Ṛk 6.33.3
Saṃhitā
त्वं ताँ इं॑द्रो॒भयाँ॑ अ॒मित्रां॒दासा॑ वृ॒त्राण्यार्या॑ च शूर ।
वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥
त्वं तां इन्द्रोभयां अमित्रान् दासा वृत्राण्य् आर्या च शूर |
वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ||
tvám tā́m̐ indrobháyām̐ amítrāndā́sā vṛtrā́ṇyā́ryā ca śūra ǀ
vádhīrváneva súdhitebhirátkairā́ pṛtsú darṣi nṛṇā́m nṛtama ǁ
tvaṃ tāṃ indrobhayāṃ amitrān dāsā vṛtrāṇy āryā ca śūra |
vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama ||
Padapāṭha
त्वम् । तान् । इ॒न्द्र॒ । उ॒भया॑न् । अ॒मित्रा॑न् । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । च॒ । शू॒र॒ ।
वधीः॑ । वना॑ऽइव । सुऽधि॑तेभिः । अत्कैः॑ । आ । पृ॒त्ऽसु । द॒र्षि॒ । नृ॒णाम् । नृ॒ऽत॒म॒ ॥
त्वम् । तान् । इन्द्र । उभयान् । अमित्रान् । दासा । वृत्राणि । आर्या । च । शूर ।
वधीः । वनाऽइव । सुऽधितेभिः । अत्कैः । आ । पृत्ऽसु । दर्षि । नृणाम् । नृऽतम ॥
tvám ǀ tā́n ǀ indra ǀ ubháyān ǀ amítrān ǀ dā́sā ǀ vṛtrā́ṇi ǀ ā́ryā ǀ ca ǀ śūra ǀ
vádhīḥ ǀ vánā-iva ǀ sú-dhitebhiḥ ǀ átkaiḥ ǀ ā́ ǀ pṛt-sú ǀ darṣi ǀ nṛṇā́m ǀ nṛ-tama ǁ
tvam ǀ tān ǀ indra ǀ ubhayān ǀ amitrān ǀ dāsā ǀ vṛtrāṇi ǀ āryā ǀ ca ǀ śūra ǀ
vadhīḥ ǀ vanā-iva ǀ su-dhitebhiḥ ǀ atkaiḥ ǀ ā ǀ pṛt-su ǀ darṣi ǀ nṛṇām ǀ nṛ-tama ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.033.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.05.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.067
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.