Ṛk 6.39.4
Saṃhitā
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः ।
अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥
अयं रोचयद् अरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः |
अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ||
ayám rocayadarúco rucānó’yám vāsayadvyṛ́téna pūrvī́ḥ ǀ
ayámīyata ṛtayúgbhiráśvaiḥ svarvídā nā́bhinā carṣaṇiprā́ḥ ǁ
ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ |
ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||
Padapāṭha
अ॒यम् । रो॒च॒य॒त् । अ॒रुचः॑ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन॑ । पू॒र्वीः ।
अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । स्वः॒ऽविदा॑ । नाभि॑ना । च॒र्ष॒णि॒ऽप्राः ॥
अयम् । रोचयत् । अरुचः । रुचानः । अयम् । वासयत् । वि । ऋतेन । पूर्वीः ।
अयम् । ईयते । ऋतयुक्ऽभिः । अश्वैः । स्वःऽविदा । नाभिना । चर्षणिऽप्राः ॥
ayám ǀ rocayat ǀ arúcaḥ ǀ rucānáḥ ǀ ayám ǀ vāsayat ǀ ví ǀ ṛténa ǀ pūrvī́ḥ ǀ
ayám ǀ īyate ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ svaḥ-vídā ǀ nā́bhinā ǀ carṣaṇi-prā́ḥ ǁ
ayam ǀ rocayat ǀ arucaḥ ǀ rucānaḥ ǀ ayam ǀ vāsayat ǀ vi ǀ ṛtena ǀ pūrvīḥ ǀ
ayam ǀ īyate ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ svaḥ-vidā ǀ nābhinā ǀ carṣaṇi-prāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.039.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.11.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.098
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.