Ṛgveda · Maṇḍala 6 · Sūkta 66

Ṛk 6.66.11

Maruts · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

तं वृ॒धंतं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे ।
दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥

तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे |
दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ||

tám vṛdhántam mā́rutam bhrā́jadṛṣṭim rudrásya sūnúm havásā́ vivāse ǀ
diváḥ śárdhāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspṛdhran ǁ

taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse |
divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran ||

Padapāṭha

तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ ।
दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षाः । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥

तम् । वृधन्तम् । मारुतम् । भ्राजत्ऽऋष्टिम् । रुद्रस्य । सूनुम् । हवसा । आ । विवासे ।
दिवः । शर्धाय । शुचयः । मनीषाः । गिरयः । न । आपः । उग्राः । अस्पृध्रन् ॥

tám ǀ vṛdhántam ǀ mā́rutam ǀ bhrā́jat-ṛṣṭim ǀ rudrásya ǀ sūnúm ǀ havásā ǀ ā́ ǀ vivāse ǀ
diváḥ ǀ śárdhāya ǀ śúcayaḥ ǀ manīṣā́ḥ ǀ giráyaḥ ǀ ná ǀ ā́paḥ ǀ ugrā́ḥ ǀ aspṛdhran ǁ

tam ǀ vṛdhantam ǀ mārutam ǀ bhrājat-ṛṣṭim ǀ rudrasya ǀ sūnum ǀ havasā ǀ ā ǀ vivāse ǀ
divaḥ ǀ śardhāya ǀ śucayaḥ ǀ manīṣāḥ ǀ girayaḥ ǀ na ǀ āpaḥ ǀ ugrāḥ ǀ aspṛdhran ǁ

References

Maṇḍala · Sūkta · Ṛk
06.066.11
Aṣṭaka · Adhyāya · Varga · Ṛk
5.1.08.06
Maṇḍala · Anuvāka · Ṛk
06.06.045
Devatā देवता
Maruts
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.66.11

Interpretations

Sāyaṇa

विश्वेषांव इत्येकादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मैत्रावरुणं तथा चानुक्रम्यते-विश्वेषां मैत्रावरुणमिति सूक्तविनियोगो लैंगिकः मैत्रावरुणे पशौ आयातं मित्रावरुणेति पशुपुरोडाशस्यानुवाक्या सूत्रितं च-आयातंमित्रावरुणासुशस्त्यानोमित्रावरुणाहव्यजुष्टिमिति । व्यूह्वे दशरात्रे सप्तमे हनि प्रउगशस्त्रे प्रयद्वामिति मैत्रावरुणस्तृतीयस्तृचः तथा च सूत्रितं-प्रयद्वां मित्रावरुणास्पूर्धन्नागोमताना सत्यार- थेनेति ।