Ṛk 6.36.2
Saṃhitā
अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य ।
स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृंजं॒त्यपि॑ वृत्र॒हत्ये॑ ॥
अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय |
स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ||
ánu prá yeje jána ójo asya satrā́ dadhire ánu vīryā́ya ǀ
syūmagṛ́bhe dúdhayé’rvate ca krátum vṛñjantyápi vṛtrahátye ǁ
anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye ||
Padapāṭha
अनु॑ । प्र । ये॒जे॒ । जनः॑ । ओजः॑ । अ॒स्य॒ । स॒त्रा । द॒धि॒रे॒ । अनु॑ । वी॒र्या॑य ।
स्यू॒म॒ऽगृभे॑ । दुध॑ये । अर्व॑ते । च॒ । क्रतु॑म् । वृ॒ञ्ज॒न्ति॒ । अपि॑ । वृ॒त्र॒ऽहत्ये॑ ॥
अनु । प्र । येजे । जनः । ओजः । अस्य । सत्रा । दधिरे । अनु । वीर्याय ।
स्यूमऽगृभे । दुधये । अर्वते । च । क्रतुम् । वृञ्जन्ति । अपि । वृत्रऽहत्ये ॥
ánu ǀ prá ǀ yeje ǀ jánaḥ ǀ ójaḥ ǀ asya ǀ satrā́ ǀ dadhire ǀ ánu ǀ vīryā́ya ǀ
syūma-gṛ́bhe ǀ dúdhaye ǀ árvate ǀ ca ǀ krátum ǀ vṛñjanti ǀ ápi ǀ vṛtra-hátye ǁ
anu ǀ pra ǀ yeje ǀ janaḥ ǀ ojaḥ ǀ asya ǀ satrā ǀ dadhire ǀ anu ǀ vīryāya ǀ
syūma-gṛbhe ǀ dudhaye ǀ arvate ǀ ca ǀ kratum ǀ vṛñjanti ǀ api ǀ vṛtra-hatye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.036.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.08.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.081
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nara Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.