Ṛk 6.39.3
Saṃhitā
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तूंदो॒षा वस्तोः॑ श॒रद॒ इंदु॑रिंद्र ।
इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥
अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र |
इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ||
ayám dyotayadadyúto vyáktū́ndoṣā́ vástoḥ śaráda índurindra ǀ
imám ketúmadadhurnū́ cidáhnām śúcijanmana uṣásaścakāra ǁ
ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra |
imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra ||
Padapāṭha
अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः॑ । वि । अ॒क्तून् । दो॒षा । वस्तोः॑ । श॒रदः॑ । इन्दुः॑ । इ॒न्द्र॒ ।
इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना॑म् । शुचि॑ऽजन्मनः । उ॒षसः॑ । च॒का॒र॒ ॥
अयम् । द्योतयत् । अद्युतः । वि । अक्तून् । दोषा । वस्तोः । शरदः । इन्दुः । इन्द्र ।
इमम् । केतुम् । अदधुः । नु । चित् । अह्नाम् । शुचिऽजन्मनः । उषसः । चकार ॥
ayám ǀ dyotayat ǀ adyútaḥ ǀ ví ǀ aktū́n ǀ doṣā́ ǀ vástoḥ ǀ śarádaḥ ǀ índuḥ ǀ indra ǀ
imám ǀ ketúm ǀ adadhuḥ ǀ nú ǀ cit ǀ áhnām ǀ śúci-janmanaḥ ǀ uṣásaḥ ǀ cakāra ǁ
ayam ǀ dyotayat ǀ adyutaḥ ǀ vi ǀ aktūn ǀ doṣā ǀ vastoḥ ǀ śaradaḥ ǀ induḥ ǀ indra ǀ
imam ǀ ketum ǀ adadhuḥ ǀ nu ǀ cit ǀ ahnām ǀ śuci-janmanaḥ ǀ uṣasaḥ ǀ cakāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.039.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.11.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.097
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.