Ṛgveda · Maṇḍala 6

Sūkta 20

Indra · Bharadvāja Bārhaspatya · 13 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh, Virāj
Metres by ṛk

1st set of styles paṅktiḥ (2, 3, 7, 12); nicṛttriṣṭup (5, 8, 9, 11); bhurikpaṅkti (4, 6); ārṣyanuṣṭup (1); nicṛtpaṅkti (10); svarāṭpaṅkti (13)

2nd set of styles triṣṭubh (1-6, 8-13); virāj (7)

  1. Ṛk 1

    द्यौर्न य इं॑द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् ।
    तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुरं॑ ॥

    द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् |
    तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ||

    dyáurná yá indrābhí bhū́māryástastháu rayíḥ śávasā pṛtsú jánān ǀ
    tám naḥ sahásrabharamurvarāsā́m daddhí sūno sahaso vṛtratúram ǁ

    dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān |
    taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam ||

    द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम॑ । अ॒र्यः । त॒स्थौ । र॒यिः । शव॑सा । पृ॒त्ऽसु । जना॑न् ।
    तम् । नः॒ । स॒हस्र॑ऽभरम् । उ॒र्व॒रा॒ऽसाम् । द॒द्धि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वृ॒त्र॒ऽतुर॑म् ॥

    द्यौः । न । यः । इन्द्र । अभि । भूम । अर्यः । तस्थौ । रयिः । शवसा । पृत्ऽसु । जनान् ।
    तम् । नः । सहस्रऽभरम् । उर्वराऽसाम् । दद्धि । सूनो इति । सहसः । वृत्रऽतुरम् ॥

    dyáuḥ ǀ ná ǀ yáḥ ǀ indra ǀ abhí ǀ bhū́ma ǀ aryáḥ ǀ tastháu ǀ rayíḥ ǀ śávasā ǀ pṛt-sú ǀ jánān ǀ
    tám ǀ naḥ ǀ sahásra-bharam ǀ urvarā-sā́m ǀ daddhí ǀ sūno íti ǀ sahasaḥ ǀ vṛtra-túram ǁ

    dyauḥ ǀ na ǀ yaḥ ǀ indra ǀ abhi ǀ bhūma ǀ aryaḥ ǀ tasthau ǀ rayiḥ ǀ śavasā ǀ pṛt-su ǀ janān ǀ
    tam ǀ naḥ ǀ sahasra-bharam ǀ urvarā-sām ǀ daddhi ǀ sūno iti ǀ sahasaḥ ǀ vṛtra-turam ǁ

    6.20.1 Aṣṭaka 4.6.9.1Anuvāka 6.2.92

  2. Ṛk 2

    दि॒वो न तुभ्य॒मन्विं॑द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्वं॑ ।
    अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥

    दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् |
    अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ||

    divó ná túbhyamánvindra satrā́suryám devébhirdhāyi víśvam ǀ
    áhim yádvṛtrámapó vavrivā́ṃsam hánnṛjīṣinvíṣṇunā sacānáḥ ǁ

    divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam |
    ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ ||

    दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् ।
    अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥

    दिवः । न । तुभ्यम् । अनु । इन्द्र । सत्रा । असुर्यम् । देवेभिः । धायि । विश्वम् ।
    अहिम् । यत् । वृत्रम् । अपः । वव्रिऽवांसम् । हन् । ऋजीषिन् । विष्णुना । सचानः ॥

    diváḥ ǀ ná ǀ túbhyam ǀ ánu ǀ indra ǀ satrā́ ǀ asuryám ǀ devébhiḥ ǀ dhāyi ǀ víśvam ǀ
    áhim ǀ yát ǀ vṛtrám ǀ apáḥ ǀ vavri-vā́ṃsam ǀ hán ǀ ṛjīṣin ǀ víṣṇunā ǀ sacānáḥ ǁ

    divaḥ ǀ na ǀ tubhyam ǀ anu ǀ indra ǀ satrā ǀ asuryam ǀ devebhiḥ ǀ dhāyi ǀ viśvam ǀ
    ahim ǀ yat ǀ vṛtram ǀ apaḥ ǀ vavri-vāṃsam ǀ han ǀ ṛjīṣin ǀ viṣṇunā ǀ sacānaḥ ǁ

    6.20.2 Aṣṭaka 4.6.9.2Anuvāka 6.2.93

  3. Ṛk 3

    तूर्व॒न्नोजी॑यांत॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेंद्रो॑ वृ॒द्धम॑हाः ।
    राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥

    तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः |
    राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम् आवत् ||

    tū́rvannójīyāntavásastávīyānkṛtábrahméndro vṛddhámahāḥ ǀ
    rā́jābhavanmádhunaḥ somyásya víśvāsām yátpurā́m dartnúmāvat ǁ

    tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ |
    rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat ||

    तूर्व॑न् । ओजी॑यान् । त॒वसः॑ । तवी॑यान् । कृ॒तऽब्र॑ह्मा । इन्द्रः॑ । वृ॒द्धऽम॑हाः ।
    राजा॑ । अ॒भ॒व॒त् । मधु॑नः । सो॒म्यस्य॑ । विश्वा॑साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव॑त् ॥

    तूर्वन् । ओजीयान् । तवसः । तवीयान् । कृतऽब्रह्मा । इन्द्रः । वृद्धऽमहाः ।
    राजा । अभवत् । मधुनः । सोम्यस्य । विश्वासाम् । यत् । पुराम् । दर्त्नुम् । आवत् ॥

    tū́rvan ǀ ójīyān ǀ tavásaḥ ǀ távīyān ǀ kṛtá-brahmā ǀ índraḥ ǀ vṛddhá-mahāḥ ǀ
    rā́jā ǀ abhavat ǀ mádhunaḥ ǀ somyásya ǀ víśvāsām ǀ yát ǀ purā́m ǀ dartnúm ǀ ā́vat ǁ

    tūrvan ǀ ojīyān ǀ tavasaḥ ǀ tavīyān ǀ kṛta-brahmā ǀ indraḥ ǀ vṛddha-mahāḥ ǀ
    rājā ǀ abhavat ǀ madhunaḥ ǀ somyasya ǀ viśvāsām ǀ yat ǀ purām ǀ dartnum ǀ āvat ǁ

    6.20.3 Aṣṭaka 4.6.9.3Anuvāka 6.2.94

  4. Ṛk 4

    श॒तैर॑पद्रन्प॒णय॑ इं॒द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ ।
    व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥

    शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ |
    वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ||

    śatáirapadranpaṇáya indrā́tra dáśoṇaye kaváye’rkásātau ǀ
    vadháiḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecītkím caná prá ǁ

    śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau |
    vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃ cana pra ||

    श॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ ।
    व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥

    शतैः । अपद्रन् । पणयः । इन्द्र । अत्र । दशऽओणये । कवये । अर्कऽसातौ ।
    वधैः । शुष्णस्य । अशुषस्य । मायाः । पित्वः । न । अरिरेचीत् । किम् । चन । प्र ॥

    śatáiḥ ǀ apadran ǀ paṇáyaḥ ǀ indra ǀ átra ǀ dáśa-oṇaye ǀ kaváye ǀ arká-sātau ǀ
    vadháiḥ ǀ śúṣṇasya ǀ aśúṣasya ǀ māyā́ḥ ǀ pitváḥ ǀ ná ǀ arirecīt ǀ kím ǀ caná ǀ prá ǁ

    śataiḥ ǀ apadran ǀ paṇayaḥ ǀ indra ǀ atra ǀ daśa-oṇaye ǀ kavaye ǀ arka-sātau ǀ
    vadhaiḥ ǀ śuṣṇasya ǀ aśuṣasya ǀ māyāḥ ǀ pitvaḥ ǀ na ǀ arirecīt ǀ kim ǀ cana ǀ pra ǁ

    6.20.4 Aṣṭaka 4.6.9.4Anuvāka 6.2.95

  5. Ṛk 5

    म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ ।
    उ॒रु ष स॒रथं॒ सार॑थये क॒रिंद्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥

    महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः |
    उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ ||

    mahó druhó ápa viśvā́yu dhāyi vájrasya yátpátane pā́di śúṣṇaḥ ǀ
    urú ṣá sarátham sā́rathaye karíndraḥ kútsāya sū́ryasya sātáu ǁ

    maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ |
    uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau ||

    म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ ।
    उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥

    महः । द्रुहः । अप । विश्वऽआयु । धायि । वज्रस्य । यत् । पतने । पादि । शुष्णः ।
    उरु । सः । सऽरथम् । सारथये । कः । इन्द्रः । कुत्साय । सूर्यस्य । सातौ ॥

    maháḥ ǀ druháḥ ǀ ápa ǀ viśvá-āyu ǀ dhāyi ǀ vájrasya ǀ yát ǀ pátane ǀ pā́di ǀ śúṣṇaḥ ǀ
    urú ǀ sáḥ ǀ sa-rátham ǀ sā́rathaye ǀ kaḥ ǀ índraḥ ǀ kútsāya ǀ sū́ryasya ǀ sātáu ǁ

    mahaḥ ǀ druhaḥ ǀ apa ǀ viśva-āyu ǀ dhāyi ǀ vajrasya ǀ yat ǀ patane ǀ pādi ǀ śuṣṇaḥ ǀ
    uru ǀ saḥ ǀ sa-ratham ǀ sārathaye ǀ kaḥ ǀ indraḥ ǀ kutsāya ǀ sūryasya ǀ sātau ǁ

    6.20.5 Aṣṭaka 4.6.9.5Anuvāka 6.2.96

  6. Ṛk 6

    प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
    प्राव॒न्नमीं॑ सा॒प्यं स॒संतं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥

    प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् |
    प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं स्वस्ति ||

    prá śyenó ná madirámaṃśúmasmai śíro dāsásya námucermathāyán ǀ
    prā́vannámīm sāpyám sasántam pṛṇágrāyā́ sámiṣā́ sám svastí ǁ

    pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan |
    prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti ||

    प्र । श्ये॒नः । न । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।
    प्र । आ॒व॒त् । नमी॑म् । सा॒प्यम् । स॒सन्त॑म् । पृ॒णक् । रा॒या । सम् । इ॒षा । सम् । स्व॒स्ति ॥

    प्र । श्येनः । न । मदिरम् । अंशुम् । अस्मै । शिरः । दासस्य । नमुचेः । मथायन् ।
    प्र । आवत् । नमीम् । साप्यम् । ससन्तम् । पृणक् । राया । सम् । इषा । सम् । स्वस्ति ॥

    prá ǀ śyenáḥ ǀ ná ǀ madirám ǀ aṃśúm ǀ asmai ǀ śíraḥ ǀ dāsásya ǀ námuceḥ ǀ mathāyán ǀ
    prá ǀ āvat ǀ námīm ǀ sāpyám ǀ sasántam ǀ pṛṇák ǀ rāyā́ ǀ sám ǀ iṣā́ ǀ sám ǀ svastí ǁ

    pra ǀ śyenaḥ ǀ na ǀ madiram ǀ aṃśum ǀ asmai ǀ śiraḥ ǀ dāsasya ǀ namuceḥ ǀ mathāyan ǀ
    pra ǀ āvat ǀ namīm ǀ sāpyam ǀ sasantam ǀ pṛṇak ǀ rāyā ǀ sam ǀ iṣā ǀ sam ǀ svasti ǁ

    6.20.6 Aṣṭaka 4.6.10.1Anuvāka 6.2.97

  7. Ṛk 7

    वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रिं॒छव॑सा॒ न द॑र्दः ।
    सुदा॑मं॒तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥

    वि पिप्रोर् अहिमायस्य दृऌहाः पुरो वज्रिञ् छवसा न दर्दः |
    सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ||

    ví píproráhimāyasya dṛḷhā́ḥ púro vajriñchávasā ná dardaḥ ǀ
    súdāmantádrékṇo apramṛṣyámṛjíśvane dātrám dāśúṣe dāḥ ǁ

    vi pipror ahimāyasya dṛḷhāḥ puro vajriñ chavasā na dardaḥ |
    sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ ||

    वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः ।
    सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥

    वि । पिप्रोः । अहिऽमायस्य । दृळ्हाः । पुरः । वज्रिन् । शवसा । न । दर्दरिति दर्दः ।
    सुऽदामन् । तत् । रेक्णः । अप्रऽमृष्यम् । ऋजिश्वने । दात्रम् । दाशुषे । दाः ॥

    ví ǀ píproḥ ǀ áhi-māyasya ǀ dṛḷhā́ḥ ǀ púraḥ ǀ vajrin ǀ śávasā ǀ ná ǀ dardaríti dardaḥ ǀ
    sú-dāman ǀ tát ǀ rékṇaḥ ǀ apra-mṛṣyám ǀ ṛjíśvane ǀ dātrám ǀ dāśúṣe ǀ dāḥ ǁ

    vi ǀ piproḥ ǀ ahi-māyasya ǀ dṛḷhāḥ ǀ puraḥ ǀ vajrin ǀ śavasā ǀ na ǀ dardariti dardaḥ ǀ
    su-dāman ǀ tat ǀ rekṇaḥ ǀ apra-mṛṣyam ǀ ṛjiśvane ǀ dātram ǀ dāśuṣe ǀ dāḥ ǁ

    6.20.7 Aṣṭaka 4.6.10.2Anuvāka 6.2.98

  8. Ṛk 8

    स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिंद्रः॑ स्वभि॒ष्टिसु॑म्नः ।
    आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥

    स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः |
    आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा इयध्यै ||

    sá vetasúm dáśamāyam dáśoṇim tū́tujimíndraḥ svabhiṣṭísumnaḥ ǀ
    ā́ túgram śáśvadíbham dyótanāya mātúrná sīmúpa sṛjā iyádhyai ǁ

    sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujim indraḥ svabhiṣṭisumnaḥ |
    ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai ||

    सः । वे॒त॒सुम् । दश॑ऽमायम् । दश॑ऽओणिम् । तूतु॑जिम् । इन्द्रः॑ । स्व॒भि॒ष्टिऽसु॑म्नः ।
    आ । तुग्र॑म् । शश्व॑त् । इभ॑म् । द्योत॑नाय । मा॒तुः । न । सी॒म् । उप॑ । सृ॒ज॒ । इ॒यध्यै॑ ॥

    सः । वेतसुम् । दशऽमायम् । दशऽओणिम् । तूतुजिम् । इन्द्रः । स्वभिष्टिऽसुम्नः ।
    आ । तुग्रम् । शश्वत् । इभम् । द्योतनाय । मातुः । न । सीम् । उप । सृज । इयध्यै ॥

    sáḥ ǀ vetasúm ǀ dáśa-māyam ǀ dáśa-oṇim ǀ tū́tujim ǀ índraḥ ǀ svabhiṣṭí-sumnaḥ ǀ
    ā́ ǀ túgram ǀ śáśvat ǀ íbham ǀ dyótanāya ǀ mātúḥ ǀ ná ǀ sīm ǀ úpa ǀ sṛja ǀ iyádhyai ǁ

    saḥ ǀ vetasum ǀ daśa-māyam ǀ daśa-oṇim ǀ tūtujim ǀ indraḥ ǀ svabhiṣṭi-sumnaḥ ǀ
    ā ǀ tugram ǀ śaśvat ǀ ibham ǀ dyotanāya ǀ mātuḥ ǀ na ǀ sīm ǀ upa ǀ sṛja ǀ iyadhyai ǁ

    6.20.8 Aṣṭaka 4.6.10.3Anuvāka 6.2.99

  9. Ṛk 9

    स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ ।
    तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इंद्र॑मृ॒ष्वं ॥

    स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ |
    तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् ||

    sá īm spṛ́dho vanate ápratīto bíbhradvájram vṛtraháṇam gábhastau ǀ
    tíṣṭhaddhárī ádhyásteva gárte vacoyújā vahata índramṛṣvám ǁ

    sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau |
    tiṣṭhad dharī adhy asteva garte vacoyujā vahata indram ṛṣvam ||

    सः । ई॒म् । स्पृधः॑ । व॒न॒ते॒ । अप्र॑तिऽइतः । बिभ्र॑त् । वज्र॑म् । वृ॒त्र॒ऽहन॑म् । गभ॑स्तौ ।
    तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ । अस्ता॑ऽइव । गर्ते॑ । व॒चः॒ऽयुजा॑ । व॒ह॒तः॒ । इन्द्र॑म् । ऋ॒ष्वम् ॥

    सः । ईम् । स्पृधः । वनते । अप्रतिऽइतः । बिभ्रत् । वज्रम् । वृत्रऽहनम् । गभस्तौ ।
    तिष्ठत् । हरी इति । अधि । अस्ताऽइव । गर्ते । वचःऽयुजा । वहतः । इन्द्रम् । ऋष्वम् ॥

    sáḥ ǀ īm ǀ spṛ́dhaḥ ǀ vanate ǀ áprati-itaḥ ǀ bíbhrat ǀ vájram ǀ vṛtra-hánam ǀ gábhastau ǀ
    tíṣṭhat ǀ hárī íti ǀ ádhi ǀ ástā-iva ǀ gárte ǀ vacaḥ-yújā ǀ vahataḥ ǀ índram ǀ ṛṣvám ǁ

    saḥ ǀ īm ǀ spṛdhaḥ ǀ vanate ǀ aprati-itaḥ ǀ bibhrat ǀ vajram ǀ vṛtra-hanam ǀ gabhastau ǀ
    tiṣṭhat ǀ harī iti ǀ adhi ǀ astā-iva ǀ garte ǀ vacaḥ-yujā ǀ vahataḥ ǀ indram ǀ ṛṣvam ǁ

    6.20.9 Aṣṭaka 4.6.10.4Anuvāka 6.2.100

  10. Ṛk 10

    स॒नेम॒ तेऽव॑सा॒ नव्य॑ इंद्र॒ प्र पू॒रवः॑ स्तवंत ए॒ना य॒ज्ञैः ।
    स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धंदासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥

    सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः |
    सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ||

    sanéma té’vasā návya indra prá pūrávaḥ stavanta enā́ yajñáiḥ ǀ
    saptá yátpúraḥ śárma śā́radīrdárddhándā́sīḥ purukútsāya śíkṣan ǁ

    sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ |
    sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan ||

    स॒नेम॑ । ते॒ । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः ।
    स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥

    सनेम । ते । अवसा । नव्यः । इन्द्र । प्र । पूरवः । स्तवन्ते । एना । यज्ञैः ।
    सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् । हन् । दासीः । पुरुऽकुत्साय । शिक्षन् ॥

    sanéma ǀ te ǀ ávasā ǀ návyaḥ ǀ indra ǀ prá ǀ pūrávaḥ ǀ stavante ǀ enā́ ǀ yajñáiḥ ǀ
    saptá ǀ yát ǀ púraḥ ǀ śárma ǀ śā́radīḥ ǀ dárt ǀ hán ǀ dā́sīḥ ǀ puru-kútsāya ǀ śíkṣan ǁ

    sanema ǀ te ǀ avasā ǀ navyaḥ ǀ indra ǀ pra ǀ pūravaḥ ǀ stavante ǀ enā ǀ yajñaiḥ ǀ
    sapta ǀ yat ǀ puraḥ ǀ śarma ǀ śāradīḥ ǀ dart ǀ han ǀ dāsīḥ ǀ puru-kutsāya ǀ śikṣan ǁ

    6.20.10 Aṣṭaka 4.6.10.5Anuvāka 6.2.101

  11. Ṛk 11

    त्वं वृ॒ध इं॑द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ ।
    परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तं ॥

    त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय |
    परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम् ||

    tvám vṛdhá indra pūrvyó bhūrvarivasyánnuśáne kāvyā́ya ǀ
    párā návavāstvamanudéyam mahé pitré dadātha svám nápātam ǁ

    tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya |
    parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam ||

    त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने॑ । का॒व्याय॑ ।
    परा॑ । नव॑ऽवास्त्वम् । अ॒नु॒ऽदेय॑म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा॑तम् ॥

    त्वम् । वृधः । इन्द्र । पूर्व्यः । भूः । वरिवस्यन् । उशने । काव्याय ।
    परा । नवऽवास्त्वम् । अनुऽदेयम् । महे । पित्रे । ददाथ । स्वम् । नपातम् ॥

    tvám ǀ vṛdháḥ ǀ indra ǀ pūrvyáḥ ǀ bhūḥ ǀ varivasyán ǀ uśáne ǀ kāvyā́ya ǀ
    párā ǀ náva-vāstvam ǀ anu-déyam ǀ mahé ǀ pitré ǀ dadātha ǀ svám ǀ nápātam ǁ

    tvam ǀ vṛdhaḥ ǀ indra ǀ pūrvyaḥ ǀ bhūḥ ǀ varivasyan ǀ uśane ǀ kāvyāya ǀ
    parā ǀ nava-vāstvam ǀ anu-deyam ǀ mahe ǀ pitre ǀ dadātha ǀ svam ǀ napātam ǁ

    6.20.11 Aṣṭaka 4.6.10.6Anuvāka 6.2.102

  12. Ṛk 12

    त्वं धुनि॑रिंद्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रवं॑तीः ।
    प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥

    त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः |
    प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ||

    tvám dhúnirindra dhúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ ǀ
    prá yátsamudrámáti śūra párṣi pāráyā turváśam yádum svastí ǁ

    tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ |
    pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti ||

    त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।
    प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥

    त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।
    प्र । यत् । समुद्रम् । अति । शूर । पर्षि । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥

    tvám ǀ dhúniḥ ǀ indra ǀ dhúni-matīḥ ǀ ṛṇóḥ ǀ apáḥ ǀ sīrā́ḥ ǀ ná ǀ srávantīḥ ǀ
    prá ǀ yát ǀ samudrám ǀ áti ǀ śūra ǀ párṣi ǀ pāráya ǀ turváśam ǀ yádum ǀ svastí ǁ

    tvam ǀ dhuniḥ ǀ indra ǀ dhuni-matīḥ ǀ ṛṇoḥ ǀ apaḥ ǀ sīrāḥ ǀ na ǀ sravantīḥ ǀ
    pra ǀ yat ǀ samudram ǀ ati ǀ śūra ǀ parṣi ǀ pāraya ǀ turvaśam ǀ yadum ǀ svasti ǁ

    6.20.12 Aṣṭaka 4.6.10.7Anuvāka 6.2.103

  13. Ṛk 13

    तव॑ ह॒ त्यदिं॑द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् ।
    दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वंद॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥

    तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् |
    दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अर्कैः ||

    táva ha tyádindra víśvamājáu sastó dhúnīcúmurī yā́ ha síṣvap ǀ
    dīdáyadíttúbhyam sómebhiḥ sunvándabhī́tiridhmábhṛtiḥ pakthyárkáiḥ ǁ

    tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap |
    dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ ||

    तव॑ । ह॒ । त्यत् । इ॒न्द्र॒ । विश्व॑म् । आ॒जौ । स॒स्तः । धुनी॒चुमु॑री॒ इति॑ । या । ह॒ । सिस्व॑प् ।
    दी॒दय॑त् । इत् । तुभ्य॑म् । सोमे॑भिः । सु॒न्वन् । द॒भीतिः॑ । इ॒ध्मऽभृ॑तिः । प॒क्थी । अ॒र्कैः ॥

    तव । ह । त्यत् । इन्द्र । विश्वम् । आजौ । सस्तः । धुनीचुमुरी इति । या । ह । सिस्वप् ।
    दीदयत् । इत् । तुभ्यम् । सोमेभिः । सुन्वन् । दभीतिः । इध्मऽभृतिः । पक्थी । अर्कैः ॥

    táva ǀ ha ǀ tyát ǀ indra ǀ víśvam ǀ ājáu ǀ sastáḥ ǀ dhúnīcúmurī íti ǀ yā́ ǀ ha ǀ sísvap ǀ
    dīdáyat ǀ ít ǀ túbhyam ǀ sómebhiḥ ǀ sunván ǀ dabhī́tiḥ ǀ idhmá-bhṛtiḥ ǀ pakthī́ ǀ arkáiḥ ǁ

    tava ǀ ha ǀ tyat ǀ indra ǀ viśvam ǀ ājau ǀ sastaḥ ǀ dhunīcumurī iti ǀ yā ǀ ha ǀ sisvap ǀ
    dīdayat ǀ it ǀ tubhyam ǀ somebhiḥ ǀ sunvan ǀ dabhītiḥ ǀ idhma-bhṛtiḥ ǀ pakthī ǀ arkaiḥ ǁ

    6.20.13 Aṣṭaka 4.6.10.8Anuvāka 6.2.104

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.20 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

GIVE us wealth, Indra, that with might, as heaven o’ertops the earth, o’ercomes our foes in battle Wealth that brings thousands and that wins the corn-lands, wealth, Son of Strength! that vanquishes the foeman.

Ṛk 2

Even as the power of Dyaus, to thee, O Indra, all Asura sway was by the Gods entrusted, When thou, Impetuous! leagued with Viṣṇu, slewest Vṛtra the Dragon who enclosed the waters.

Ṛk 3

Indra, Strong, Victor, Mightier than the mighty, addressed with prayer and perfect in his splendour, Lord of the bolt that breaketh forts in pieces, became the King of the sweet juice of Soma..

Ṛk 4

There, Indra, while the light was won, the Paṇis f1ed, 'neath a hundred blows, for wise Dasoni, And greedy Śuṣṇa's magical devices nor left he any of their food remaining.

Ṛk 5

What time the thunder fell and Śuṣṇa perished, all life's support from the great Druh was taken. Indra made room for his car-drivcr Kutsa who sate beside him, when he gained the sunlight.

Ṛk 6

As the Hawk rent for him the stalk that gladdens, he wrenched the head from Namuci the Dāsa. He guarded Nam, Sayya's son, in slumber, and sated him with food, success, and riches.

Ṛk 7

Thou, thunder-armed, with thy great might hast shattered Pipru's strong forts who knew the wiles of serpents. Thou gavest to thy worshipper Ṛjiśvan imperishable Wealth, O Bounteous Giver.

Ṛk 8

The crafty Vetasu, the swift Dasni, and Tugra speedily with all his servants, Hath Indra, gladdening with strong assistance, forced near as ’twere to glorify the Mother.

Ṛk 9

Resistless, with the hosts he battles, bearing in both his arms the Vṛtra-slaying thunder. He mounts his Bays, as the car-seat an archer: yoked at a word they bear the lofty Indra.

Ṛk 10

May we, O Indra, gain by thy new favour: so Parus laud thee, with their sacrifices, That thou hast wrecked seven autumn forts, their shelter, slain Dāsa tribes and aided Purukutsa.

Ṛk 11

Favouring Uśanā the son of Kavi, thou wast his ancient strengthener, O Indra. Thou gavest Navavāstva. as a present, to the great father gavest back his grandson.

Ṛk 12

Thou, roaring Indra, drovest on the waters that made a roaring sound like rushing rivers, What time, O Hero, o’er the sea thou broughtest, in safety broughtest Turvaśa and Yadu.