Ṛgveda · Maṇḍala 6

Sūkta 18

Indra · Bharadvāja Bārhaspatya · 15 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 4, 9, 14); triṣṭup (2, 8, 11, 13); bhurikpaṅkti (3, 15); virāṭtrisṭup (7, 10); svarāṭpaṅkti (5); brāhmyuṣnik (6); bhuriktriṣṭup (12)

2nd set of styles triṣṭubh

  1. Ṛk 1

    तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इंद्रः॑ ।
    अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नां ॥

    तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः |
    अषाऌहम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं चर्षणीनाम् ||

    támu ṣṭuhi yó abhíbhūtyojā vanvánnávātaḥ puruhūtá índraḥ ǀ
    áṣāḷhamugrám sáhamānamābhírgīrbhírvardha vṛṣabhám carṣaṇīnā́m ǁ

    tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ |
    aṣāḷham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām ||

    तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । अ॒भिभू॑तिऽओजाः । व॒न्वन् । अवा॑तः । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
    अषा॑ळ्हम् । उ॒ग्रम् । सह॑मानम् । आ॒भिः । गीः॒ऽभिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥

    तम् । ऊं इति । स्तुहि । यः । अभिभूतिऽओजाः । वन्वन् । अवातः । पुरुऽहूतः । इन्द्रः ।
    अषाळ्हम् । उग्रम् । सहमानम् । आभिः । गीःऽभिः । वर्ध । वृषभम् । चर्षणीनाम् ॥

    tám ǀ ūṃ íti ǀ stuhi ǀ yáḥ ǀ abhíbhūti-ojāḥ ǀ vanván ǀ ávātaḥ ǀ puru-hūtáḥ ǀ índraḥ ǀ
    áṣāḷham ǀ ugrám ǀ sáhamānam ǀ ābhíḥ ǀ gīḥ-bhíḥ ǀ vardha ǀ vṛṣabhám ǀ carṣaṇīnā́m ǁ

    tam ǀ ūṃ iti ǀ stuhi ǀ yaḥ ǀ abhibhūti-ojāḥ ǀ vanvan ǀ avātaḥ ǀ puru-hūtaḥ ǀ indraḥ ǀ
    aṣāḷham ǀ ugram ǀ sahamānam ǀ ābhiḥ ǀ gīḥ-bhiḥ ǀ vardha ǀ vṛṣabham ǀ carṣaṇīnām ǁ

    6.18.1 Aṣṭaka 4.6.4.1Anuvāka 6.2.64

  2. Ṛk 2

    स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी ।
    बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑ ॥

    स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमां ऋजीषी |
    बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा ||

    sá yudhmáḥ sátvā khajakṛ́tsamádvā tuvimrakṣó nadanumā́m̐ ṛjīṣī́ ǀ
    bṛhádreṇuścyávano mā́nuṣīṇāmékaḥ kṛṣṭīnā́mabhavatsahā́vā ǁ

    sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṃ ṛjīṣī |
    bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā ||

    सः । यु॒ध्मः । सत्वा॑ । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । तु॒वि॒ऽम्र॒क्षः । न॒द॒नु॒ऽमान् । ऋ॒जी॒षी ।
    बृ॒हत्ऽरे॑णुः । च्यव॑नः । मानु॑षीणाम् । एकः॑ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒हऽवा॑ ॥

    सः । युध्मः । सत्वा । खजऽकृत् । समत्ऽवा । तुविऽम्रक्षः । नदनुऽमान् । ऋजीषी ।
    बृहत्ऽरेणुः । च्यवनः । मानुषीणाम् । एकः । कृष्टीनाम् । अभवत् । सहऽवा ॥

    sáḥ ǀ yudhmáḥ ǀ sátvā ǀ khaja-kṛ́t ǀ samát-vā ǀ tuvi-mrakṣáḥ ǀ nadanu-mā́n ǀ ṛjīṣī́ ǀ
    bṛhát-reṇuḥ ǀ cyávanaḥ ǀ mā́nuṣīṇām ǀ ékaḥ ǀ kṛṣṭīnā́m ǀ abhavat ǀ sahá-vā ǁ

    saḥ ǀ yudhmaḥ ǀ satvā ǀ khaja-kṛt ǀ samat-vā ǀ tuvi-mrakṣaḥ ǀ nadanu-mān ǀ ṛjīṣī ǀ
    bṛhat-reṇuḥ ǀ cyavanaḥ ǀ mānuṣīṇām ǀ ekaḥ ǀ kṛṣṭīnām ǀ abhavat ǀ saha-vā ǁ

    6.18.2 Aṣṭaka 4.6.4.2Anuvāka 6.2.65

  3. Ṛk 3

    त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या॑य ।
    अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इंद्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥

    त्वं ह नु त्यद् अदमायो दस्यूंर् एकः कृष्टीर् अवनोर् आर्याय |
    अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः ||

    tvám ha nú tyádadamāyo dásyūm̐rékaḥ kṛṣṭī́ravanorā́ryāya ǀ
    ásti svinnú vīryám tátta indra ná svidasti tádṛtuthā́ ví vocaḥ ǁ

    tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya |
    asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ ||

    त्वम् । ह॒ । नु । त्यत् । अ॒द॒म॒यः॒ । दस्यू॑न् । एकः॑ । कृ॒ष्टीः । अ॒व॒नोः॒ । आर्या॑य ।
    अस्ति॑ । स्वि॒त् । नु । वी॒र्य॑म् । तत् । ते॒ । इ॒न्द्र॒ । न । स्वि॒त् । अ॒स्ति॒ । तत् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ ॥

    त्वम् । ह । नु । त्यत् । अदमयः । दस्यून् । एकः । कृष्टीः । अवनोः । आर्याय ।
    अस्ति । स्वित् । नु । वीर्यम् । तत् । ते । इन्द्र । न । स्वित् । अस्ति । तत् । ऋतुऽथा । वि । वोचः ॥

    tvám ǀ ha ǀ nú ǀ tyát ǀ adamayaḥ ǀ dásyūn ǀ ékaḥ ǀ kṛṣṭī́ḥ ǀ avanoḥ ǀ ā́ryāya ǀ
    ásti ǀ svit ǀ nú ǀ vīryám ǀ tát ǀ te ǀ indra ǀ ná ǀ svit ǀ asti ǀ tát ǀ ṛtu-thā́ ǀ ví ǀ vocaḥ ǁ

    tvam ǀ ha ǀ nu ǀ tyat ǀ adamayaḥ ǀ dasyūn ǀ ekaḥ ǀ kṛṣṭīḥ ǀ avanoḥ ǀ āryāya ǀ
    asti ǀ svit ǀ nu ǀ vīryam ǀ tat ǀ te ǀ indra ǀ na ǀ svit ǀ asti ǀ tat ǀ ṛtu-thā ǀ vi ǀ vocaḥ ǁ

    6.18.3 Aṣṭaka 4.6.4.3Anuvāka 6.2.66

  4. Ṛk 4

    सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ ।
    उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥

    सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य |
    उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव ||

    sádíddhí te tuvijātásya mánye sáhaḥ sahiṣṭha turatásturásya ǀ
    ugrámugrásya tavásastávīyó’radhrasya radhratúro babhūva ǁ

    sad id dhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya |
    ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva ||

    सत् । इत् । हि । ते॒ । तु॒वि॒ऽजा॒तस्य॑ । मन्ये॑ । सहः॑ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य॑ ।
    उ॒ग्रम् । उ॒ग्रस्य॑ । त॒वसः॑ । तवी॑यः । अर॑ध्रस्य । र॒ध्र॒ऽतुरः॑ । ब॒भू॒व॒ ॥

    सत् । इत् । हि । ते । तुविऽजातस्य । मन्ये । सहः । सहिष्ठ । तुरतः । तुरस्य ।
    उग्रम् । उग्रस्य । तवसः । तवीयः । अरध्रस्य । रध्रऽतुरः । बभूव ॥

    sát ǀ ít ǀ hí ǀ te ǀ tuvi-jātásya ǀ mánye ǀ sáhaḥ ǀ sahiṣṭha ǀ turatáḥ ǀ turásya ǀ
    ugrám ǀ ugrásya ǀ tavásaḥ ǀ távīyaḥ ǀ áradhrasya ǀ radhra-túraḥ ǀ babhūva ǁ

    sat ǀ it ǀ hi ǀ te ǀ tuvi-jātasya ǀ manye ǀ sahaḥ ǀ sahiṣṭha ǀ turataḥ ǀ turasya ǀ
    ugram ǀ ugrasya ǀ tavasaḥ ǀ tavīyaḥ ǀ aradhrasya ǀ radhra-turaḥ ǀ babhūva ǁ

    6.18.4 Aṣṭaka 4.6.4.4Anuvāka 6.2.67

  5. Ṛk 5

    तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमंगि॑रोभिः ।
    हन्न॑च्युतच्युद्दस्मे॒षयं॑तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वाः॑ ॥

    तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः |
    हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः ||

    tánnaḥ pratnám sakhyámastu yuṣmé itthā́ vádadbhirvalámáṅgirobhiḥ ǀ
    hánnacyutacyuddasmeṣáyantamṛṇóḥ púro ví dúro asya víśvāḥ ǁ

    tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ |
    hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ ||

    तत् । नः॒ । प्र॒त्नम् । स॒ख्यम् । अ॒स्तु॒ । यु॒ष्मे इति॑ । इ॒त्था । वद॑त्ऽभिः । व॒लम् । अङ्गि॑रःऽभिः ।
    हन् । अ॒च्यु॒त॒ऽच्यु॒त् । द॒स्म॒ । इ॒षय॑न्तम् । ऋ॒णोः । पुरः॑ । वि । दुरः॑ । अ॒स्य॒ । विश्वाः॑ ॥

    तत् । नः । प्रत्नम् । सख्यम् । अस्तु । युष्मे इति । इत्था । वदत्ऽभिः । वलम् । अङ्गिरःऽभिः ।
    हन् । अच्युतऽच्युत् । दस्म । इषयन्तम् । ऋणोः । पुरः । वि । दुरः । अस्य । विश्वाः ॥

    tát ǀ naḥ ǀ pratnám ǀ sakhyám ǀ astu ǀ yuṣmé íti ǀ itthā́ ǀ vádat-bhiḥ ǀ valám ǀ áṅgiraḥ-bhiḥ ǀ
    hán ǀ acyuta-cyut ǀ dasma ǀ iṣáyantam ǀ ṛṇóḥ ǀ púraḥ ǀ ví ǀ dúraḥ ǀ asya ǀ víśvāḥ ǁ

    tat ǀ naḥ ǀ pratnam ǀ sakhyam ǀ astu ǀ yuṣme iti ǀ itthā ǀ vadat-bhiḥ ǀ valam ǀ aṅgiraḥ-bhiḥ ǀ
    han ǀ acyuta-cyut ǀ dasma ǀ iṣayantam ǀ ṛṇoḥ ǀ puraḥ ǀ vi ǀ duraḥ ǀ asya ǀ viśvāḥ ǁ

    6.18.5 Aṣṭaka 4.6.4.5Anuvāka 6.2.68

  6. Ṛk 6

    स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ ।
    स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तंत॒साय्यो॑ अभवत्स॒मत्सु॑ ॥

    स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये |
    स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु ||

    sá hí dhībhírhávyo ástyugrá īśānakṛ́nmahatí vṛtratū́rye ǀ
    sá tokásātā tánaye sá vajrī́ vitantasā́yyo abhavatsamátsu ǁ

    sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye |
    sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu ||

    सः । हि । धी॒भिः । हव्यः॑ । अस्ति॑ । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ ।
    सः । तो॒कऽसा॑ता । तन॑ये । सः । व॒ज्री । वि॒त॒न्त॒साय्यः॑ । अ॒भ॒व॒त् । स॒मत्ऽसु॑ ॥

    सः । हि । धीभिः । हव्यः । अस्ति । उग्रः । ईशानऽकृत् । महति । वृत्रऽतूर्ये ।
    सः । तोकऽसाता । तनये । सः । वज्री । वितन्तसाय्यः । अभवत् । समत्ऽसु ॥

    sáḥ ǀ hí ǀ dhībhíḥ ǀ hávyaḥ ǀ ásti ǀ ugráḥ ǀ īśāna-kṛ́t ǀ mahatí ǀ vṛtra-tū́rye ǀ
    sáḥ ǀ toká-sātā ǀ tánaye ǀ sáḥ ǀ vajrī́ ǀ vitantasā́yyaḥ ǀ abhavat ǀ samát-su ǁ

    saḥ ǀ hi ǀ dhībhiḥ ǀ havyaḥ ǀ asti ǀ ugraḥ ǀ īśāna-kṛt ǀ mahati ǀ vṛtra-tūrye ǀ
    saḥ ǀ toka-sātā ǀ tanaye ǀ saḥ ǀ vajrī ǀ vitantasāyyaḥ ǀ abhavat ǀ samat-su ǁ

    6.18.6 Aṣṭaka 4.6.5.1Anuvāka 6.2.69

  7. Ṛk 7

    स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे ।
    स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑मः॒ समो॑काः ॥

    स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे |
    स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ||

    sá majmánā jánima mā́nuṣāṇāmámartyena nā́mnā́ti prá sarsre ǀ
    sá dyumnéna sá śávasotá rāyā́ sá vīryéṇa nṛ́tamaḥ sámokāḥ ǁ

    sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre |
    sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ||

    सः । म॒ज्मना॑ । जनि॑म । मानु॑षाणाम् । अम॑र्त्येन । नाम्ना॑ । अति॑ । प्र । स॒र्स्रे॒ ।
    सः । द्यु॒म्नेन॑ । सः । शव॑सा । उ॒त । रा॒या । सः । वी॒र्ये॑ण । नृऽत॑मः । सम्ऽओ॑काः ॥

    सः । मज्मना । जनिम । मानुषाणाम् । अमर्त्येन । नाम्ना । अति । प्र । सर्स्रे ।
    सः । द्युम्नेन । सः । शवसा । उत । राया । सः । वीर्येण । नृऽतमः । सम्ऽओकाः ॥

    sáḥ ǀ majmánā ǀ jánima ǀ mā́nuṣāṇām ǀ ámartyena ǀ nā́mnā ǀ áti ǀ prá ǀ sarsre ǀ
    sáḥ ǀ dyumnéna ǀ sáḥ ǀ śávasā ǀ utá ǀ rāyā́ ǀ sáḥ ǀ vīryéṇa ǀ nṛ́-tamaḥ ǀ sám-okāḥ ǁ

    saḥ ǀ majmanā ǀ janima ǀ mānuṣāṇām ǀ amartyena ǀ nāmnā ǀ ati ǀ pra ǀ sarsre ǀ
    saḥ ǀ dyumnena ǀ saḥ ǀ śavasā ǀ uta ǀ rāyā ǀ saḥ ǀ vīryeṇa ǀ nṛ-tamaḥ ǀ sam-okāḥ ǁ

    6.18.7 Aṣṭaka 4.6.5.2Anuvāka 6.2.70

  8. Ṛk 8

    स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मंतु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च ।
    वृ॒णक्पिप्रुं॒ शंब॑रं॒ शुष्ण॒मिंद्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥

    स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च |
    वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ||

    sá yó ná muhé ná míthū jáno bhū́tsumántunāmā cúmurim dhúnim ca ǀ
    vṛṇákpíprum śámbaram śúṣṇamíndraḥ purā́m cyautnā́ya śayáthāya nū́ cit ǁ

    sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca |
    vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit ||

    सः । यः । न । मु॒हे । न । मिथु॑ । जनः॑ । भूत् । सु॒मन्तु॑ऽनामा । चुमु॑रिम् । धुनि॑म् । च॒ ।
    वृ॒णक् । पिप्रु॑म् । शम्ब॑रम् । शुष्ण॑म् । इन्द्रः॑ । पु॒राम् । च्यौ॒त्नाय॑ । श॒यथा॑य । नु । चि॒त् ॥

    सः । यः । न । मुहे । न । मिथु । जनः । भूत् । सुमन्तुऽनामा । चुमुरिम् । धुनिम् । च ।
    वृणक् । पिप्रुम् । शम्बरम् । शुष्णम् । इन्द्रः । पुराम् । च्यौत्नाय । शयथाय । नु । चित् ॥

    sáḥ ǀ yáḥ ǀ ná ǀ muhé ǀ ná ǀ míthu ǀ jánaḥ ǀ bhū́t ǀ sumántu-nāmā ǀ cúmurim ǀ dhúnim ǀ ca ǀ
    vṛṇák ǀ píprum ǀ śámbaram ǀ śúṣṇam ǀ índraḥ ǀ purā́m ǀ cyautnā́ya ǀ śayáthāya ǀ nú ǀ cit ǁ

    saḥ ǀ yaḥ ǀ na ǀ muhe ǀ na ǀ mithu ǀ janaḥ ǀ bhūt ǀ sumantu-nāmā ǀ cumurim ǀ dhunim ǀ ca ǀ
    vṛṇak ǀ piprum ǀ śambaram ǀ śuṣṇam ǀ indraḥ ǀ purām ǀ cyautnāya ǀ śayathāya ǀ nu ǀ cit ǁ

    6.18.8 Aṣṭaka 4.6.5.3Anuvāka 6.2.71

  9. Ṛk 9

    उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिंद्र तिष्ठ ।
    धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र मं॑द पुरुदत्र मा॒याः ॥

    उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ |
    धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ||

    udā́vatā tvákṣasā pányasā ca vṛtrahátyāya ráthamindra tiṣṭha ǀ
    dhiṣvá vájram hásta ā́ dakṣiṇatrā́bhí prá manda purudatra māyā́ḥ ǁ

    udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha |
    dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ||

    उ॒त्ऽअव॑ता । त्वक्ष॑सा । पन्य॑सा । च॒ । वृ॒त्र॒ऽहत्या॑य । रथ॑म् । इ॒न्द्र॒ । ति॒ष्ठ॒ ।
    धि॒ष्व । वज्र॑म् । हस्ते॑ । आ । द॒क्षि॒ण॒ऽत्रा । अ॒भि । प्र । म॒न्द॒ । पु॒रु॒ऽद॒त्र॒ । मा॒याः ॥

    उत्ऽअवता । त्वक्षसा । पन्यसा । च । वृत्रऽहत्याय । रथम् । इन्द्र । तिष्ठ ।
    धिष्व । वज्रम् । हस्ते । आ । दक्षिणऽत्रा । अभि । प्र । मन्द । पुरुऽदत्र । मायाः ॥

    ut-ávatā ǀ tvákṣasā ǀ pányasā ǀ ca ǀ vṛtra-hátyāya ǀ rátham ǀ indra ǀ tiṣṭha ǀ
    dhiṣvá ǀ vájram ǀ háste ǀ ā́ ǀ dakṣiṇa-trā́ ǀ abhí ǀ prá ǀ manda ǀ puru-datra ǀ māyā́ḥ ǁ

    ut-avatā ǀ tvakṣasā ǀ panyasā ǀ ca ǀ vṛtra-hatyāya ǀ ratham ǀ indra ǀ tiṣṭha ǀ
    dhiṣva ǀ vajram ǀ haste ǀ ā ǀ dakṣiṇa-trā ǀ abhi ǀ pra ǀ manda ǀ puru-datra ǀ māyāḥ ǁ

    6.18.9 Aṣṭaka 4.6.5.4Anuvāka 6.2.72

  10. Ṛk 10

    अ॒ग्निर्न शुष्कं॒ वन॑मिंद्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा ।
    गं॒भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता दं॒भय॑च्च ॥

    अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा |
    गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च ||

    agnírná śúṣkam vánamindra hetī́ rákṣo ní dhakṣyaśánirná bhīmā́ ǀ
    gambhīráya ṛṣváyā yó rurójā́dhvānayadduritā́ dambháyacca ǁ

    agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā |
    gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayac ca ||

    अ॒ग्निः । न । शुष्क॑म् । वन॑म् । इ॒न्द्र॒ । हे॒तीः । रक्षः॑ । नि । ध॒क्षि॒ । अ॒शनिः॑ । न । भी॒मा ।
    ग॒म्भी॒रया॑ । ऋ॒ष्वया॑ । यः । रु॒रोज॑ । अध्व॑नयत् । दुः॒ऽइ॒ता । द॒म्भय॑त् । च॒ ॥

    अग्निः । न । शुष्कम् । वनम् । इन्द्र । हेतीः । रक्षः । नि । धक्षि । अशनिः । न । भीमा ।
    गम्भीरया । ऋष्वया । यः । रुरोज । अध्वनयत् । दुःऽइता । दम्भयत् । च ॥

    agníḥ ǀ ná ǀ śúṣkam ǀ vánam ǀ indra ǀ hetī́ḥ ǀ rákṣaḥ ǀ ní ǀ dhakṣi ǀ aśániḥ ǀ ná ǀ bhīmā́ ǀ
    gambhīráyā ǀ ṛṣváyā ǀ yáḥ ǀ rurója ǀ ádhvanayat ǀ duḥ-itā́ ǀ dambháyat ǀ ca ǁ

    agniḥ ǀ na ǀ śuṣkam ǀ vanam ǀ indra ǀ hetīḥ ǀ rakṣaḥ ǀ ni ǀ dhakṣi ǀ aśaniḥ ǀ na ǀ bhīmā ǀ
    gambhīrayā ǀ ṛṣvayā ǀ yaḥ ǀ ruroja ǀ adhvanayat ǀ duḥ-itā ǀ dambhayat ǀ ca ǁ

    6.18.10 Aṣṭaka 4.6.5.5Anuvāka 6.2.73

  11. Ṛk 11

    आ स॒हस्रं॑ प॒थिभि॑रिंद्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् ।
    या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतोः॑ ॥

    आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् |
    याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः ||

    ā́ sahásram pathíbhirindra rāyā́ túvidyumna tuvivā́jebhirarvā́k ǀ
    yāhí sūno sahaso yásya nū́ cidádeva ī́śe puruhūta yótoḥ ǁ

    ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk |
    yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ ||

    आ । स॒हस्र॑म् । प॒थिऽभिः॑ । इ॒न्द्र॒ । रा॒या । तुवि॑ऽद्युम्न । तु॒वि॒ऽवाजे॑भिः । अ॒र्वाक् ।
    या॒हि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यस्य॑ । नु । चि॒त् । अदे॑वः । ईशे॑ । पु॒रु॒ऽहू॒त॒ । योतोः॑ ॥

    आ । सहस्रम् । पथिऽभिः । इन्द्र । राया । तुविऽद्युम्न । तुविऽवाजेभिः । अर्वाक् ।
    याहि । सूनो इति । सहसः । यस्य । नु । चित् । अदेवः । ईशे । पुरुऽहूत । योतोः ॥

    ā́ ǀ sahásram ǀ pathí-bhiḥ ǀ indra ǀ rāyā́ ǀ túvi-dyumna ǀ tuvi-vā́jebhiḥ ǀ arvā́k ǀ
    yāhí ǀ sūno íti ǀ sahasaḥ ǀ yásya ǀ nú ǀ cit ǀ ádevaḥ ǀ ī́śe ǀ puru-hūta ǀ yótoḥ ǁ

    ā ǀ sahasram ǀ pathi-bhiḥ ǀ indra ǀ rāyā ǀ tuvi-dyumna ǀ tuvi-vājebhiḥ ǀ arvāk ǀ
    yāhi ǀ sūno iti ǀ sahasaḥ ǀ yasya ǀ nu ǀ cit ǀ adevaḥ ǀ īśe ǀ puru-hūta ǀ yotoḥ ǁ

    6.18.11 Aṣṭaka 4.6.6.1Anuvāka 6.2.74

  12. Ṛk 12

    प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः ।
    नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः॑ ॥

    प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः |
    नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ||

    prá tuvidyumnásya sthávirasya ghṛ́ṣverdivó rarapśe mahimā́ pṛthivyā́ḥ ǀ
    nā́sya śátrurná pratimā́namasti ná pratiṣṭhíḥ purumāyásya sáhyoḥ ǁ

    pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ |
    nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ ||

    प्र । तु॒वि॒ऽद्यु॒म्नस्य॑ । स्थवि॑रस्य । घृष्वेः॑ । दि॒वः । र॒र॒प्शे॒ । म॒हि॒मा । पृ॒थि॒व्याः ।
    न । अ॒स्य॒ । शत्रुः॑ । न । प्र॒ति॒ऽमान॑म् । अ॒स्ति॒ । न । प्र॒ति॒ऽस्थिः । पु॒रु॒ऽमा॒यस्य॑ । सह्योः॑ ॥

    प्र । तुविऽद्युम्नस्य । स्थविरस्य । घृष्वेः । दिवः । ररप्शे । महिमा । पृथिव्याः ।
    न । अस्य । शत्रुः । न । प्रतिऽमानम् । अस्ति । न । प्रतिऽस्थिः । पुरुऽमायस्य । सह्योः ॥

    prá ǀ tuvi-dyumnásya ǀ sthávirasya ǀ ghṛ́ṣveḥ ǀ diváḥ ǀ rarapśe ǀ mahimā́ ǀ pṛthivyā́ḥ ǀ
    ná ǀ asya ǀ śátruḥ ǀ ná ǀ prati-mā́nam ǀ asti ǀ ná ǀ prati-sthíḥ ǀ puru-māyásya ǀ sáhyoḥ ǁ

    pra ǀ tuvi-dyumnasya ǀ sthavirasya ǀ ghṛṣveḥ ǀ divaḥ ǀ rarapśe ǀ mahimā ǀ pṛthivyāḥ ǀ
    na ǀ asya ǀ śatruḥ ǀ na ǀ prati-mānam ǀ asti ǀ na ǀ prati-sthiḥ ǀ puru-māyasya ǀ sahyoḥ ǁ

    6.18.12 Aṣṭaka 4.6.6.2Anuvāka 6.2.75

  13. Ṛk 13

    प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै ।
    पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥

    प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम् अतिथिग्वम् अस्मै |
    पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता निनेथ ||

    prá tátte adyā́ káraṇam kṛtám bhūtkútsam yádāyúmatithigvámasmai ǀ
    purū́ sahásrā ní śiśā abhí kṣā́múttū́rvayāṇam dhṛṣatā́ ninetha ǁ

    pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai |
    purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha ||

    प्र । तत् । ते॒ । अ॒द्य । कर॑णम् । कृ॒तम् । भू॒त् । कुत्स॑म् । यत् । आ॒युम् । अ॒ति॒थि॒ऽग्वम् । अ॒स्मै॒ ।
    पु॒रु । स॒हस्रा॑ । नि । शि॒शाः॒ । अ॒भि । क्षाम् । उत् । तूर्व॑याणम् । धृ॒ष॒ता । नि॒ने॒थ॒ ॥

    प्र । तत् । ते । अद्य । करणम् । कृतम् । भूत् । कुत्सम् । यत् । आयुम् । अतिथिऽग्वम् । अस्मै ।
    पुरु । सहस्रा । नि । शिशाः । अभि । क्षाम् । उत् । तूर्वयाणम् । धृषता । निनेथ ॥

    prá ǀ tát ǀ te ǀ adyá ǀ káraṇam ǀ kṛtám ǀ bhūt ǀ kútsam ǀ yát ǀ āyúm ǀ atithi-gvám ǀ asmai ǀ
    purú ǀ sahásrā ǀ ní ǀ śiśāḥ ǀ abhí ǀ kṣā́m ǀ út ǀ tū́rvayāṇam ǀ dhṛṣatā́ ǀ ninetha ǁ

    pra ǀ tat ǀ te ǀ adya ǀ karaṇam ǀ kṛtam ǀ bhūt ǀ kutsam ǀ yat ǀ āyum ǀ atithi-gvam ǀ asmai ǀ
    puru ǀ sahasrā ǀ ni ǀ śiśāḥ ǀ abhi ǀ kṣām ǀ ut ǀ tūrvayāṇam ǀ dhṛṣatā ǀ ninetha ǁ

    6.18.13 Aṣṭaka 4.6.6.3Anuvāka 6.2.76

  14. Ṛk 14

    अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नां ।
    करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥

    अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् |
    करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ||

    ánu tvā́highne ádha deva devā́ mádanvíśve kavítamam kavīnā́m ǀ
    káro yátra várivo bādhitā́ya divé jánāya tanvé gṛṇānáḥ ǁ

    anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām |
    karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ ||

    अनु॑ । त्वा॒ । अहि॑ऽघ्ने । अध॑ । दे॒व॒ । दे॒वाः । मद॑न् । विश्वे॑ । क॒विऽत॑मम् । क॒वी॒नाम् ।
    करः॑ । यत्र॑ । वरि॑वः । बा॒धि॒ताय॑ । दि॒वे । जना॑य । त॒न्वे॑ । गृ॒णा॒नः ॥

    अनु । त्वा । अहिऽघ्ने । अध । देव । देवाः । मदन् । विश्वे । कविऽतमम् । कवीनाम् ।
    करः । यत्र । वरिवः । बाधिताय । दिवे । जनाय । तन्वे । गृणानः ॥

    ánu ǀ tvā ǀ áhi-ghne ǀ ádha ǀ deva ǀ devā́ḥ ǀ mádan ǀ víśve ǀ kaví-tamam ǀ kavīnā́m ǀ
    káraḥ ǀ yátra ǀ várivaḥ ǀ bādhitā́ya ǀ divé ǀ jánāya ǀ tanvé ǀ gṛṇānáḥ ǁ

    anu ǀ tvā ǀ ahi-ghne ǀ adha ǀ deva ǀ devāḥ ǀ madan ǀ viśve ǀ kavi-tamam ǀ kavīnām ǀ
    karaḥ ǀ yatra ǀ varivaḥ ǀ bādhitāya ǀ dive ǀ janāya ǀ tanve ǀ gṛṇānaḥ ǁ

    6.18.14 Aṣṭaka 4.6.6.4Anuvāka 6.2.77

  15. Ṛk 15

    अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इंद्र दे॒वाः ।
    कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥

    अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः |
    कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ||

    ánu dyā́vāpṛthivī́ tátta ójó’martyā jihata indra devā́ḥ ǀ
    kṛṣvā́ kṛtno ákṛtam yátte ástyukthám návīyo janayasva yajñáiḥ ǁ

    anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ |
    kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ ||

    अनु॑ । द्यावा॑पृथि॒वी इति॑ । तत् । ते॒ । ओजः॑ । अम॑र्त्याः । जि॒ह॒ते॒ । इ॒न्द्र॒ । दे॒वाः ।
    कृ॒ष्व । कृ॒त्नो॒ इति॑ । अकृ॑तम् । यत् । ते॒ । अस्ति॑ । उ॒क्थम् । नवी॑यः । ज॒न॒य॒स्व॒ । य॒ज्ञैः ॥

    अनु । द्यावापृथिवी इति । तत् । ते । ओजः । अमर्त्याः । जिहते । इन्द्र । देवाः ।
    कृष्व । कृत्नो इति । अकृतम् । यत् । ते । अस्ति । उक्थम् । नवीयः । जनयस्व । यज्ञैः ॥

    ánu ǀ dyā́vāpṛthivī́ íti ǀ tát ǀ te ǀ ójaḥ ǀ ámartyāḥ ǀ jihate ǀ indra ǀ devā́ḥ ǀ
    kṛṣvá ǀ kṛtno íti ǀ ákṛtam ǀ yát ǀ te ǀ ásti ǀ ukthám ǀ návīyaḥ ǀ janayasva ǀ yajñáiḥ ǁ

    anu ǀ dyāvāpṛthivī iti ǀ tat ǀ te ǀ ojaḥ ǀ amartyāḥ ǀ jihate ǀ indra ǀ devāḥ ǀ
    kṛṣva ǀ kṛtno iti ǀ akṛtam ǀ yat ǀ te ǀ asti ǀ uktham ǀ navīyaḥ ǀ janayasva ǀ yajñaiḥ ǁ

    6.18.15 Aṣṭaka 4.6.6.5Anuvāka 6.2.78

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.18 · Indra

Interpretations

Sri Aurobindo

Ṛk 3

O Sons of the infinite Mother (DdityDsaU), may we become infinite beings (aditayaU syDma), may the Vasus protect in the godhead and the mortality (devatrD martyatrD); possessing may we possess you, O Mitra and Varuna, becoming may we become you, O Heaven and Earth. (SABCL, Vol. 10, p. 181)