptrā ǀ apām ǀ hinoṣi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.013.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.15.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.097
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.