Ṛgveda · Maṇḍala 6

Sūkta 33

Indra · Śunahotra Bhāradvāja · 5 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Śunahotra Bhāradvāja
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛtpaṅkti (1-3); bhurikpaṅkti (4); svarāṭpaṅkti (5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    य ओजि॑ष्ठ इंद्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् ।
    सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥

    य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् |
    सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ||

    yá ójiṣṭha indra tám sú no dā mádo vṛṣantsvabhiṣṭírdā́svān ǀ
    sáuvaśvyam yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān ǁ

    ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān |
    sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān ||

    यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् ।
    सौव॑श्व्यम् । यः । व॒नव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥

    यः । ओजिष्ठः । इन्द्र । तम् । सु । नः । दाः । मदः । वृषन् । सुऽअभिष्टिः । दास्वान् ।
    सौवश्व्यम् । यः । वनवत् । सुऽअश्वः । वृत्रा । समत्ऽसु । ससहत् । अमित्रान् ॥

    yáḥ ǀ ójiṣṭhaḥ ǀ indra ǀ tám ǀ sú ǀ naḥ ǀ dāḥ ǀ mádaḥ ǀ vṛṣan ǀ su-abhiṣṭíḥ ǀ dā́svān ǀ
    sáuvaśvyam ǀ yáḥ ǀ vanávat ǀ su-áśvaḥ ǀ vṛtrā́ ǀ samát-su ǀ sasáhat ǀ amítrān ǁ

    yaḥ ǀ ojiṣṭhaḥ ǀ indra ǀ tam ǀ su ǀ naḥ ǀ dāḥ ǀ madaḥ ǀ vṛṣan ǀ su-abhiṣṭiḥ ǀ dāsvān ǀ
    sauvaśvyam ǀ yaḥ ǀ vanavat ǀ su-aśvaḥ ǀ vṛtrā ǀ samat-su ǀ sasahat ǀ amitrān ǁ

    6.33.1 Aṣṭaka 4.7.5.1Anuvāka 6.3.65

  2. Ṛk 2

    त्वां ही॒३॑ं॒द्राव॑से॒ विवा॑चो॒ हवं॑ते चर्ष॒णयः॒ शूर॑सातौ ।
    त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥

    त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ |
    त्वं विप्रेभिर् वि पणींर् अशायस् त्वोत इत् सनिता वाजम् अर्वा ||

    tvā́m hī́ndrā́vase vívāco hávante carṣaṇáyaḥ śū́rasātau ǀ
    tvám víprebhirví paṇī́m̐raśāyastvóta ítsánitā vā́jamárvā ǁ

    tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
    tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā ||

    त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विऽवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ ।
    त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥

    त्वाम् । हि । इन्द्र । अवसे । विऽवाचः । हवन्ते । चर्षणयः । शूरऽसातौ ।
    त्वम् । विप्रेभिः । वि । पणीन् । अशायः । त्वाऽऊतः । इत् । सनिता । वाजम् । अर्वा ॥

    tvā́m ǀ hí ǀ indra ǀ ávase ǀ ví-vācaḥ ǀ hávante ǀ carṣaṇáyaḥ ǀ śū́ra-sātau ǀ
    tvám ǀ víprebhiḥ ǀ ví ǀ paṇī́n ǀ aśāyaḥ ǀ tvā́-ūtaḥ ǀ ít ǀ sánitā ǀ vā́jam ǀ árvā ǁ

    tvām ǀ hi ǀ indra ǀ avase ǀ vi-vācaḥ ǀ havante ǀ carṣaṇayaḥ ǀ śūra-sātau ǀ
    tvam ǀ viprebhiḥ ǀ vi ǀ paṇīn ǀ aśāyaḥ ǀ tvā-ūtaḥ ǀ it ǀ sanitā ǀ vājam ǀ arvā ǁ

    6.33.2 Aṣṭaka 4.7.5.2Anuvāka 6.3.66

  3. Ṛk 3

    त्वं ताँ इं॑द्रो॒भयाँ॑ अ॒मित्रां॒दासा॑ वृ॒त्राण्यार्या॑ च शूर ।
    वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥

    त्वं तां इन्द्रोभयां अमित्रान् दासा वृत्राण्य् आर्या च शूर |
    वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ||

    tvám tā́m̐ indrobháyām̐ amítrāndā́sā vṛtrā́ṇyā́ryā ca śūra ǀ
    vádhīrváneva súdhitebhirátkairā́ pṛtsú darṣi nṛṇā́m nṛtama ǁ

    tvaṃ tāṃ indrobhayāṃ amitrān dāsā vṛtrāṇy āryā ca śūra |
    vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama ||

    त्वम् । तान् । इ॒न्द्र॒ । उ॒भया॑न् । अ॒मित्रा॑न् । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । च॒ । शू॒र॒ ।
    वधीः॑ । वना॑ऽइव । सुऽधि॑तेभिः । अत्कैः॑ । आ । पृ॒त्ऽसु । द॒र्षि॒ । नृ॒णाम् । नृ॒ऽत॒म॒ ॥

    त्वम् । तान् । इन्द्र । उभयान् । अमित्रान् । दासा । वृत्राणि । आर्या । च । शूर ।
    वधीः । वनाऽइव । सुऽधितेभिः । अत्कैः । आ । पृत्ऽसु । दर्षि । नृणाम् । नृऽतम ॥

    tvám ǀ tā́n ǀ indra ǀ ubháyān ǀ amítrān ǀ dā́sā ǀ vṛtrā́ṇi ǀ ā́ryā ǀ ca ǀ śūra ǀ
    vádhīḥ ǀ vánā-iva ǀ sú-dhitebhiḥ ǀ átkaiḥ ǀ ā́ ǀ pṛt-sú ǀ darṣi ǀ nṛṇā́m ǀ nṛ-tama ǁ

    tvam ǀ tān ǀ indra ǀ ubhayān ǀ amitrān ǀ dāsā ǀ vṛtrāṇi ǀ āryā ǀ ca ǀ śūra ǀ
    vadhīḥ ǀ vanā-iva ǀ su-dhitebhiḥ ǀ atkaiḥ ǀ ā ǀ pṛt-su ǀ darṣi ǀ nṛṇām ǀ nṛ-tama ǁ

    6.33.3 Aṣṭaka 4.7.5.3Anuvāka 6.3.67

  4. Ṛk 4

    स त्वं न॑ इं॒द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भूः॑ ।
    स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्यं॑तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥

    स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः |
    स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ||

    sá tvám na indrā́kavābhirūtī́ sákhā viśvā́yuravitā́ vṛdhé bhūḥ ǀ
    svárṣātā yáddhváyāmasi tvā yúdhyanto nemádhitā pṛtsú śūra ǁ

    sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ |
    svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra ||

    सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक॑वाभिः । ऊ॒ती । सखा॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।
    स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । युध्य॑न्तः । ने॒मऽधि॑ता । पृ॒त्ऽसु । शू॒र॒ ॥

    सः । त्वम् । नः । इन्द्र । अकवाभिः । ऊती । सखा । विश्वऽआयुः । अविता । वृधे । भूः ।
    स्वःऽसाता । यत् । ह्वयामसि । त्वा । युध्यन्तः । नेमऽधिता । पृत्ऽसु । शूर ॥

    sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ ákavābhiḥ ǀ ūtī́ ǀ sákhā ǀ viśvá-āyuḥ ǀ avitā́ ǀ vṛdhé ǀ bhūḥ ǀ
    sváḥ-sātā ǀ yát ǀ hváyāmasi ǀ tvā ǀ yúdhyantaḥ ǀ nemá-dhitā ǀ pṛt-sú ǀ śūra ǁ

    saḥ ǀ tvam ǀ naḥ ǀ indra ǀ akavābhiḥ ǀ ūtī ǀ sakhā ǀ viśva-āyuḥ ǀ avitā ǀ vṛdhe ǀ bhūḥ ǀ
    svaḥ-sātā ǀ yat ǀ hvayāmasi ǀ tvā ǀ yudhyantaḥ ǀ nema-dhitā ǀ pṛt-su ǀ śūra ǁ

    6.33.4 Aṣṭaka 4.7.5.4Anuvāka 6.3.68

  5. Ṛk 5

    नू॒नं न॑ इंद्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ ।
    इ॒त्था गृ॒णंतो॑ म॒हिन॑स्य॒ शर्मं॑दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥

    नूनं न इन्द्रापराय च स्या भवा मृऌईक उत नो अभिष्टौ |
    इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः ||

    nūnám na indrāparā́ya ca syā bhávā mṛḷīká utá no abhíṣṭau ǀ
    itthā́ gṛṇánto mahínasya śármandiví ṣyāma pā́rye goṣátamāḥ ǁ

    nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
    itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ ||

    नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ ।
    इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥

    नूनम् । नः । इन्द्र । अपराय । च । स्याः । भव । मृळीकः । उत । नः । अभिष्टौ ।
    इत्था । गृणन्तः । महिनस्य । शर्मन् । दिवि । स्याम । पार्ये । गोसऽतमाः ॥

    nūnám ǀ naḥ ǀ indra ǀ aparā́ya ǀ ca ǀ syāḥ ǀ bháva ǀ mṛḷīkáḥ ǀ utá ǀ naḥ ǀ abhíṣṭau ǀ
    itthā́ ǀ gṛṇántaḥ ǀ mahínasya ǀ śárman ǀ diví ǀ syāma ǀ pā́rye ǀ gosá-tamāḥ ǁ

    nūnam ǀ naḥ ǀ indra ǀ aparāya ǀ ca ǀ syāḥ ǀ bhava ǀ mṛḷīkaḥ ǀ uta ǀ naḥ ǀ abhiṣṭau ǀ
    itthā ǀ gṛṇantaḥ ǀ mahinasya ǀ śarman ǀ divi ǀ syāma ǀ pārye ǀ gosa-tamāḥ ǁ

    6.33.5 Aṣṭaka 4.7.5.5Anuvāka 6.3.69

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.33 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

GIVE us the rapture that is mightiest, Indra, prompt to bestow and swift to aid, O Hero, That wins with brave steeds where brave steeds encounter, and quells the Vṛtras and the foes in battle.

Ṛk 2

For with loud voice the tribes invoke thee, Indra, to aid them in the battlefield of heroes. Thou, with the singers, hast pierced through the Paṇis: the charger whom thou aidest wins the booty.

Ṛk 3

Both races, Indra, of opposing foemen, O Hero, both the Ārya and the Dāsa, Hast thou struck down like woods with well-shot lightnings: thou rentest them in fight, most manly Chieftain!

Ṛk 4

Indra, befriend us with no scanty succour, prosper and aid us, Loved of all that liveth, When, fighting for the sunlight, we invoke thee, O Hero, in the fray, in war's division.