Sūkta 39
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 3); bhurikpaṅkti (4, 5); triṣṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
मं॒द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ ।
अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः |
अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ||mandrásya kavérdivyásya váhnervípramanmano vacanásya mádhvaḥ ǀ
ápā nastásya sacanásya devéṣo yuvasva gṛṇaté góagrāḥ ǁmandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ |
apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ ||म॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ ।
अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥मन्द्रस्य । कवेः । दिव्यस्य । वह्नेः । विप्रऽमन्मनः । वचनस्य । मध्वः ।
अपाः । नः । तस्य । सचनस्य । देव । इषः । युवस्व । गृणते । गोऽअग्राः ॥mandrásya ǀ kavéḥ ǀ divyásya ǀ váhneḥ ǀ vípra-manmanaḥ ǀ vacanásya ǀ mádhvaḥ ǀ
ápāḥ ǀ naḥ ǀ tásya ǀ sacanásya ǀ deva ǀ íṣaḥ ǀ yuvasva ǀ gṛṇaté ǀ gó-agrāḥ ǁmandrasya ǀ kaveḥ ǀ divyasya ǀ vahneḥ ǀ vipra-manmanaḥ ǀ vacanasya ǀ madhvaḥ ǀ
apāḥ ǀ naḥ ǀ tasya ǀ sacanasya ǀ deva ǀ iṣaḥ ǀ yuvasva ǀ gṛṇate ǀ go-agrāḥ ǁ6.39.1 Aṣṭaka 4.7.11.1Anuvāka 6.3.95
-
Ṛk 2
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिर्ऋत॒युग्यु॑जा॒नः ।
रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिंद्रः॑ ॥अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः |
रुजद् अरुग्णं वि वलस्य सानुम् पणींर् वचोभिर् अभि योधद् इन्द्रः ||ayámuśānáḥ páryádrimusrā́ ṛtádhītibhirṛtayúgyujānáḥ ǀ
rujádárugṇam ví valásya sā́num paṇī́m̐rvácobhirabhí yodhadíndraḥ ǁayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ |
rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ ||अ॒यम् । उ॒शा॒नः । परि॑ । अद्रि॑म् । उ॒स्राः । ऋ॒तधी॑तिऽभिः । ऋ॒त॒ऽयुक् । यु॒जा॒नः ।
रु॒जत् । अरु॑ग्णम् । वि । व॒लस्य॑ । सानु॑म् । प॒णीन् । वचः॑ऽभिः । अ॒भि । यो॒ध॒त् । इन्द्रः॑ ॥अयम् । उशानः । परि । अद्रिम् । उस्राः । ऋतधीतिऽभिः । ऋतऽयुक् । युजानः ।
रुजत् । अरुग्णम् । वि । वलस्य । सानुम् । पणीन् । वचःऽभिः । अभि । योधत् । इन्द्रः ॥ayám ǀ uśānáḥ ǀ pári ǀ ádrim ǀ usrā́ḥ ǀ ṛtádhīti-bhiḥ ǀ ṛta-yúk ǀ yujānáḥ ǀ
ruját ǀ árugṇam ǀ ví ǀ valásya ǀ sā́num ǀ paṇī́n ǀ vácaḥ-bhiḥ ǀ abhí ǀ yodhat ǀ índraḥ ǁayam ǀ uśānaḥ ǀ pari ǀ adrim ǀ usrāḥ ǀ ṛtadhīti-bhiḥ ǀ ṛta-yuk ǀ yujānaḥ ǀ
rujat ǀ arugṇam ǀ vi ǀ valasya ǀ sānum ǀ paṇīn ǀ vacaḥ-bhiḥ ǀ abhi ǀ yodhat ǀ indraḥ ǁ6.39.2 Aṣṭaka 4.7.11.2Anuvāka 6.3.96
-
Ṛk 3
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तूंदो॒षा वस्तोः॑ श॒रद॒ इंदु॑रिंद्र ।
इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र |
इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ||ayám dyotayadadyúto vyáktū́ndoṣā́ vástoḥ śaráda índurindra ǀ
imám ketúmadadhurnū́ cidáhnām śúcijanmana uṣásaścakāra ǁayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra |
imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra ||अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः॑ । वि । अ॒क्तून् । दो॒षा । वस्तोः॑ । श॒रदः॑ । इन्दुः॑ । इ॒न्द्र॒ ।
इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना॑म् । शुचि॑ऽजन्मनः । उ॒षसः॑ । च॒का॒र॒ ॥अयम् । द्योतयत् । अद्युतः । वि । अक्तून् । दोषा । वस्तोः । शरदः । इन्दुः । इन्द्र ।
इमम् । केतुम् । अदधुः । नु । चित् । अह्नाम् । शुचिऽजन्मनः । उषसः । चकार ॥ayám ǀ dyotayat ǀ adyútaḥ ǀ ví ǀ aktū́n ǀ doṣā́ ǀ vástoḥ ǀ śarádaḥ ǀ índuḥ ǀ indra ǀ
imám ǀ ketúm ǀ adadhuḥ ǀ nú ǀ cit ǀ áhnām ǀ śúci-janmanaḥ ǀ uṣásaḥ ǀ cakāra ǁayam ǀ dyotayat ǀ adyutaḥ ǀ vi ǀ aktūn ǀ doṣā ǀ vastoḥ ǀ śaradaḥ ǀ induḥ ǀ indra ǀ
imam ǀ ketum ǀ adadhuḥ ǀ nu ǀ cit ǀ ahnām ǀ śuci-janmanaḥ ǀ uṣasaḥ ǀ cakāra ǁ6.39.3 Aṣṭaka 4.7.11.3Anuvāka 6.3.97
-
Ṛk 4
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः ।
अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥अयं रोचयद् अरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः |
अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ||ayám rocayadarúco rucānó’yám vāsayadvyṛ́téna pūrvī́ḥ ǀ
ayámīyata ṛtayúgbhiráśvaiḥ svarvídā nā́bhinā carṣaṇiprā́ḥ ǁayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ |
ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||अ॒यम् । रो॒च॒य॒त् । अ॒रुचः॑ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन॑ । पू॒र्वीः ।
अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । स्वः॒ऽविदा॑ । नाभि॑ना । च॒र्ष॒णि॒ऽप्राः ॥अयम् । रोचयत् । अरुचः । रुचानः । अयम् । वासयत् । वि । ऋतेन । पूर्वीः ।
अयम् । ईयते । ऋतयुक्ऽभिः । अश्वैः । स्वःऽविदा । नाभिना । चर्षणिऽप्राः ॥ayám ǀ rocayat ǀ arúcaḥ ǀ rucānáḥ ǀ ayám ǀ vāsayat ǀ ví ǀ ṛténa ǀ pūrvī́ḥ ǀ
ayám ǀ īyate ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ svaḥ-vídā ǀ nā́bhinā ǀ carṣaṇi-prā́ḥ ǁayam ǀ rocayat ǀ arucaḥ ǀ rucānaḥ ǀ ayam ǀ vāsayat ǀ vi ǀ ṛtena ǀ pūrvīḥ ǀ
ayam ǀ īyate ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ svaḥ-vidā ǀ nābhinā ǀ carṣaṇi-prāḥ ǁ6.39.4 Aṣṭaka 4.7.11.4Anuvāka 6.3.98
-
Ṛk 5
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।
अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः |
अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि ||nū́ gṛṇānó gṛṇaté pratna rājanníṣaḥ pinva vasudéyāya pūrvī́ḥ ǀ
apá óṣadhīraviṣā́ vánāni gā́ árvato nṝ́nṛcáse rirīhi ǁnū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ |
apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi ||नु । गृ॒णा॒नः । गृ॒ण॒ते । प्र॒त्न॒ । रा॒ज॒न् । इषः॑ । पि॒न्व॒ । व॒सु॒ऽदेया॑य । पू॒र्वीः ।
अ॒पः । ओष॑धीः । अ॒वि॒षा । वना॑नि । गाः । अर्व॑तः । नॄन् । ऋ॒चसे॑ । रि॒री॒हि॒ ॥नु । गृणानः । गृणते । प्रत्न । राजन् । इषः । पिन्व । वसुऽदेयाय । पूर्वीः ।
अपः । ओषधीः । अविषा । वनानि । गाः । अर्वतः । नॄन् । ऋचसे । रिरीहि ॥nú ǀ gṛṇānáḥ ǀ gṛṇaté ǀ pratna ǀ rājan ǀ íṣaḥ ǀ pinva ǀ vasu-déyāya ǀ pūrvī́ḥ ǀ
apáḥ ǀ óṣadhīḥ ǀ aviṣā́ ǀ vánāni ǀ gā́ḥ ǀ árvataḥ ǀ nṝ́n ǀ ṛcáse ǀ rirīhi ǁnu ǀ gṛṇānaḥ ǀ gṛṇate ǀ pratna ǀ rājan ǀ iṣaḥ ǀ pinva ǀ vasu-deyāya ǀ pūrvīḥ ǀ
apaḥ ǀ oṣadhīḥ ǀ aviṣā ǀ vanāni ǀ gāḥ ǀ arvataḥ ǀ nṝn ǀ ṛcase ǀ rirīhi ǁ6.39.5 Aṣṭaka 4.7.11.5Anuvāka 6.3.99
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.