Sūkta 36
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nara Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (4, 5); nicṛttriṣṭup (1); virāṭtrisṭup (2); svarāṭpaṅkti (3)
2nd set of styles triṣṭubh
-
Ṛk 1
स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः ।
स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्यं॑ ॥सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः |
सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम् ||satrā́ mádāsastáva viśvájanyāḥ satrā́ rā́yó’dha yé pā́rthivāsaḥ ǀ
satrā́ vā́jānāmabhavo vibhaktā́ yáddevéṣu dhāráyathā asuryám ǁsatrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ |
satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam ||स॒त्रा । मदा॑सः । तव॑ । वि॒श्वऽज॑न्याः । स॒त्रा । रायः॑ । अध॑ । ये । पार्थि॑वासः ।
स॒त्रा । वाजा॑नाम् । अ॒भ॒वः॒ । वि॒ऽभ॒क्ता । यत् । दे॒वेषु॑ । धा॒रय॑थाः । अ॒सु॒र्य॑म् ॥सत्रा । मदासः । तव । विश्वऽजन्याः । सत्रा । रायः । अध । ये । पार्थिवासः ।
सत्रा । वाजानाम् । अभवः । विऽभक्ता । यत् । देवेषु । धारयथाः । असुर्यम् ॥satrā́ ǀ mádāsaḥ ǀ táva ǀ viśvá-janyāḥ ǀ satrā́ ǀ rā́yaḥ ǀ ádha ǀ yé ǀ pā́rthivāsaḥ ǀ
satrā́ ǀ vā́jānām ǀ abhavaḥ ǀ vi-bhaktā́ ǀ yát ǀ devéṣu ǀ dhāráyathāḥ ǀ asuryám ǁsatrā ǀ madāsaḥ ǀ tava ǀ viśva-janyāḥ ǀ satrā ǀ rāyaḥ ǀ adha ǀ ye ǀ pārthivāsaḥ ǀ
satrā ǀ vājānām ǀ abhavaḥ ǀ vi-bhaktā ǀ yat ǀ deveṣu ǀ dhārayathāḥ ǀ asuryam ǁ6.36.1 Aṣṭaka 4.7.8.1Anuvāka 6.3.80
-
Ṛk 2
अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य ।
स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृंजं॒त्यपि॑ वृत्र॒हत्ये॑ ॥अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय |
स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ||ánu prá yeje jána ójo asya satrā́ dadhire ánu vīryā́ya ǀ
syūmagṛ́bhe dúdhayé’rvate ca krátum vṛñjantyápi vṛtrahátye ǁanu pra yeje jana ojo asya satrā dadhire anu vīryāya |
syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye ||अनु॑ । प्र । ये॒जे॒ । जनः॑ । ओजः॑ । अ॒स्य॒ । स॒त्रा । द॒धि॒रे॒ । अनु॑ । वी॒र्या॑य ।
स्यू॒म॒ऽगृभे॑ । दुध॑ये । अर्व॑ते । च॒ । क्रतु॑म् । वृ॒ञ्ज॒न्ति॒ । अपि॑ । वृ॒त्र॒ऽहत्ये॑ ॥अनु । प्र । येजे । जनः । ओजः । अस्य । सत्रा । दधिरे । अनु । वीर्याय ।
स्यूमऽगृभे । दुधये । अर्वते । च । क्रतुम् । वृञ्जन्ति । अपि । वृत्रऽहत्ये ॥ánu ǀ prá ǀ yeje ǀ jánaḥ ǀ ójaḥ ǀ asya ǀ satrā́ ǀ dadhire ǀ ánu ǀ vīryā́ya ǀ
syūma-gṛ́bhe ǀ dúdhaye ǀ árvate ǀ ca ǀ krátum ǀ vṛñjanti ǀ ápi ǀ vṛtra-hátye ǁanu ǀ pra ǀ yeje ǀ janaḥ ǀ ojaḥ ǀ asya ǀ satrā ǀ dadhire ǀ anu ǀ vīryāya ǀ
syūma-gṛbhe ǀ dudhaye ǀ arvate ǀ ca ǀ kratum ǀ vṛñjanti ǀ api ǀ vṛtra-hatye ǁ6.36.2 Aṣṭaka 4.7.8.2Anuvāka 6.3.81
-
Ṛk 3
तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युतः॑ सश्चु॒रिंद्रं॑ ।
स॒मु॒द्रं न सिंध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शंति ॥तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् |
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ||tám sadhrī́cīrūtáyo vṛ́ṣṇyāni páuṃsyāni niyútaḥ saścuríndram ǀ
samudrám ná síndhava uktháśuṣmā uruvyácasam gíra ā́ viśanti ǁtaṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram |
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti ||तम् । स॒ध्रीचीः॑ । ऊ॒तयः॑ । वृष्ण्या॑नि । पौंस्या॑नि । नि॒ऽयुतः॑ । स॒श्चुः॒ । इन्द्र॑म् ।
स॒मु॒द्रम् । न । सिन्ध॑वः । उ॒क्थऽशु॑ष्माः । उ॒रु॒ऽव्यच॑सम् । गिरः॑ । आ । वि॒श॒न्ति॒ ॥तम् । सध्रीचीः । ऊतयः । वृष्ण्यानि । पौंस्यानि । निऽयुतः । सश्चुः । इन्द्रम् ।
समुद्रम् । न । सिन्धवः । उक्थऽशुष्माः । उरुऽव्यचसम् । गिरः । आ । विशन्ति ॥tám ǀ sadhrī́cīḥ ǀ ūtáyaḥ ǀ vṛ́ṣṇyāni ǀ páuṃsyāni ǀ ni-yútaḥ ǀ saścuḥ ǀ índram ǀ
samudrám ǀ ná ǀ síndhavaḥ ǀ ukthá-śuṣmāḥ ǀ uru-vyácasam ǀ gíraḥ ǀ ā́ ǀ viśanti ǁtam ǀ sadhrīcīḥ ǀ ūtayaḥ ǀ vṛṣṇyāni ǀ pauṃsyāni ǀ ni-yutaḥ ǀ saścuḥ ǀ indram ǀ
samudram ǀ na ǀ sindhavaḥ ǀ uktha-śuṣmāḥ ǀ uru-vyacasam ǀ giraḥ ǀ ā ǀ viśanti ǁ6.36.3 Aṣṭaka 4.7.8.3Anuvāka 6.3.82
-
Ṛk 4
स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्चं॒द्रस्य॒ त्वमिं॑द्र॒ वस्वः॑ ।
पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः |
पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा ||sá rāyáskhā́múpa sṛjā gṛṇānáḥ puruścandrásya tvámindra vásvaḥ ǀ
pátirbabhūthā́samo jánānāméko víśvasya bhúvanasya rā́jā ǁsa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ |
patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā ||सः । रा॒यः । खाम् । उप॑ । सृ॒ज॒ । गृ॒णा॒नः । पु॒रु॒ऽच॒न्द्रस्य॑ । त्वम् । इ॒न्द्र॒ । वस्वः॑ ।
पतिः॑ । ब॒भू॒थ॒ । अस॑मः । जना॑नाम् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥सः । रायः । खाम् । उप । सृज । गृणानः । पुरुऽचन्द्रस्य । त्वम् । इन्द्र । वस्वः ।
पतिः । बभूथ । असमः । जनानाम् । एकः । विश्वस्य । भुवनस्य । राजा ॥sáḥ ǀ rāyáḥ ǀ khā́m ǀ úpa ǀ sṛja ǀ gṛṇānáḥ ǀ puru-candrásya ǀ tvám ǀ indra ǀ vásvaḥ ǀ
pátiḥ ǀ babhūtha ǀ ásamaḥ ǀ jánānām ǀ ékaḥ ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǁsaḥ ǀ rāyaḥ ǀ khām ǀ upa ǀ sṛja ǀ gṛṇānaḥ ǀ puru-candrasya ǀ tvam ǀ indra ǀ vasvaḥ ǀ
patiḥ ǀ babhūtha ǀ asamaḥ ǀ janānām ǀ ekaḥ ǀ viśvasya ǀ bhuvanasya ǀ rājā ǁ6.36.4 Aṣṭaka 4.7.8.4Anuvāka 6.3.83
-
Ṛk 5
स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः ।
असो॒ यथा॑ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः |
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ||sá tú śrudhi śrútyā yó duvoyúrdyáurná bhū́mābhí rā́yo aryáḥ ǀ
áso yáthā naḥ śávasā cakānó yugéyuge váyasā cékitānaḥ ǁsa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ |
aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ ||सः । तु । श्रु॒धि॒ । श्रुत्या॑ । यः । दु॒वः॒ऽयुः । द्यौः । न । भूम॑ । अ॒भि । रायः॑ । अ॒र्यः ।
असः॑ । यथा॑ । नः॒ । शव॑सा । च॒का॒नः । यु॒गेऽयु॑गे । वय॑सा । चेकि॑तानः ॥सः । तु । श्रुधि । श्रुत्या । यः । दुवःऽयुः । द्यौः । न । भूम । अभि । रायः । अर्यः ।
असः । यथा । नः । शवसा । चकानः । युगेऽयुगे । वयसा । चेकितानः ॥sáḥ ǀ tú ǀ śrudhi ǀ śrútyā ǀ yáḥ ǀ duvaḥ-yúḥ ǀ dyáuḥ ǀ ná ǀ bhū́ma ǀ abhí ǀ rā́yaḥ ǀ aryáḥ ǀ
ásaḥ ǀ yáthā ǀ naḥ ǀ śávasā ǀ cakānáḥ ǀ yugé-yuge ǀ váyasā ǀ cékitānaḥ ǁsaḥ ǀ tu ǀ śrudhi ǀ śrutyā ǀ yaḥ ǀ duvaḥ-yuḥ ǀ dyauḥ ǀ na ǀ bhūma ǀ abhi ǀ rāyaḥ ǀ aryaḥ ǀ
asaḥ ǀ yathā ǀ naḥ ǀ śavasā ǀ cakānaḥ ǀ yuge-yuge ǀ vayasā ǀ cekitānaḥ ǁ6.36.5 Aṣṭaka 4.7.8.5Anuvāka 6.3.84
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.