Ṛk 6.66.8
Saṃhitā
नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥
नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ |
तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ||
nā́sya vartā́ ná tarutā́ nvásti máruto yámávatha vā́jasātau ǀ
toké vā góṣu tánaye yámapsú sá vrajám dártā pā́rye ádha dyóḥ ǁ
nāsya vartā na tarutā nv asti maruto yam avatha vājasātau |
toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ ||
Padapāṭha
न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥
न । अस्य । वर्ता । न । तरुता । नु । अस्ति । मरुतः । यम् । अवथ । वाजऽसातौ ।
तोके । वा । गोषु । तनये । यम् । अप्ऽसु । सः । व्रजम् । दर्ता । पार्ये । अध । द्योः ॥
ná ǀ asya ǀ vartā́ ǀ ná ǀ tarutā́ ǀ nú ǀ asti ǀ márutaḥ ǀ yám ǀ ávatha ǀ vā́ja-sātau ǀ
toké ǀ vā ǀ góṣu ǀ tánaye ǀ yám ǀ ap-sú ǀ sáḥ ǀ vrajám ǀ dártā ǀ pā́rye ǀ ádha ǀ dyóḥ ǁ
na ǀ asya ǀ vartā ǀ na ǀ tarutā ǀ nu ǀ asti ǀ marutaḥ ǀ yam ǀ avatha ǀ vāja-sātau ǀ
toke ǀ vā ǀ goṣu ǀ tanaye ǀ yam ǀ ap-su ǀ saḥ ǀ vrajam ǀ dartā ǀ pārye ǀ adha ǀ dyoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.066.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.08.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.042
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.