Ṛk 6.69.3
Saṃhitā
इंद्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।
सं वा॑मंजंत्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥
इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना |
सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ||
índrāviṣṇū madapatī madānāmā́ sómam yātam dráviṇo dádhānā ǀ
sám vāmañjantvaktúbhirmatīnā́m sám stómāsaḥ śasyámānāsa uktháiḥ ǁ
indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā |
saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ ||
Padapāṭha
इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना ।
सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥
इन्द्राविष्णू इति । मदपती इति मदऽपती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना ।
सम् । वाम् । अञ्जन्तु । अक्तुऽभिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः ॥
índrāviṣṇū íti ǀ madapatī íti mada-patī ǀ madānām ǀ ā́ ǀ sómam ǀ yātam ǀ dráviṇo íti ǀ dádhānā ǀ
sám ǀ vām ǀ añjantu ǀ aktú-bhiḥ ǀ matīnā́m ǀ sám ǀ stómāsaḥ ǀ śasyámānāsaḥ ǀ uktháiḥ ǁ
indrāviṣṇū iti ǀ madapatī iti mada-patī ǀ madānām ǀ ā ǀ somam ǀ yātam ǀ draviṇo iti ǀ dadhānā ǀ
sam ǀ vām ǀ añjantu ǀ aktu-bhiḥ ǀ matīnām ǀ sam ǀ stomāsaḥ ǀ śasyamānāsaḥ ǀ ukthaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.069.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.13.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.070
- Devatā देवता
- Indra, Viṣṇu
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.