Ṛk 6.46.7
Saṃhitā
यदिं॑द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।
यद्वा॒ पंच॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥
यद् इन्द्र नाहुषीष्व् आं ओजो नृम्णं च कृष्टिषु |
यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ||
yádindra nā́huṣīṣvā́m̐ ójo nṛmṇám ca kṛṣṭíṣu ǀ
yádvā páñca kṣitīnā́m dyumnámā́ bhara satrā́ víśvāni páuṃsyā ǁ
yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu |
yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā ||
Padapāṭha
यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ ।
यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥
यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु ।
यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौंस्या ॥
yát ǀ indra ǀ nā́huṣīṣu ǀ ā́ ǀ ójaḥ ǀ nṛmṇám ǀ ca ǀ kṛṣṭíṣu ǀ
yát ǀ vā ǀ páñca ǀ kṣitīnā́m ǀ dyumnám ǀ ā́ ǀ bhara ǀ satrā́ ǀ víśvāni ǀ páuṃsyā ǁ
yat ǀ indra ǀ nāhuṣīṣu ǀ ā ǀ ojaḥ ǀ nṛmṇam ǀ ca ǀ kṛṣṭiṣu ǀ
yat ǀ vā ǀ pañca ǀ kṣitīnām ǀ dyumnam ǀ ā ǀ bhara ǀ satrā ǀ viśvāni ǀ pauṃsyā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.046.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.28.02
- Maṇḍala · Anuvāka · Ṛk
- 06.04.064
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śaṃyu Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.