Ṛk 6.36.5
Saṃhitā
स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः ।
असो॒ यथा॑ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥
स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः |
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ||
sá tú śrudhi śrútyā yó duvoyúrdyáurná bhū́mābhí rā́yo aryáḥ ǀ
áso yáthā naḥ śávasā cakānó yugéyuge váyasā cékitānaḥ ǁ
sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ |
aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ ||
Padapāṭha
सः । तु । श्रु॒धि॒ । श्रुत्या॑ । यः । दु॒वः॒ऽयुः । द्यौः । न । भूम॑ । अ॒भि । रायः॑ । अ॒र्यः ।
असः॑ । यथा॑ । नः॒ । शव॑सा । च॒का॒नः । यु॒गेऽयु॑गे । वय॑सा । चेकि॑तानः ॥
सः । तु । श्रुधि । श्रुत्या । यः । दुवःऽयुः । द्यौः । न । भूम । अभि । रायः । अर्यः ।
असः । यथा । नः । शवसा । चकानः । युगेऽयुगे । वयसा । चेकितानः ॥
sáḥ ǀ tú ǀ śrudhi ǀ śrútyā ǀ yáḥ ǀ duvaḥ-yúḥ ǀ dyáuḥ ǀ ná ǀ bhū́ma ǀ abhí ǀ rā́yaḥ ǀ aryáḥ ǀ
ásaḥ ǀ yáthā ǀ naḥ ǀ śávasā ǀ cakānáḥ ǀ yugé-yuge ǀ váyasā ǀ cékitānaḥ ǁ
saḥ ǀ tu ǀ śrudhi ǀ śrutyā ǀ yaḥ ǀ duvaḥ-yuḥ ǀ dyauḥ ǀ na ǀ bhūma ǀ abhi ǀ rāyaḥ ǀ aryaḥ ǀ
asaḥ ǀ yathā ǀ naḥ ǀ śavasā ǀ cakānaḥ ǀ yuge-yuge ǀ vayasā ǀ cekitānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.036.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.08.05
- Maṇḍala · Anuvāka · Ṛk
- 06.03.084
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nara Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.