Ṛk 6.20.7
Saṃhitā
वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रिं॒छव॑सा॒ न द॑र्दः ।
सुदा॑मं॒तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥
वि पिप्रोर् अहिमायस्य दृऌहाः पुरो वज्रिञ् छवसा न दर्दः |
सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ||
ví píproráhimāyasya dṛḷhā́ḥ púro vajriñchávasā ná dardaḥ ǀ
súdāmantádrékṇo apramṛṣyámṛjíśvane dātrám dāśúṣe dāḥ ǁ
vi pipror ahimāyasya dṛḷhāḥ puro vajriñ chavasā na dardaḥ |
sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ ||
Padapāṭha
वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः ।
सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥
वि । पिप्रोः । अहिऽमायस्य । दृळ्हाः । पुरः । वज्रिन् । शवसा । न । दर्दरिति दर्दः ।
सुऽदामन् । तत् । रेक्णः । अप्रऽमृष्यम् । ऋजिश्वने । दात्रम् । दाशुषे । दाः ॥
ví ǀ píproḥ ǀ áhi-māyasya ǀ dṛḷhā́ḥ ǀ púraḥ ǀ vajrin ǀ śávasā ǀ ná ǀ dardaríti dardaḥ ǀ
sú-dāman ǀ tát ǀ rékṇaḥ ǀ apra-mṛṣyám ǀ ṛjíśvane ǀ dātrám ǀ dāśúṣe ǀ dāḥ ǁ
vi ǀ piproḥ ǀ ahi-māyasya ǀ dṛḷhāḥ ǀ puraḥ ǀ vajrin ǀ śavasā ǀ na ǀ dardariti dardaḥ ǀ
su-dāman ǀ tat ǀ rekṇaḥ ǀ apra-mṛṣyam ǀ ṛjiśvane ǀ dātram ǀ dāśuṣe ǀ dāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.020.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.10.02
- Maṇḍala · Anuvāka · Ṛk
- 06.02.098
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.