Ṛk 6.66.2
Saṃhitā
ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धंत॑ ।
अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥
ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त |
अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ||
yé agnáyo ná śóśucannidhānā́ dvíryáttrírmarúto vāvṛdhánta ǀ
areṇávo hiraṇyáyāsa eṣām sākám nṛmṇáiḥ páuṃsyebhiśca bhūvan ǁ
ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta |
areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan ||
Padapāṭha
ये । अ॒ग्नयः॑ । न । शोशु॑चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः॑ । व॒वृ॒धन्त॑ ।
अ॒रे॒णवः॑ । हि॒र॒ण्यया॑सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये॑भिः । च॒ । भू॒व॒न् ॥
ये । अग्नयः । न । शोशुचन् । इधानाः । द्विः । यत् । त्रिः । मरुतः । ववृधन्त ।
अरेणवः । हिरण्ययासः । एषाम् । साकम् । नृम्णैः । पौंस्येभिः । च । भूवन् ॥
yé ǀ agnáyaḥ ǀ ná ǀ śóśucan ǀ idhānā́ḥ ǀ dvíḥ ǀ yát ǀ tríḥ ǀ marútaḥ ǀ vavṛdhánta ǀ
areṇávaḥ ǀ hiraṇyáyāsaḥ ǀ eṣām ǀ sākám ǀ nṛmṇáiḥ ǀ páuṃsyebhiḥ ǀ ca ǀ bhūvan ǁ
ye ǀ agnayaḥ ǀ na ǀ śośucan ǀ idhānāḥ ǀ dviḥ ǀ yat ǀ triḥ ǀ marutaḥ ǀ vavṛdhanta ǀ
areṇavaḥ ǀ hiraṇyayāsaḥ ǀ eṣām ǀ sākam ǀ nṛmṇaiḥ ǀ pauṃsyebhiḥ ǀ ca ǀ bhūvan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.066.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.07.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.036
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.