Ṛk 6.39.2
Saṃhitā
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिर्ऋत॒युग्यु॑जा॒नः ।
रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिंद्रः॑ ॥
अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः |
रुजद् अरुग्णं वि वलस्य सानुम् पणींर् वचोभिर् अभि योधद् इन्द्रः ||
ayámuśānáḥ páryádrimusrā́ ṛtádhītibhirṛtayúgyujānáḥ ǀ
rujádárugṇam ví valásya sā́num paṇī́m̐rvácobhirabhí yodhadíndraḥ ǁ
ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ |
rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ ||
Padapāṭha
अ॒यम् । उ॒शा॒नः । परि॑ । अद्रि॑म् । उ॒स्राः । ऋ॒तधी॑तिऽभिः । ऋ॒त॒ऽयुक् । यु॒जा॒नः ।
रु॒जत् । अरु॑ग्णम् । वि । व॒लस्य॑ । सानु॑म् । प॒णीन् । वचः॑ऽभिः । अ॒भि । यो॒ध॒त् । इन्द्रः॑ ॥
अयम् । उशानः । परि । अद्रिम् । उस्राः । ऋतधीतिऽभिः । ऋतऽयुक् । युजानः ।
रुजत् । अरुग्णम् । वि । वलस्य । सानुम् । पणीन् । वचःऽभिः । अभि । योधत् । इन्द्रः ॥
ayám ǀ uśānáḥ ǀ pári ǀ ádrim ǀ usrā́ḥ ǀ ṛtádhīti-bhiḥ ǀ ṛta-yúk ǀ yujānáḥ ǀ
ruját ǀ árugṇam ǀ ví ǀ valásya ǀ sā́num ǀ paṇī́n ǀ vácaḥ-bhiḥ ǀ abhí ǀ yodhat ǀ índraḥ ǁ
ayam ǀ uśānaḥ ǀ pari ǀ adrim ǀ usrāḥ ǀ ṛtadhīti-bhiḥ ǀ ṛta-yuk ǀ yujānaḥ ǀ
rujat ǀ arugṇam ǀ vi ǀ valasya ǀ sānum ǀ paṇīn ǀ vacaḥ-bhiḥ ǀ abhi ǀ yodhat ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.039.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.11.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.096
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.