Ṛk 6.46.1
Saṃhitā
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।
त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥
त्वाम् इद् धि हवामहे साता वाजस्य कारवः |
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ||
tvā́míddhí hávāmahe sātā́ vā́jasya kārávaḥ ǀ
tvā́m vṛtréṣvindra sátpatim nárastvā́m kā́ṣṭhāsvárvataḥ ǁ
tvām id dhi havāmahe sātā vājasya kāravaḥ |
tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ ||
Padapāṭha
त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ।
त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥
त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः ।
त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥
tvā́m ǀ ít ǀ hí ǀ hávāmahe ǀ sātā́ ǀ vā́jasya ǀ kārávaḥ ǀ
tvā́m ǀ vṛtréṣu ǀ indra ǀ sát-patim ǀ náraḥ ǀ tvā́m ǀ kā́ṣṭhāsu ǀ árvataḥ ǁ
tvām ǀ it ǀ hi ǀ havāmahe ǀ sātā ǀ vājasya ǀ kāravaḥ ǀ
tvām ǀ vṛtreṣu ǀ indra ǀ sat-patim ǀ naraḥ ǀ tvām ǀ kāṣṭhāsu ǀ arvataḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.046.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.27.01
- Maṇḍala · Anuvāka · Ṛk
- 06.04.058
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śaṃyu Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.