Ṛk 6.69.7
Saṃhitā
इंद्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथां ।
आ वा॒मंधां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥
इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् |
आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ||
índrāviṣṇū píbatam mádhvo asyá sómasya dasrā jaṭháram pṛṇethām ǀ
ā́ vāmándhāṃsi madirā́ṇyagmannúpa bráhmāṇi śṛṇutam hávam me ǁ
indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām |
ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me ||
Padapāṭha
इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् ।
आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥
इन्द्राविष्णू इति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् ।
आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे ॥
índrāviṣṇū íti ǀ píbatam ǀ mádhvaḥ ǀ asyá ǀ sómasya ǀ dasrā ǀ jaṭháram ǀ pṛṇethām ǀ
ā́ ǀ vām ǀ ándhāṃsi ǀ madirā́ṇi ǀ agman ǀ úpa ǀ bráhmāṇi ǀ śṛṇutam ǀ hávam ǀ me ǁ
indrāviṣṇū iti ǀ pibatam ǀ madhvaḥ ǀ asya ǀ somasya ǀ dasrā ǀ jaṭharam ǀ pṛṇethām ǀ
ā ǀ vām ǀ andhāṃsi ǀ madirāṇi ǀ agman ǀ upa ǀ brahmāṇi ǀ śṛṇutam ǀ havam ǀ me ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.069.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.13.07
- Maṇḍala · Anuvāka · Ṛk
- 06.06.074
- Devatā देवता
- Indra, Viṣṇu
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.