Ṛk 6.20.4
Saṃhitā
श॒तैर॑पद्रन्प॒णय॑ इं॒द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ ।
व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥
शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ |
वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ||
śatáirapadranpaṇáya indrā́tra dáśoṇaye kaváye’rkásātau ǀ
vadháiḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecītkím caná prá ǁ
śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau |
vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃ cana pra ||
Padapāṭha
श॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ ।
व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥
शतैः । अपद्रन् । पणयः । इन्द्र । अत्र । दशऽओणये । कवये । अर्कऽसातौ ।
वधैः । शुष्णस्य । अशुषस्य । मायाः । पित्वः । न । अरिरेचीत् । किम् । चन । प्र ॥
śatáiḥ ǀ apadran ǀ paṇáyaḥ ǀ indra ǀ átra ǀ dáśa-oṇaye ǀ kaváye ǀ arká-sātau ǀ
vadháiḥ ǀ śúṣṇasya ǀ aśúṣasya ǀ māyā́ḥ ǀ pitváḥ ǀ ná ǀ arirecīt ǀ kím ǀ caná ǀ prá ǁ
śataiḥ ǀ apadran ǀ paṇayaḥ ǀ indra ǀ atra ǀ daśa-oṇaye ǀ kavaye ǀ arka-sātau ǀ
vadhaiḥ ǀ śuṣṇasya ǀ aśuṣasya ǀ māyāḥ ǀ pitvaḥ ǀ na ǀ arirecīt ǀ kim ǀ cana ǀ pra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.020.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.09.04
- Maṇḍala · Anuvāka · Ṛk
- 06.02.095
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.