Ṛk 6.33.1
Saṃhitā
य ओजि॑ष्ठ इंद्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् ।
सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥
य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् |
सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ||
yá ójiṣṭha indra tám sú no dā mádo vṛṣantsvabhiṣṭírdā́svān ǀ
sáuvaśvyam yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān ǁ
ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān |
sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān ||
Padapāṭha
यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् ।
सौव॑श्व्यम् । यः । व॒नव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥
यः । ओजिष्ठः । इन्द्र । तम् । सु । नः । दाः । मदः । वृषन् । सुऽअभिष्टिः । दास्वान् ।
सौवश्व्यम् । यः । वनवत् । सुऽअश्वः । वृत्रा । समत्ऽसु । ससहत् । अमित्रान् ॥
yáḥ ǀ ójiṣṭhaḥ ǀ indra ǀ tám ǀ sú ǀ naḥ ǀ dāḥ ǀ mádaḥ ǀ vṛṣan ǀ su-abhiṣṭíḥ ǀ dā́svān ǀ
sáuvaśvyam ǀ yáḥ ǀ vanávat ǀ su-áśvaḥ ǀ vṛtrā́ ǀ samát-su ǀ sasáhat ǀ amítrān ǁ
yaḥ ǀ ojiṣṭhaḥ ǀ indra ǀ tam ǀ su ǀ naḥ ǀ dāḥ ǀ madaḥ ǀ vṛṣan ǀ su-abhiṣṭiḥ ǀ dāsvān ǀ
sauvaśvyam ǀ yaḥ ǀ vanavat ǀ su-aśvaḥ ǀ vṛtrā ǀ samat-su ǀ sasahat ǀ amitrān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.033.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.05.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.065
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.