Ṛk 6.46.5
Saṃhitā
इंद्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।
येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥
इन्द्र ज्येष्ठं न आ भरं ओजिष्ठम् पपुरि श्रवः |
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ||
índra jyéṣṭham na ā́ bharam̐ ójiṣṭham pápuri śrávaḥ ǀ
yénemé citra vajrahasta ródasī óbhé suśipra prā́ḥ ǁ
indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ |
yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||
Padapāṭha
इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ ।
येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । प्राः ॥
इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पपुरि । श्रवः ।
येन । इमे इति । चित्र । वज्रऽहस्त । रोदसी इति । आ । उभे इति । सुऽशिप्र । प्राः ॥
índra ǀ jyéṣṭham ǀ naḥ ǀ ā́ ǀ bhara ǀ ójiṣṭham ǀ pápuri ǀ śrávaḥ ǀ
yéna ǀ imé íti ǀ citra ǀ vajra-hasta ǀ ródasī íti ǀ ā́ ǀ ubhé íti ǀ su-śipra ǀ prā́ḥ ǁ
indra ǀ jyeṣṭham ǀ naḥ ǀ ā ǀ bhara ǀ ojiṣṭham ǀ papuri ǀ śravaḥ ǀ
yena ǀ ime iti ǀ citra ǀ vajra-hasta ǀ rodasī iti ǀ ā ǀ ubhe iti ǀ su-śipra ǀ prāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.046.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.27.05
- Maṇḍala · Anuvāka · Ṛk
- 06.04.062
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śaṃyu Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.