Sūkta 69
- Devatā देवता
- Indra, Viṣṇu
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 6, 7); triṣṭup (2, 4, 8); brāhmyuṣnik (5)
2nd set of styles triṣṭubh
-
Ṛk 1
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मींद्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रयं॑ता ॥सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य |
जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ||sám vām kármaṇā sámiṣā́ hinomī́ndrāviṣṇū ápasaspāré asyá ǀ
juṣéthām yajñám dráviṇam ca dhattamáriṣṭairnaḥ pathíbhiḥ pāráyantā ǁsaṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya |
juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā ||सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य ।
जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णू इति । अपसः । पारे । अस्य ।
जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथिऽभिः । पारयन्ता ॥sám ǀ vām ǀ kármaṇā ǀ sám ǀ iṣā́ ǀ hinomi ǀ índrāviṣṇū íti ǀ ápasaḥ ǀ pāré ǀ asyá ǀ
juṣéthām ǀ yajñám ǀ dráviṇam ǀ ca ǀ dhattam ǀ áriṣṭaiḥ ǀ naḥ ǀ pathí-bhiḥ ǀ pāráyantā ǁsam ǀ vām ǀ karmaṇā ǀ sam ǀ iṣā ǀ hinomi ǀ indrāviṣṇū iti ǀ apasaḥ ǀ pāre ǀ asya ǀ
juṣethām ǀ yajñam ǀ draviṇam ǀ ca ǀ dhattam ǀ ariṣṭaiḥ ǀ naḥ ǀ pathi-bhiḥ ǀ pārayantā ǁ6.69.1 Aṣṭaka 5.1.13.1Anuvāka 6.6.68
-
Ṛk 2
या विश्वा॑सां जनि॒तारा॑ मती॒नामिंद्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ ।
प्र वां॒ गिरः॑ श॒स्यमा॑ना अवंतु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना |
प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ||yā́ víśvāsām janitā́rā matīnā́míndrāvíṣṇū kaláśā somadhā́nā ǀ
prá vām gíraḥ śasyámānā avantu prá stómāso gīyámānāso arkáiḥ ǁyā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā |
pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ ||या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ ।
प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥या । विश्वासाम् । जनितारा । मतीनाम् । इन्द्राविष्णू इति । कलशा । सोमऽधाना ।
प्र । वाम् । गिरः । शस्यमानाः । अवन्तु । प्र । स्तोमासः । गीयमानासः । अर्कैः ॥yā́ ǀ víśvāsām ǀ janitā́rā ǀ matīnā́m ǀ índrāvíṣṇū íti ǀ kaláśā ǀ soma-dhā́nā ǀ
prá ǀ vām ǀ gíraḥ ǀ śasyámānāḥ ǀ avantu ǀ prá ǀ stómāsaḥ ǀ gīyámānāsaḥ ǀ arkáiḥ ǁyā ǀ viśvāsām ǀ janitārā ǀ matīnām ǀ indrāviṣṇū iti ǀ kalaśā ǀ soma-dhānā ǀ
pra ǀ vām ǀ giraḥ ǀ śasyamānāḥ ǀ avantu ǀ pra ǀ stomāsaḥ ǀ gīyamānāsaḥ ǀ arkaiḥ ǁ6.69.2 Aṣṭaka 5.1.13.2Anuvāka 6.6.69
-
Ṛk 3
इंद्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।
सं वा॑मंजंत्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना |
सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ||índrāviṣṇū madapatī madānāmā́ sómam yātam dráviṇo dádhānā ǀ
sám vāmañjantvaktúbhirmatīnā́m sám stómāsaḥ śasyámānāsa uktháiḥ ǁindrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā |
saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ ||इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना ।
सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥इन्द्राविष्णू इति । मदपती इति मदऽपती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना ।
सम् । वाम् । अञ्जन्तु । अक्तुऽभिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः ॥índrāviṣṇū íti ǀ madapatī íti mada-patī ǀ madānām ǀ ā́ ǀ sómam ǀ yātam ǀ dráviṇo íti ǀ dádhānā ǀ
sám ǀ vām ǀ añjantu ǀ aktú-bhiḥ ǀ matīnā́m ǀ sám ǀ stómāsaḥ ǀ śasyámānāsaḥ ǀ uktháiḥ ǁindrāviṣṇū iti ǀ madapatī iti mada-patī ǀ madānām ǀ ā ǀ somam ǀ yātam ǀ draviṇo iti ǀ dadhānā ǀ
sam ǀ vām ǀ añjantu ǀ aktu-bhiḥ ǀ matīnām ǀ sam ǀ stomāsaḥ ǀ śasyamānāsaḥ ǀ ukthaiḥ ǁ6.69.3 Aṣṭaka 5.1.13.3Anuvāka 6.6.70
-
Ṛk 4
आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इंद्रा॑विष्णू सध॒मादो॑ वहंतु ।
जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु |
जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं गिरो मे ||ā́ vāmáśvāso abhimātiṣā́ha índrāviṣṇū sadhamā́do vahantu ǀ
juṣéthām víśvā hávanā matīnā́múpa bráhmāṇi śṛṇutam gíro me ǁā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu |
juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me ||आ । वा॒म् । अश्वा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । इन्द्रा॑विष्णू॒ इति॑ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।
जु॒षेथा॑म् । विश्वा॑ । हव॑ना । म॒ती॒नाम् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । गिरः॑ । मे॒ ॥आ । वाम् । अश्वासः । अभिमातिऽसहः । इन्द्राविष्णू इति । सधऽमादः । वहन्तु ।
जुषेथाम् । विश्वा । हवना । मतीनाम् । उप । ब्रह्माणि । शृणुतम् । गिरः । मे ॥ā́ ǀ vām ǀ áśvāsaḥ ǀ abhimāti-sáhaḥ ǀ índrāviṣṇū íti ǀ sadha-mā́daḥ ǀ vahantu ǀ
juṣéthām ǀ víśvā ǀ hávanā ǀ matīnā́m ǀ úpa ǀ bráhmāṇi ǀ śṛṇutam ǀ gíraḥ ǀ me ǁā ǀ vām ǀ aśvāsaḥ ǀ abhimāti-sahaḥ ǀ indrāviṣṇū iti ǀ sadha-mādaḥ ǀ vahantu ǀ
juṣethām ǀ viśvā ǀ havanā ǀ matīnām ǀ upa ǀ brahmāṇi ǀ śṛṇutam ǀ giraḥ ǀ me ǁ6.69.4 Aṣṭaka 5.1.13.4Anuvāka 6.6.71
-
Ṛk 5
इंद्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।
अकृ॑णुतमं॒तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे |
अकृणुतम् अन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि ||índrāviṣṇū tátpanayā́yyam vām sómasya máda urú cakramāthe ǀ
ákṛṇutamantárikṣam várīyó’prathatam jīváse no rájāṃsi ǁindrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe |
akṛṇutam antarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi ||इन्द्रा॑विष्णू॒ इति॑ । तत् । प॒न॒याय्य॑म् । वा॒म् । सोम॑स्य । मदे॑ । उ॒रु । च॒क्र॒मा॒थे॒ इति॑ ।
अकृ॑णुतम् । अ॒न्तरि॑क्षम् । वरी॑यः । अप्र॑थतम् । जी॒वसे॑ । नः॒ । रजां॑सि ॥इन्द्राविष्णू इति । तत् । पनयाय्यम् । वाम् । सोमस्य । मदे । उरु । चक्रमाथे इति ।
अकृणुतम् । अन्तरिक्षम् । वरीयः । अप्रथतम् । जीवसे । नः । रजांसि ॥índrāviṣṇū íti ǀ tát ǀ panayā́yyam ǀ vām ǀ sómasya ǀ máde ǀ urú ǀ cakramāthe íti ǀ
ákṛṇutam ǀ antárikṣam ǀ várīyaḥ ǀ áprathatam ǀ jīváse ǀ naḥ ǀ rájāṃsi ǁindrāviṣṇū iti ǀ tat ǀ panayāyyam ǀ vām ǀ somasya ǀ made ǀ uru ǀ cakramāthe iti ǀ
akṛṇutam ǀ antarikṣam ǀ varīyaḥ ǀ aprathatam ǀ jīvase ǀ naḥ ǀ rajāṃsi ǁ6.69.5 Aṣṭaka 5.1.13.5Anuvāka 6.6.72
-
Ṛk 6
इंद्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या ।
घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या |
घृतासुती द्रविणं धत्तम् अस्मे समुद्र स्थः कलशः सोमधानः ||índrāviṣṇū havíṣā vāvṛdhānā́grādvānā námasā rātahavyā ǀ
ghṛ́tāsutī dráviṇam dhattamasmé samudráḥ sthaḥ kaláśaḥ somadhā́naḥ ǁindrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā |
ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ ||इन्द्रा॑विष्णू॒ इति॑ । ह॒विषा॑ । व॒वृ॒धा॒ना । अग्र॑ऽअद्वाना । नम॑सा । रा॒त॒ऽह॒व्या॒ ।
घृता॑सुती॒ इति॒ घृत॑ऽआसुती । द्रवि॑णम् । ध॒त्त॒म् । अ॒स्मे इति॑ । स॒मु॒द्रः । स्थः॒ । क॒लशः॑ । सो॒म॒ऽधानः॑ ॥इन्द्राविष्णू इति । हविषा । ववृधाना । अग्रऽअद्वाना । नमसा । रातऽहव्या ।
घृतासुती इति घृतऽआसुती । द्रविणम् । धत्तम् । अस्मे इति । समुद्रः । स्थः । कलशः । सोमऽधानः ॥índrāviṣṇū íti ǀ havíṣā ǀ vavṛdhānā́ ǀ ágra-advānā ǀ námasā ǀ rāta-havyā ǀ
ghṛ́tāsutī íti ghṛ́ta-āsutī ǀ dráviṇam ǀ dhattam ǀ asmé íti ǀ samudráḥ ǀ sthaḥ ǀ kaláśaḥ ǀ soma-dhā́naḥ ǁindrāviṣṇū iti ǀ haviṣā ǀ vavṛdhānā ǀ agra-advānā ǀ namasā ǀ rāta-havyā ǀ
ghṛtāsutī iti ghṛta-āsutī ǀ draviṇam ǀ dhattam ǀ asme iti ǀ samudraḥ ǀ sthaḥ ǀ kalaśaḥ ǀ soma-dhānaḥ ǁ6.69.6 Aṣṭaka 5.1.13.6Anuvāka 6.6.73
-
Ṛk 7
इंद्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथां ।
आ वा॒मंधां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् |
आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ||índrāviṣṇū píbatam mádhvo asyá sómasya dasrā jaṭháram pṛṇethām ǀ
ā́ vāmándhāṃsi madirā́ṇyagmannúpa bráhmāṇi śṛṇutam hávam me ǁindrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām |
ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me ||इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् ।
आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥इन्द्राविष्णू इति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् ।
आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे ॥índrāviṣṇū íti ǀ píbatam ǀ mádhvaḥ ǀ asyá ǀ sómasya ǀ dasrā ǀ jaṭháram ǀ pṛṇethām ǀ
ā́ ǀ vām ǀ ándhāṃsi ǀ madirā́ṇi ǀ agman ǀ úpa ǀ bráhmāṇi ǀ śṛṇutam ǀ hávam ǀ me ǁindrāviṣṇū iti ǀ pibatam ǀ madhvaḥ ǀ asya ǀ somasya ǀ dasrā ǀ jaṭharam ǀ pṛṇethām ǀ
ā ǀ vām ǀ andhāṃsi ǀ madirāṇi ǀ agman ǀ upa ǀ brahmāṇi ǀ śṛṇutam ǀ havam ǀ me ǁ6.69.7 Aṣṭaka 5.1.13.7Anuvāka 6.6.74
-
Ṛk 8
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
इंद्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथां ॥उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः |
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ||ubhā́ jigyathurná párā jayethe ná párā jigye kataráścanáinoḥ ǀ
índraśca viṣṇo yádápaspṛdhethām tredhā́ sahásram ví tádairayethām ǁubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ |
indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām ||उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।
इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥उभा । जिग्यथुः । न । परा । जयेथे इति । न । परा । जिग्ये । कतरः । चन । एनोः ।
इन्द्रः । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥ubhā́ ǀ jigyathuḥ ǀ ná ǀ párā ǀ jayethe íti ǀ ná ǀ párā ǀ jigye ǀ kataráḥ ǀ caná ǀ enoḥ ǀ
índraḥ ǀ ca ǀ viṣṇo íti ǀ yát ǀ ápaspṛdhethām ǀ tredhā́ ǀ sahásram ǀ ví ǀ tát ǀ airayethām ǁubhā ǀ jigyathuḥ ǀ na ǀ parā ǀ jayethe iti ǀ na ǀ parā ǀ jigye ǀ kataraḥ ǀ cana ǀ enoḥ ǀ
indraḥ ǀ ca ǀ viṣṇo iti ǀ yat ǀ apaspṛdhethām ǀ tredhā ǀ sahasram ǀ vi ǀ tat ǀ airayethām ǁ6.69.8 Aṣṭaka 5.1.13.8Anuvāka 6.6.75
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.