Ṛk 6.69.8
Saṃhitā
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
इंद्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथां ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः |
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ||
ubhā́ jigyathurná párā jayethe ná párā jigye kataráścanáinoḥ ǀ
índraśca viṣṇo yádápaspṛdhethām tredhā́ sahásram ví tádairayethām ǁ
ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ |
indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām ||
Padapāṭha
उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।
इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥
उभा । जिग्यथुः । न । परा । जयेथे इति । न । परा । जिग्ये । कतरः । चन । एनोः ।
इन्द्रः । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥
ubhā́ ǀ jigyathuḥ ǀ ná ǀ párā ǀ jayethe íti ǀ ná ǀ párā ǀ jigye ǀ kataráḥ ǀ caná ǀ enoḥ ǀ
índraḥ ǀ ca ǀ viṣṇo íti ǀ yát ǀ ápaspṛdhethām ǀ tredhā́ ǀ sahásram ǀ ví ǀ tát ǀ airayethām ǁ
ubhā ǀ jigyathuḥ ǀ na ǀ parā ǀ jayethe iti ǀ na ǀ parā ǀ jigye ǀ kataraḥ ǀ cana ǀ enoḥ ǀ
indraḥ ǀ ca ǀ viṣṇo iti ǀ yat ǀ apaspṛdhethām ǀ tredhā ǀ sahasram ǀ vi ǀ tat ǀ airayethām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.069.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.13.08
- Maṇḍala · Anuvāka · Ṛk
- 06.06.075
- Devatā देवता
- Indra, Viṣṇu
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.