Ṛk 6.69.1
Saṃhitā
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मींद्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रयं॑ता ॥
सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य |
जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ||
sám vām kármaṇā sámiṣā́ hinomī́ndrāviṣṇū ápasaspāré asyá ǀ
juṣéthām yajñám dráviṇam ca dhattamáriṣṭairnaḥ pathíbhiḥ pāráyantā ǁ
saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya |
juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā ||
Padapāṭha
सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य ।
जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥
सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णू इति । अपसः । पारे । अस्य ।
जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथिऽभिः । पारयन्ता ॥
sám ǀ vām ǀ kármaṇā ǀ sám ǀ iṣā́ ǀ hinomi ǀ índrāviṣṇū íti ǀ ápasaḥ ǀ pāré ǀ asyá ǀ
juṣéthām ǀ yajñám ǀ dráviṇam ǀ ca ǀ dhattam ǀ áriṣṭaiḥ ǀ naḥ ǀ pathí-bhiḥ ǀ pāráyantā ǁ
sam ǀ vām ǀ karmaṇā ǀ sam ǀ iṣā ǀ hinomi ǀ indrāviṣṇū iti ǀ apasaḥ ǀ pāre ǀ asya ǀ
juṣethām ǀ yajñam ǀ draviṇam ǀ ca ǀ dhattam ǀ ariṣṭaiḥ ǀ naḥ ǀ pathi-bhiḥ ǀ pārayantā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.069.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.13.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.068
- Devatā देवता
- Indra, Viṣṇu
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.