Ṛk 6.66.6
Saṃhitā
त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जंत॒ रोद॑सी सु॒मेके॑ ।
अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥
त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके |
अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ||
tá ídugrā́ḥ śávasā dhṛṣṇúṣeṇā ubhé yujanta ródasī suméke ǀ
ádha smaiṣu rodasī́ sváśocirā́mavatsu tasthau ná rókaḥ ǁ
ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke |
adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ ||
Padapāṭha
ते । इत् । उ॒ग्राः । शव॑सा । धृ॒ष्णुऽसे॑नाः । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
अध॑ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चिः । आ । अम॑वत्ऽसु । त॒स्थौ॒ । न । रोकः॑ ॥
ते । इत् । उग्राः । शवसा । धृष्णुऽसेनाः । उभे इति । युजन्त । रोदसी इति । सुमेके इति सुऽमेके ।
अध । स्म । एषु । रोदसी । स्वऽशोचिः । आ । अमवत्ऽसु । तस्थौ । न । रोकः ॥
té ǀ ít ǀ ugrā́ḥ ǀ śávasā ǀ dhṛṣṇú-senāḥ ǀ ubhé íti ǀ yujanta ǀ ródasī íti ǀ suméke íti su-méke ǀ
ádha ǀ sma ǀ eṣu ǀ rodasī́ ǀ svá-śociḥ ǀ ā́ ǀ ámavat-su ǀ tasthau ǀ ná ǀ rókaḥ ǁ
te ǀ it ǀ ugrāḥ ǀ śavasā ǀ dhṛṣṇu-senāḥ ǀ ubhe iti ǀ yujanta ǀ rodasī iti ǀ sumeke iti su-meke ǀ
adha ǀ sma ǀ eṣu ǀ rodasī ǀ sva-śociḥ ǀ ā ǀ amavat-su ǀ tasthau ǀ na ǀ rokaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.066.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.08.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.040
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.