Sūkta 46
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śaṃyu Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles bhurigbṛhatī (3, 4); svarāḍanuṣṭup (5, 7); virāḍabṛhatī (8, 9); virāḍpaṅkti (12, 14); nicṛdanuṣṭup (1); svarāḍbṛhatī (2); brāhmīgāyatrī (6); paṅktiḥ (10); nicṛdbṛhatī (11); bṛhatī (13)
2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13); satobṛhatī (2, 4, 6, 8, 10, 12, 14)
-
Ṛk 1
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।
त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥त्वाम् इद् धि हवामहे साता वाजस्य कारवः |
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ||tvā́míddhí hávāmahe sātā́ vā́jasya kārávaḥ ǀ
tvā́m vṛtréṣvindra sátpatim nárastvā́m kā́ṣṭhāsvárvataḥ ǁtvām id dhi havāmahe sātā vājasya kāravaḥ |
tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ ||त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ।
त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः ।
त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥tvā́m ǀ ít ǀ hí ǀ hávāmahe ǀ sātā́ ǀ vā́jasya ǀ kārávaḥ ǀ
tvā́m ǀ vṛtréṣu ǀ indra ǀ sát-patim ǀ náraḥ ǀ tvā́m ǀ kā́ṣṭhāsu ǀ árvataḥ ǁtvām ǀ it ǀ hi ǀ havāmahe ǀ sātā ǀ vājasya ǀ kāravaḥ ǀ
tvām ǀ vṛtreṣu ǀ indra ǀ sat-patim ǀ naraḥ ǀ tvām ǀ kāṣṭhāsu ǀ arvataḥ ǁ6.46.1 Aṣṭaka 4.7.27.1Anuvāka 6.4.58
-
Ṛk 2
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।
गामश्वं॑ र॒थ्य॑मिंद्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः |
गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ||sá tvám naścitra vajrahasta dhṛṣṇuyā́ maháḥ stavānó adrivaḥ ǀ
gā́máśvam rathyámindra sám kira satrā́ vā́jam ná jigyúṣe ǁsa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ |
gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe ||सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः । अ॒द्रि॒ऽवः॒ ।
गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥सः । त्वम् । नः । चित्र । वज्रऽहस्त । धृष्णुऽया । महः । स्तवानः । अद्रिऽवः ।
गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे ॥sáḥ ǀ tvám ǀ naḥ ǀ citra ǀ vajra-hasta ǀ dhṛṣṇu-yā́ ǀ maháḥ ǀ stavānáḥ ǀ adri-vaḥ ǀ
gā́m ǀ áśvam ǀ rathyám ǀ indra ǀ sám ǀ kira ǀ satrā́ ǀ vā́jam ǀ ná ǀ jigyúṣe ǁsaḥ ǀ tvam ǀ naḥ ǀ citra ǀ vajra-hasta ǀ dhṛṣṇu-yā ǀ mahaḥ ǀ stavānaḥ ǀ adri-vaḥ ǀ
gām ǀ aśvam ǀ rathyam ǀ indra ǀ sam ǀ kira ǀ satrā ǀ vājam ǀ na ǀ jigyuṣe ǁ6.46.2 Aṣṭaka 4.7.27.2Anuvāka 6.4.59
-
Ṛk 3
यः स॑त्रा॒हा विच॑र्षणि॒रिंद्रं॒ तं हू॑महे व॒यं ।
सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् |
सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ||yáḥ satrāhā́ vícarṣaṇiríndram tám hūmahe vayám ǀ
sáhasramuṣka túvinṛmṇa sátpate bhávā samátsu no vṛdhé ǁyaḥ satrāhā vicarṣaṇir indraṃ taṃ hūmahe vayam |
sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe ||यः । स॒त्रा॒ऽहा । विऽच॑र्षणिः । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।
सह॑स्रऽमुष्क । तुवि॑ऽनृम्ण । सत्ऽप॑ते । भव॑ । स॒मत्ऽसु॑ । नः॒ । वृ॒धे ॥यः । सत्राऽहा । विऽचर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् ।
सहस्रऽमुष्क । तुविऽनृम्ण । सत्ऽपते । भव । समत्ऽसु । नः । वृधे ॥yáḥ ǀ satrā-hā́ ǀ ví-carṣaṇiḥ ǀ índram ǀ tám ǀ hūmahe ǀ vayám ǀ
sáhasra-muṣka ǀ túvi-nṛmṇa ǀ sát-pate ǀ bháva ǀ samát-su ǀ naḥ ǀ vṛdhé ǁyaḥ ǀ satrā-hā ǀ vi-carṣaṇiḥ ǀ indram ǀ tam ǀ hūmahe ǀ vayam ǀ
sahasra-muṣka ǀ tuvi-nṛmṇa ǀ sat-pate ǀ bhava ǀ samat-su ǀ naḥ ǀ vṛdhe ǁ6.46.3 Aṣṭaka 4.7.27.3Anuvāka 6.4.60
-
Ṛk 4
बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम ।
अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥बाधसे जनान् वृषभेव मन्युना घृषौ मीऌह ऋचीषम |
अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ||bā́dhase jánānvṛṣabhéva manyúnā ghṛ́ṣau mīḷhá ṛcīṣama ǀ
asmā́kam bodhyavitā́ mahādhané tanū́ṣvapsú sū́rye ǁbādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama |
asmākam bodhy avitā mahādhane tanūṣv apsu sūrye ||बाध॑से । जना॑न् । वृ॒ष॒भाऽइ॑व । म॒न्युना॑ । घृषौ॑ । मी॒ळ्हे । ऋ॒ची॒ष॒म॒ ।
अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । त॒नूषु॑ । अ॒प्ऽसु । सूर्ये॑ ॥बाधसे । जनान् । वृषभाऽइव । मन्युना । घृषौ । मीळ्हे । ऋचीषम ।
अस्माकम् । बोधि । अविता । महाऽधने । तनूषु । अप्ऽसु । सूर्ये ॥bā́dhase ǀ jánān ǀ vṛṣabhā́-iva ǀ manyúnā ǀ ghṛ́ṣau ǀ mīḷhé ǀ ṛcīṣama ǀ
asmā́kam ǀ bodhi ǀ avitā́ ǀ mahā-dhané ǀ tanū́ṣu ǀ ap-sú ǀ sū́rye ǁbādhase ǀ janān ǀ vṛṣabhā-iva ǀ manyunā ǀ ghṛṣau ǀ mīḷhe ǀ ṛcīṣama ǀ
asmākam ǀ bodhi ǀ avitā ǀ mahā-dhane ǀ tanūṣu ǀ ap-su ǀ sūrye ǁ6.46.4 Aṣṭaka 4.7.27.4Anuvāka 6.4.61
-
Ṛk 5
इंद्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।
येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥इन्द्र ज्येष्ठं न आ भरं ओजिष्ठम् पपुरि श्रवः |
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ||índra jyéṣṭham na ā́ bharam̐ ójiṣṭham pápuri śrávaḥ ǀ
yénemé citra vajrahasta ródasī óbhé suśipra prā́ḥ ǁindra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ |
yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ ।
येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । प्राः ॥इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पपुरि । श्रवः ।
येन । इमे इति । चित्र । वज्रऽहस्त । रोदसी इति । आ । उभे इति । सुऽशिप्र । प्राः ॥índra ǀ jyéṣṭham ǀ naḥ ǀ ā́ ǀ bhara ǀ ójiṣṭham ǀ pápuri ǀ śrávaḥ ǀ
yéna ǀ imé íti ǀ citra ǀ vajra-hasta ǀ ródasī íti ǀ ā́ ǀ ubhé íti ǀ su-śipra ǀ prā́ḥ ǁindra ǀ jyeṣṭham ǀ naḥ ǀ ā ǀ bhara ǀ ojiṣṭham ǀ papuri ǀ śravaḥ ǀ
yena ǀ ime iti ǀ citra ǀ vajra-hasta ǀ rodasī iti ǀ ā ǀ ubhe iti ǀ su-śipra ǀ prāḥ ǁ6.46.5 Aṣṭaka 4.7.27.5Anuvāka 6.4.62
-
Ṛk 6
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राजं॑दे॒वेषु॑ हूमहे ।
विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्त्सु॒षहा॑न्कृधि ॥त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे |
विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ||tvā́mugrámávase carṣaṇīsáham rā́jandevéṣu hūmahe ǀ
víśvā sú no vithurā́ pibdanā́ vaso’mítrāntsuṣáhānkṛdhi ǁtvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe |
viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi ||त्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ ।
विश्वा॑ । सु । नः॒ । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽसहा॑न् । कृ॒धि॒ ॥त्वाम् । उग्रम् । अवसे । चर्षणिऽसहम् । राजन् । देवेषु । हूमहे ।
विश्वा । सु । नः । विथुरा । पिब्दना । वसो इति । अमित्रान् । सुऽसहान् । कृधि ॥tvā́m ǀ ugrám ǀ ávase ǀ carṣaṇi-sáham ǀ rā́jan ǀ devéṣu ǀ hūmahe ǀ
víśvā ǀ sú ǀ naḥ ǀ vithurā́ ǀ pibdanā́ ǀ vaso íti ǀ amítrān ǀ su-sáhān ǀ kṛdhi ǁtvām ǀ ugram ǀ avase ǀ carṣaṇi-saham ǀ rājan ǀ deveṣu ǀ hūmahe ǀ
viśvā ǀ su ǀ naḥ ǀ vithurā ǀ pibdanā ǀ vaso iti ǀ amitrān ǀ su-sahān ǀ kṛdhi ǁ6.46.6 Aṣṭaka 4.7.28.1Anuvāka 6.4.63
-
Ṛk 7
यदिं॑द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।
यद्वा॒ पंच॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥यद् इन्द्र नाहुषीष्व् आं ओजो नृम्णं च कृष्टिषु |
यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ||yádindra nā́huṣīṣvā́m̐ ójo nṛmṇám ca kṛṣṭíṣu ǀ
yádvā páñca kṣitīnā́m dyumnámā́ bhara satrā́ víśvāni páuṃsyā ǁyad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu |
yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā ||यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ ।
यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु ।
यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौंस्या ॥yát ǀ indra ǀ nā́huṣīṣu ǀ ā́ ǀ ójaḥ ǀ nṛmṇám ǀ ca ǀ kṛṣṭíṣu ǀ
yát ǀ vā ǀ páñca ǀ kṣitīnā́m ǀ dyumnám ǀ ā́ ǀ bhara ǀ satrā́ ǀ víśvāni ǀ páuṃsyā ǁyat ǀ indra ǀ nāhuṣīṣu ǀ ā ǀ ojaḥ ǀ nṛmṇam ǀ ca ǀ kṛṣṭiṣu ǀ
yat ǀ vā ǀ pañca ǀ kṣitīnām ǀ dyumnam ǀ ā ǀ bhara ǀ satrā ǀ viśvāni ǀ pauṃsyā ǁ6.46.7 Aṣṭaka 4.7.28.2Anuvāka 6.4.64
-
Ṛk 8
यद्वा॑ तृ॒क्षौ म॑घवंद्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्यं॑ ।
अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् |
अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे ||yádvā tṛkṣáu maghavandruhyā́vā́ jáne yátpūráu kácca vṛ́ṣṇyam ǀ
asmábhyam tádrirīhi sám nṛṣā́hye’mítrānpṛtsú turváṇe ǁyad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam |
asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe ||यत् । वा॒ । तृ॒क्षौ । म॒घ॒ऽव॒न् । द्रु॒ह्यौ । आ । जने॑ । यत् । पू॒रौ । कत् । च॒ । वृष्ण्य॑म् ।
अ॒स्मभ्य॑म् । तत् । रि॒री॒हि॒ । सम् । नृ॒ऽसह्ये॑ । अ॒मित्रा॑न् । पृ॒त्ऽसु । तु॒र्वणे॑ ॥यत् । वा । तृक्षौ । मघऽवन् । द्रुह्यौ । आ । जने । यत् । पूरौ । कत् । च । वृष्ण्यम् ।
अस्मभ्यम् । तत् । रिरीहि । सम् । नृऽसह्ये । अमित्रान् । पृत्ऽसु । तुर्वणे ॥yát ǀ vā ǀ tṛkṣáu ǀ magha-van ǀ druhyáu ǀ ā́ ǀ jáne ǀ yát ǀ pūráu ǀ kát ǀ ca ǀ vṛ́ṣṇyam ǀ
asmábhyam ǀ tát ǀ rirīhi ǀ sám ǀ nṛ-sáhye ǀ amítrān ǀ pṛt-sú ǀ turváṇe ǁyat ǀ vā ǀ tṛkṣau ǀ magha-van ǀ druhyau ǀ ā ǀ jane ǀ yat ǀ pūrau ǀ kat ǀ ca ǀ vṛṣṇyam ǀ
asmabhyam ǀ tat ǀ rirīhi ǀ sam ǀ nṛ-sahye ǀ amitrān ǀ pṛt-su ǀ turvaṇe ǁ6.46.8 Aṣṭaka 4.7.28.3Anuvāka 6.4.65
-
Ṛk 9
इंद्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।
छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् |
छर्दिर् यच्छ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ||índra tridhā́tu śaraṇám trivárūtham svastimát ǀ
chardíryaccha maghávadbhyaśca máhyam ca yāváyā didyúmebhyaḥ ǁindra tridhātu śaraṇaṃ trivarūthaṃ svastimat |
chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ ||इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् ।
छ॒र्दिः । य॒च्छ॒ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒ ॥इन्द्र । त्रिऽधातु । शरणम् । त्रिऽवरूथम् । स्वस्तिऽमत् ।
छर्दिः । यच्छ । मघवत्ऽभ्यः । च । मह्यम् । च । यवय । दिद्युम् । एभ्यः ॥índra ǀ tri-dhā́tu ǀ śaraṇám ǀ tri-várūtham ǀ svasti-mát ǀ
chardíḥ ǀ yaccha ǀ maghávat-bhyaḥ ǀ ca ǀ máhyam ǀ ca ǀ yaváya ǀ didyúm ǀ ebhyaḥ ǁindra ǀ tri-dhātu ǀ śaraṇam ǀ tri-varūtham ǀ svasti-mat ǀ
chardiḥ ǀ yaccha ǀ maghavat-bhyaḥ ǀ ca ǀ mahyam ǀ ca ǀ yavaya ǀ didyum ǀ ebhyaḥ ǁ6.46.9 Aṣṭaka 4.7.28.4Anuvāka 6.4.66
-
Ṛk 10
ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नंति॑ धृष्णु॒या ।
अध॑ स्मा नो मघवन्निंद्र गिर्वणस्तनू॒पा अंत॑मो भव ॥ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया |
अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ||yé gavyatā́ mánasā śátrumādabhúrabhipraghnánti dhṛṣṇuyā́ ǀ
ádha smā no maghavannindra girvaṇastanūpā́ ántamo bhava ǁye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā |
adha smā no maghavann indra girvaṇas tanūpā antamo bhava ||ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया ।
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः । अन्त॑मः । भ॒व॒ ॥ये । गव्यता । मनसा । शत्रुम् । आऽदभुः । अभिऽप्रघ्नन्ति । धृष्णुऽया ।
अध । स्म । नः । मघऽवन् । इन्द्र । गिर्वणः । तनूऽपाः । अन्तमः । भव ॥yé ǀ gavyatā́ ǀ mánasā ǀ śátrum ǀ ā-dabhúḥ ǀ abhi-praghnánti ǀ dhṛṣṇu-yā́ ǀ
ádha ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ tanū-pā́ḥ ǀ ántamaḥ ǀ bhava ǁye ǀ gavyatā ǀ manasā ǀ śatrum ǀ ā-dabhuḥ ǀ abhi-praghnanti ǀ dhṛṣṇu-yā ǀ
adha ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ tanū-pāḥ ǀ antamaḥ ǀ bhava ǁ6.46.10 Aṣṭaka 4.7.28.5Anuvāka 6.4.67
-
Ṛk 11
अध॑ स्मा नो वृ॒धे भ॒वेंद्र॑ ना॒यम॑वा यु॒धि ।
यदं॒तरि॑क्षे प॒तयं॑ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि |
यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः ||ádha smā no vṛdhé bhavéndra nāyámavā yudhí ǀ
yádantárikṣe patáyanti parṇíno didyávastigmámūrdhānaḥ ǁadha smā no vṛdhe bhavendra nāyam avā yudhi |
yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ ||अध॑ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र॑ । ना॒यम् । अ॒व॒ । यु॒धि ।
यत् । अ॒न्तरि॑क्षे । प॒तय॑न्ति । प॒र्णिनः॑ । दि॒द्यवः॑ । ति॒ग्मऽमू॑र्धानः ॥अध । स्म । नः । वृधे । भव । इन्द्र । नायम् । अव । युधि ।
यत् । अन्तरिक्षे । पतयन्ति । पर्णिनः । दिद्यवः । तिग्मऽमूर्धानः ॥ádha ǀ sma ǀ naḥ ǀ vṛdhé ǀ bhava ǀ índra ǀ nāyám ǀ ava ǀ yudhí ǀ
yát ǀ antárikṣe ǀ patáyanti ǀ parṇínaḥ ǀ didyávaḥ ǀ tigmá-mūrdhānaḥ ǁadha ǀ sma ǀ naḥ ǀ vṛdhe ǀ bhava ǀ indra ǀ nāyam ǀ ava ǀ yudhi ǀ
yat ǀ antarikṣe ǀ patayanti ǀ parṇinaḥ ǀ didyavaḥ ǀ tigma-mūrdhānaḥ ǁ6.46.11 Aṣṭaka 4.7.29.1Anuvāka 6.4.68
-
Ṛk 12
यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णां ।
अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् |
अध स्मा यच्छ तन्वे तने च छर्दिर् अचित्तं यावय द्वेषः ||yátra śū́rāsastanvó vitanvaté priyā́ śárma pitṝṇā́m ǀ
ádha smā yaccha tanvé táne ca chardíracíttam yāváya dvéṣaḥ ǁyatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām |
adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ ||यत्र॑ । शूरा॑सः । त॒न्वः॑ । वि॒ऽत॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄ॒णाम् ।
अध॑ । स्म॒ । य॒च्छ॒ । त॒न्वे॑ । तने॑ । च॒ । छ॒र्दिः । अ॒चित्त॑म् । य॒वय॑ । द्वेषः॑ ॥यत्र । शूरासः । तन्वः । विऽतन्वते । प्रिया । शर्म । पितॄणाम् ।
अध । स्म । यच्छ । तन्वे । तने । च । छर्दिः । अचित्तम् । यवय । द्वेषः ॥yátra ǀ śū́rāsaḥ ǀ tanváḥ ǀ vi-tanvaté ǀ priyā́ ǀ śárma ǀ pitṝṇā́m ǀ
ádha ǀ sma ǀ yaccha ǀ tanvé ǀ táne ǀ ca ǀ chardíḥ ǀ acíttam ǀ yaváya ǀ dvéṣaḥ ǁyatra ǀ śūrāsaḥ ǀ tanvaḥ ǀ vi-tanvate ǀ priyā ǀ śarma ǀ pitṝṇām ǀ
adha ǀ sma ǀ yaccha ǀ tanve ǀ tane ǀ ca ǀ chardiḥ ǀ acittam ǀ yavaya ǀ dveṣaḥ ǁ6.46.12 Aṣṭaka 4.7.29.2Anuvāka 6.4.69
-
Ṛk 13
यदिं॑द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने ।
अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने |
असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ||yádindra sárge árvataścodáyāse mahādhané ǀ
asamané ádhvani vṛjiné pathí śyenā́m̐ iva śravasyatáḥ ǁyad indra sarge arvataś codayāse mahādhane |
asamane adhvani vṛjine pathi śyenāṃ iva śravasyataḥ ||यत् । इ॒न्द्र॒ । सर्गे॑ । अर्व॑तः । चो॒दया॑से । म॒हा॒ऽध॒ने ।
अ॒स॒म॒ने । अध्व॑नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्ऽइ॑व । श्र॒व॒स्य॒तः ॥यत् । इन्द्र । सर्गे । अर्वतः । चोदयासे । महाऽधने ।
असमने । अध्वनि । वृजिने । पथि । श्येनान्ऽइव । श्रवस्यतः ॥yát ǀ indra ǀ sárge ǀ árvataḥ ǀ codáyāse ǀ mahā-dhané ǀ
asamané ǀ ádhvani ǀ vṛjiné ǀ pathí ǀ śyenā́n-iva ǀ śravasyatáḥ ǁyat ǀ indra ǀ sarge ǀ arvataḥ ǀ codayāse ǀ mahā-dhane ǀ
asamane ǀ adhvani ǀ vṛjine ǀ pathi ǀ śyenān-iva ǀ śravasyataḥ ǁ6.46.13 Aṣṭaka 4.7.29.3Anuvāka 6.4.70
-
Ṛk 14
सिंधूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ ।
आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥सिन्धूंर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि |
आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ||síndhūm̐riva pravaṇá āśuyā́ yató yádi klóśamánu ṣváṇi ǀ
ā́ yé váyo ná várvṛtatyā́miṣi gṛbhītā́ bāhvórgávi ǁsindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi |
ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi ||सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ ।
आ । ये । वयः॑ । न । वर्वृ॑तति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥सिन्धून्ऽइव । प्रवणे । आशुऽया । यतः । यदि । क्लोशम् । अनु । स्वनि ।
आ । ये । वयः । न । वर्वृतति । आमिषि । गृभीताः । बाह्वोः । गवि ॥síndhūn-iva ǀ pravaṇé ǀ āśu-yā́ ǀ yatáḥ ǀ yádi ǀ klóśam ǀ ánu ǀ sváni ǀ
ā́ ǀ yé ǀ váyaḥ ǀ ná ǀ várvṛtati ǀ ā́miṣi ǀ gṛbhītā́ḥ ǀ bāhvóḥ ǀ gávi ǁsindhūn-iva ǀ pravaṇe ǀ āśu-yā ǀ yataḥ ǀ yadi ǀ klośam ǀ anu ǀ svani ǀ
ā ǀ ye ǀ vayaḥ ǀ na ǀ varvṛtati ǀ āmiṣi ǀ gṛbhītāḥ ǀ bāhvoḥ ǀ gavi ǁ6.46.14 Aṣṭaka 4.7.29.4Anuvāka 6.4.71
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.