Sūkta 66
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 9, 11); bhurikpaṅkti (6, 7, 10); virāṭtrisṭup (2, 5); nicṛtpaṅkti (3, 4); svarāṭpaṅkti (8)
2nd set of styles triṣṭubh
-
Ṛk 1
वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानं ।
मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु पत्यमानम् |
मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रं दुदुहे पृश्निर् ऊधः ||vápurnú táccikitúṣe cidastu samānám nā́ma dhenú pátyamānam ǀ
márteṣvanyáddoháse pīpā́ya sakṛ́cchukrám duduhe pṛ́śnirū́dhaḥ ǁvapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam |
marteṣv anyad dohase pīpāya sakṛc chukraṃ duduhe pṛśnir ūdhaḥ ||वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् ।
मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥वपुः । नु । तत् । चिकितुषे । चित् । अस्तु । समानम् । नाम । धेनु । पत्यमानम् ।
मर्तेषु । अन्यत् । दोहसे । पीपाय । सकृत् । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥vápuḥ ǀ nú ǀ tát ǀ cikitúṣe ǀ cit ǀ astu ǀ samānám ǀ nā́ma ǀ dhenú ǀ pátyamānam ǀ
márteṣu ǀ anyát ǀ doháse ǀ pīpā́ya ǀ sakṛ́t ǀ śukrám ǀ duduhe ǀ pṛ́śniḥ ǀ ū́dhaḥ ǁvapuḥ ǀ nu ǀ tat ǀ cikituṣe ǀ cit ǀ astu ǀ samānam ǀ nāma ǀ dhenu ǀ patyamānam ǀ
marteṣu ǀ anyat ǀ dohase ǀ pīpāya ǀ sakṛt ǀ śukram ǀ duduhe ǀ pṛśniḥ ǀ ūdhaḥ ǁ6.66.1 Aṣṭaka 5.1.7.1Anuvāka 6.6.35
-
Ṛk 2
ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धंत॑ ।
अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त |
अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ||yé agnáyo ná śóśucannidhānā́ dvíryáttrírmarúto vāvṛdhánta ǀ
areṇávo hiraṇyáyāsa eṣām sākám nṛmṇáiḥ páuṃsyebhiśca bhūvan ǁye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta |
areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan ||ये । अ॒ग्नयः॑ । न । शोशु॑चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः॑ । व॒वृ॒धन्त॑ ।
अ॒रे॒णवः॑ । हि॒र॒ण्यया॑सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये॑भिः । च॒ । भू॒व॒न् ॥ये । अग्नयः । न । शोशुचन् । इधानाः । द्विः । यत् । त्रिः । मरुतः । ववृधन्त ।
अरेणवः । हिरण्ययासः । एषाम् । साकम् । नृम्णैः । पौंस्येभिः । च । भूवन् ॥yé ǀ agnáyaḥ ǀ ná ǀ śóśucan ǀ idhānā́ḥ ǀ dvíḥ ǀ yát ǀ tríḥ ǀ marútaḥ ǀ vavṛdhánta ǀ
areṇávaḥ ǀ hiraṇyáyāsaḥ ǀ eṣām ǀ sākám ǀ nṛmṇáiḥ ǀ páuṃsyebhiḥ ǀ ca ǀ bhūvan ǁye ǀ agnayaḥ ǀ na ǀ śośucan ǀ idhānāḥ ǀ dviḥ ǀ yat ǀ triḥ ǀ marutaḥ ǀ vavṛdhanta ǀ
areṇavaḥ ǀ hiraṇyayāsaḥ ǀ eṣām ǀ sākam ǀ nṛmṇaiḥ ǀ pauṃsyebhiḥ ǀ ca ǀ bhūvan ǁ6.66.2 Aṣṭaka 5.1.7.2Anuvāka 6.6.36
-
Ṛk 3
रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ संति॑ पु॒त्रा यांश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै ।
वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥रुद्रस्य ये मीऌहुषः सन्ति पुत्रा यांश् चो नु दाधृविर् भरध्यै |
विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भम् आधात् ||rudrásya yé mīḷhúṣaḥ sánti putrā́ yā́ṃśco nú dā́dhṛvirbháradhyai ǀ
vidé hí mātā́ mahó mahī́ ṣā́ sétpṛ́śniḥ subhvé gárbhamā́dhāt ǁrudrasya ye mīḷhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai |
vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt ||रु॒द्रस्य॑ । ये । मी॒ळ्हुषः॑ । सन्ति॑ । पु॒त्राः । यान् । चो॒ इति॑ । नु । दाधृ॑विः । भर॑ध्यै ।
वि॒दे । हि । मा॒ता । म॒हः । म॒ही । सा । सा । इत् । पृश्निः॑ । सु॒ऽभ्वे॑ । गर्भ॑म् । आ । अ॒धा॒त् ॥रुद्रस्य । ये । मीळ्हुषः । सन्ति । पुत्राः । यान् । चो इति । नु । दाधृविः । भरध्यै ।
विदे । हि । माता । महः । मही । सा । सा । इत् । पृश्निः । सुऽभ्वे । गर्भम् । आ । अधात् ॥rudrásya ǀ yé ǀ mīḷhúṣaḥ ǀ sánti ǀ putrā́ḥ ǀ yā́n ǀ co íti ǀ nú ǀ dā́dhṛviḥ ǀ bháradhyai ǀ
vidé ǀ hí ǀ mātā́ ǀ maháḥ ǀ mahī́ ǀ sā́ ǀ sā́ ǀ ít ǀ pṛ́śniḥ ǀ su-bhvé ǀ gárbham ǀ ā́ ǀ adhāt ǁrudrasya ǀ ye ǀ mīḷhuṣaḥ ǀ santi ǀ putrāḥ ǀ yān ǀ co iti ǀ nu ǀ dādhṛviḥ ǀ bharadhyai ǀ
vide ǀ hi ǀ mātā ǀ mahaḥ ǀ mahī ǀ sā ǀ sā ǀ it ǀ pṛśniḥ ǀ su-bhve ǀ garbham ǀ ā ǀ adhāt ǁ6.66.3 Aṣṭaka 5.1.7.3Anuvāka 6.6.37
-
Ṛk 4
न य ईषं॑ते ज॒नुषोऽया॒ न्वं१॒॑तः संतो॑ऽव॒द्यानि॑ पुना॒नाः ।
निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥न य ईषन्ते जनुषो ऽया न्व् अन्तः सन्तो ऽवद्यानि पुनानाः |
निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ||ná yá ī́ṣante janúṣó’yā nvántáḥ sánto’vadyā́ni punānā́ḥ ǀ
níryádduhré śúcayó’nu jóṣamánu śriyā́ tanvámukṣámāṇāḥ ǁna ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ |
nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ ||न । ये । ईष॑न्ते । ज॒नुषः॑ । अया॑ । नु । अ॒न्तरिति॑ । सन्तः॑ । अ॒व॒द्यानि॑ । पु॒ना॒नाः ।
निः । यत् । दु॒ह्रे । शुच॑यः । अनु॑ । जोष॑म् । अनु॑ । श्रि॒या । त॒न्व॑म् । उ॒क्षमा॑णाः ॥न । ये । ईषन्ते । जनुषः । अया । नु । अन्तरिति । सन्तः । अवद्यानि । पुनानाः ।
निः । यत् । दुह्रे । शुचयः । अनु । जोषम् । अनु । श्रिया । तन्वम् । उक्षमाणाः ॥ná ǀ yé ǀ ī́ṣante ǀ janúṣaḥ ǀ áyā ǀ nú ǀ antáríti ǀ sántaḥ ǀ avadyā́ni ǀ punānā́ḥ ǀ
níḥ ǀ yát ǀ duhré ǀ śúcayaḥ ǀ ánu ǀ jóṣam ǀ ánu ǀ śriyā́ ǀ tanvám ǀ ukṣámāṇāḥ ǁna ǀ ye ǀ īṣante ǀ januṣaḥ ǀ ayā ǀ nu ǀ antariti ǀ santaḥ ǀ avadyāni ǀ punānāḥ ǀ
niḥ ǀ yat ǀ duhre ǀ śucayaḥ ǀ anu ǀ joṣam ǀ anu ǀ śriyā ǀ tanvam ǀ ukṣamāṇāḥ ǁ6.66.4 Aṣṭaka 5.1.7.4Anuvāka 6.6.38
-
Ṛk 5
म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः ।
न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं दधानाः |
न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ||makṣū́ ná yéṣu doháse cidayā́ ā́ nā́ma dhṛṣṇú mā́rutam dádhānāḥ ǀ
ná yé staunā́ ayā́so mahnā́ nū́ citsudā́nuráva yāsadugrā́n ǁmakṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ |
na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān ||म॒क्षु । न । येषु॑ । दो॒हसे॑ । चि॒त् । अ॒याः । आ । नाम॑ । घृ॒ष्णु । मारु॑तम् । दधा॑नाः ।
न । ये । स्तौ॒नाः । अ॒यासः॑ । म॒ह्ना । नु । चि॒त् । सु॒ऽदानुः॑ । अव॑ । या॒स॒त् । उ॒ग्रान् ॥मक्षु । न । येषु । दोहसे । चित् । अयाः । आ । नाम । घृष्णु । मारुतम् । दधानाः ।
न । ये । स्तौनाः । अयासः । मह्ना । नु । चित् । सुऽदानुः । अव । यासत् । उग्रान् ॥makṣú ǀ ná ǀ yéṣu ǀ doháse ǀ cit ǀ ayā́ḥ ǀ ā́ ǀ nā́ma ǀ ghṛṣṇú ǀ mā́rutam ǀ dádhānāḥ ǀ
ná ǀ yé ǀ staunā́ḥ ǀ ayā́saḥ ǀ mahnā́ ǀ nú ǀ cit ǀ su-dā́nuḥ ǀ áva ǀ yāsat ǀ ugrā́n ǁmakṣu ǀ na ǀ yeṣu ǀ dohase ǀ cit ǀ ayāḥ ǀ ā ǀ nāma ǀ ghṛṣṇu ǀ mārutam ǀ dadhānāḥ ǀ
na ǀ ye ǀ staunāḥ ǀ ayāsaḥ ǀ mahnā ǀ nu ǀ cit ǀ su-dānuḥ ǀ ava ǀ yāsat ǀ ugrān ǁ6.66.5 Aṣṭaka 5.1.7.5Anuvāka 6.6.39
-
Ṛk 6
त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जंत॒ रोद॑सी सु॒मेके॑ ।
अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके |
अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ||tá ídugrā́ḥ śávasā dhṛṣṇúṣeṇā ubhé yujanta ródasī suméke ǀ
ádha smaiṣu rodasī́ sváśocirā́mavatsu tasthau ná rókaḥ ǁta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke |
adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ ||ते । इत् । उ॒ग्राः । शव॑सा । धृ॒ष्णुऽसे॑नाः । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
अध॑ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चिः । आ । अम॑वत्ऽसु । त॒स्थौ॒ । न । रोकः॑ ॥ते । इत् । उग्राः । शवसा । धृष्णुऽसेनाः । उभे इति । युजन्त । रोदसी इति । सुमेके इति सुऽमेके ।
अध । स्म । एषु । रोदसी । स्वऽशोचिः । आ । अमवत्ऽसु । तस्थौ । न । रोकः ॥té ǀ ít ǀ ugrā́ḥ ǀ śávasā ǀ dhṛṣṇú-senāḥ ǀ ubhé íti ǀ yujanta ǀ ródasī íti ǀ suméke íti su-méke ǀ
ádha ǀ sma ǀ eṣu ǀ rodasī́ ǀ svá-śociḥ ǀ ā́ ǀ ámavat-su ǀ tasthau ǀ ná ǀ rókaḥ ǁte ǀ it ǀ ugrāḥ ǀ śavasā ǀ dhṛṣṇu-senāḥ ǀ ubhe iti ǀ yujanta ǀ rodasī iti ǀ sumeke iti su-meke ǀ
adha ǀ sma ǀ eṣu ǀ rodasī ǀ sva-śociḥ ǀ ā ǀ amavat-su ǀ tasthau ǀ na ǀ rokaḥ ǁ6.66.6 Aṣṭaka 5.1.8.1Anuvāka 6.6.40
-
Ṛk 7
अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः ।
अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः |
अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन् ||anenó vo maruto yā́mo astvanaśváścidyámájatyárathīḥ ǀ
anavasó anabhīśū́ rajastū́rví ródasī pathyā́ yāti sā́dhan ǁaneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ |
anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan ||अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः॑ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज॑ति । अर॑थीः ।
अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒ऽतूः । वि । रोद॑सी॒ इति॑ । प॒थ्याः॑ । या॒ति॒ । साध॑न् ॥अनेनः । वः । मरुतः । यामः । अस्तु । अनश्वः । चित् । यम् । अजति । अरथीः ।
अनवसः । अनभीशुः । रजःऽतूः । वि । रोदसी इति । पथ्याः । याति । साधन् ॥anenáḥ ǀ vaḥ ǀ marutaḥ ǀ yā́maḥ ǀ astu ǀ anaśváḥ ǀ cit ǀ yám ǀ ájati ǀ árathīḥ ǀ
anavasáḥ ǀ anabhīśúḥ ǀ rajaḥ-tū́ḥ ǀ ví ǀ ródasī íti ǀ pathyā́ḥ ǀ yāti ǀ sā́dhan ǁanenaḥ ǀ vaḥ ǀ marutaḥ ǀ yāmaḥ ǀ astu ǀ anaśvaḥ ǀ cit ǀ yam ǀ ajati ǀ arathīḥ ǀ
anavasaḥ ǀ anabhīśuḥ ǀ rajaḥ-tūḥ ǀ vi ǀ rodasī iti ǀ pathyāḥ ǀ yāti ǀ sādhan ǁ6.66.7 Aṣṭaka 5.1.8.2Anuvāka 6.6.41
-
Ṛk 8
नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ |
तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ||nā́sya vartā́ ná tarutā́ nvásti máruto yámávatha vā́jasātau ǀ
toké vā góṣu tánaye yámapsú sá vrajám dártā pā́rye ádha dyóḥ ǁnāsya vartā na tarutā nv asti maruto yam avatha vājasātau |
toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ ||न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥न । अस्य । वर्ता । न । तरुता । नु । अस्ति । मरुतः । यम् । अवथ । वाजऽसातौ ।
तोके । वा । गोषु । तनये । यम् । अप्ऽसु । सः । व्रजम् । दर्ता । पार्ये । अध । द्योः ॥ná ǀ asya ǀ vartā́ ǀ ná ǀ tarutā́ ǀ nú ǀ asti ǀ márutaḥ ǀ yám ǀ ávatha ǀ vā́ja-sātau ǀ
toké ǀ vā ǀ góṣu ǀ tánaye ǀ yám ǀ ap-sú ǀ sáḥ ǀ vrajám ǀ dártā ǀ pā́rye ǀ ádha ǀ dyóḥ ǁna ǀ asya ǀ vartā ǀ na ǀ tarutā ǀ nu ǀ asti ǀ marutaḥ ǀ yam ǀ avatha ǀ vāja-sātau ǀ
toke ǀ vā ǀ goṣu ǀ tanaye ǀ yam ǀ ap-su ǀ saḥ ǀ vrajam ǀ dartā ǀ pārye ǀ adha ǀ dyoḥ ǁ6.66.8 Aṣṭaka 5.1.8.3Anuvāka 6.6.42
-
Ṛk 9
प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वं ।
ये सहां॑सि॒ सह॑सा॒ सहं॑ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् |
ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ||prá citrámarkám gṛṇaté turā́ya mā́rutāya svátavase bharadhvam ǀ
yé sáhāṃsi sáhasā sáhante réjate agne pṛthivī́ makhébhyaḥ ǁpra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam |
ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ ||प्र । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय॑ । मारु॑ताय । स्वऽत॑वसे । भ॒र॒ध्व॒म् ।
ये । सहां॑सि । सह॑सा । सह॑न्ते । रेज॑ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः॑ ॥प्र । चित्रम् । अर्कम् । गृणते । तुराय । मारुताय । स्वऽतवसे । भरध्वम् ।
ये । सहांसि । सहसा । सहन्ते । रेजते । अग्ने । पृथिवी । मखेभ्यः ॥prá ǀ citrám ǀ arkám ǀ gṛṇaté ǀ turā́ya ǀ mā́rutāya ǀ svá-tavase ǀ bharadhvam ǀ
yé ǀ sáhāṃsi ǀ sáhasā ǀ sáhante ǀ réjate ǀ agne ǀ pṛthivī́ ǀ makhébhyaḥ ǁpra ǀ citram ǀ arkam ǀ gṛṇate ǀ turāya ǀ mārutāya ǀ sva-tavase ǀ bharadhvam ǀ
ye ǀ sahāṃsi ǀ sahasā ǀ sahante ǀ rejate ǀ agne ǀ pṛthivī ǀ makhebhyaḥ ǁ6.66.9 Aṣṭaka 5.1.8.4Anuvāka 6.6.43
-
Ṛk 10
त्विषी॑मंतो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः ।
अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः |
अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ||tvíṣīmanto adhvarásyeva didyúttṛṣucyávaso juhvó nā́gnéḥ ǀ
arcátrayo dhúnayo ná vīrā́ bhrā́jajjanmāno marúto ádhṛṣṭāḥ ǁtviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ |
arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ||त्विषि॑ऽमन्तः । अ॒ध्व॒रस्य॑ऽइव । दि॒द्युत् । तृ॒षु॒ऽच्यव॑सः । जु॒ह्वः॑ । न । अ॒ग्नेः ।
अ॒र्चत्र॑यः । धुन॑यः । न । वी॒राः । भ्राज॑त्ऽजन्मानः । म॒रुतः॑ । अधृ॑ष्टाः ॥त्विषिऽमन्तः । अध्वरस्यऽइव । दिद्युत् । तृषुऽच्यवसः । जुह्वः । न । अग्नेः ।
अर्चत्रयः । धुनयः । न । वीराः । भ्राजत्ऽजन्मानः । मरुतः । अधृष्टाः ॥tvíṣi-mantaḥ ǀ adhvarásya-iva ǀ didyút ǀ tṛṣu-cyávasaḥ ǀ juhváḥ ǀ ná ǀ agnéḥ ǀ
arcátrayaḥ ǀ dhúnayaḥ ǀ ná ǀ vīrā́ḥ ǀ bhrā́jat-janmānaḥ ǀ marútaḥ ǀ ádhṛṣṭāḥ ǁtviṣi-mantaḥ ǀ adhvarasya-iva ǀ didyut ǀ tṛṣu-cyavasaḥ ǀ juhvaḥ ǀ na ǀ agneḥ ǀ
arcatrayaḥ ǀ dhunayaḥ ǀ na ǀ vīrāḥ ǀ bhrājat-janmānaḥ ǀ marutaḥ ǀ adhṛṣṭāḥ ǁ6.66.10 Aṣṭaka 5.1.8.5Anuvāka 6.6.44
-
Ṛk 11
तं वृ॒धंतं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे ।
दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे |
दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ||tám vṛdhántam mā́rutam bhrā́jadṛṣṭim rudrásya sūnúm havásā́ vivāse ǀ
diváḥ śárdhāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspṛdhran ǁtaṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse |
divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran ||तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ ।
दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षाः । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥तम् । वृधन्तम् । मारुतम् । भ्राजत्ऽऋष्टिम् । रुद्रस्य । सूनुम् । हवसा । आ । विवासे ।
दिवः । शर्धाय । शुचयः । मनीषाः । गिरयः । न । आपः । उग्राः । अस्पृध्रन् ॥tám ǀ vṛdhántam ǀ mā́rutam ǀ bhrā́jat-ṛṣṭim ǀ rudrásya ǀ sūnúm ǀ havásā ǀ ā́ ǀ vivāse ǀ
diváḥ ǀ śárdhāya ǀ śúcayaḥ ǀ manīṣā́ḥ ǀ giráyaḥ ǀ ná ǀ ā́paḥ ǀ ugrā́ḥ ǀ aspṛdhran ǁtam ǀ vṛdhantam ǀ mārutam ǀ bhrājat-ṛṣṭim ǀ rudrasya ǀ sūnum ǀ havasā ǀ ā ǀ vivāse ǀ
divaḥ ǀ śardhāya ǀ śucayaḥ ǀ manīṣāḥ ǀ girayaḥ ǀ na ǀ āpaḥ ǀ ugrāḥ ǀ aspṛdhran ǁ6.66.11 Aṣṭaka 5.1.8.6Anuvāka 6.6.45
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.