Ṛk 6.20.10
Saṃhitā
स॒नेम॒ तेऽव॑सा॒ नव्य॑ इंद्र॒ प्र पू॒रवः॑ स्तवंत ए॒ना य॒ज्ञैः ।
स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धंदासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥
सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः |
सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ||
sanéma té’vasā návya indra prá pūrávaḥ stavanta enā́ yajñáiḥ ǀ
saptá yátpúraḥ śárma śā́radīrdárddhándā́sīḥ purukútsāya śíkṣan ǁ
sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ |
sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan ||
Padapāṭha
स॒नेम॑ । ते॒ । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः ।
स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥
सनेम । ते । अवसा । नव्यः । इन्द्र । प्र । पूरवः । स्तवन्ते । एना । यज्ञैः ।
सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् । हन् । दासीः । पुरुऽकुत्साय । शिक्षन् ॥
sanéma ǀ te ǀ ávasā ǀ návyaḥ ǀ indra ǀ prá ǀ pūrávaḥ ǀ stavante ǀ enā́ ǀ yajñáiḥ ǀ
saptá ǀ yát ǀ púraḥ ǀ śárma ǀ śā́radīḥ ǀ dárt ǀ hán ǀ dā́sīḥ ǀ puru-kútsāya ǀ śíkṣan ǁ
sanema ǀ te ǀ avasā ǀ navyaḥ ǀ indra ǀ pra ǀ pūravaḥ ǀ stavante ǀ enā ǀ yajñaiḥ ǀ
sapta ǀ yat ǀ puraḥ ǀ śarma ǀ śāradīḥ ǀ dart ǀ han ǀ dāsīḥ ǀ puru-kutsāya ǀ śikṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.020.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.10.05
- Maṇḍala · Anuvāka · Ṛk
- 06.02.101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.