Ṛk 6.20.2
Saṃhitā
दि॒वो न तुभ्य॒मन्विं॑द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्वं॑ ।
अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥
दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् |
अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ||
divó ná túbhyamánvindra satrā́suryám devébhirdhāyi víśvam ǀ
áhim yádvṛtrámapó vavrivā́ṃsam hánnṛjīṣinvíṣṇunā sacānáḥ ǁ
divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam |
ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ ||
Padapāṭha
दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् ।
अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥
दिवः । न । तुभ्यम् । अनु । इन्द्र । सत्रा । असुर्यम् । देवेभिः । धायि । विश्वम् ।
अहिम् । यत् । वृत्रम् । अपः । वव्रिऽवांसम् । हन् । ऋजीषिन् । विष्णुना । सचानः ॥
diváḥ ǀ ná ǀ túbhyam ǀ ánu ǀ indra ǀ satrā́ ǀ asuryám ǀ devébhiḥ ǀ dhāyi ǀ víśvam ǀ
áhim ǀ yát ǀ vṛtrám ǀ apáḥ ǀ vavri-vā́ṃsam ǀ hán ǀ ṛjīṣin ǀ víṣṇunā ǀ sacānáḥ ǁ
divaḥ ǀ na ǀ tubhyam ǀ anu ǀ indra ǀ satrā ǀ asuryam ǀ devebhiḥ ǀ dhāyi ǀ viśvam ǀ
ahim ǀ yat ǀ vṛtram ǀ apaḥ ǀ vavri-vāṃsam ǀ han ǀ ṛjīṣin ǀ viṣṇunā ǀ sacānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.020.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.09.02
- Maṇḍala · Anuvāka · Ṛk
- 06.02.093
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.