Sūkta 73
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2); virāṭtrisṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑रांगिर॒सो ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् |
द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ||yó adribhítprathamajā́ ṛtā́vā bṛ́haspátirāṅgirasó havíṣmān ǀ
dvibárhajmā prāgharmasátpitā́ na ā́ ródasī vṛṣabhó roravīti ǁyo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān |
dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti ||यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बृह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः । ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥यः । अद्रिऽभित् । प्रथमऽजाः । ऋतऽवा । बृहस्पतिः । आङ्गिरसः । हविष्मान् ।
द्विबर्हऽज्मा । प्राघर्मऽसत् । पिता । नः । आ । रोदसी इति । वृषभः । रोरवीति ॥yáḥ ǀ adri-bhít ǀ prathama-jā́ḥ ǀ ṛtá-vā ǀ bṛ́haspátiḥ ǀ āṅgirasáḥ ǀ havíṣmān ǀ
dvibárha-jmā ǀ prāgharma-sát ǀ pitā́ ǀ naḥ ǀ ā́ ǀ ródasī íti ǀ vṛṣabháḥ ǀ roravīti ǁyaḥ ǀ adri-bhit ǀ prathama-jāḥ ǀ ṛta-vā ǀ bṛhaspatiḥ ǀ āṅgirasaḥ ǀ haviṣmān ǀ
dvibarha-jmā ǀ prāgharma-sat ǀ pitā ǀ naḥ ǀ ā ǀ rodasī iti ǀ vṛṣabhaḥ ǀ roravīti ǁ6.73.1 Aṣṭaka 5.1.17.1Anuvāka 6.6.93
-
Ṛk 2
जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।
घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार |
घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूंर् अमित्रान् पृत्सु साहन् ||jánāya cidyá ī́vata u lokám bṛ́haspátirdeváhūtau cakā́ra ǀ
ghnánvṛtrā́ṇi ví púro dardarīti jáyañchátrūm̐ramítrānpṛtsú sā́han ǁjanāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra |
ghnan vṛtrāṇi vi puro dardarīti jayañ chatrūṃr amitrān pṛtsu sāhan ||जना॑य । चि॒त् । यः । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ ।
घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । सह॑न् ॥जनाय । चित् । यः । ईवते । ऊं इति । लोकम् । बृहस्पतिः । देवऽहूतौ । चकार ।
घ्नन् । वृत्राणि । वि । पुरः । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्ऽसु । सहन् ॥jánāya ǀ cit ǀ yáḥ ǀ ī́vate ǀ ūṃ íti ǀ lokám ǀ bṛ́haspátiḥ ǀ devá-hūtau ǀ cakā́ra ǀ
ghnán ǀ vṛtrā́ṇi ǀ ví ǀ púraḥ ǀ dardarīti ǀ jáyan ǀ śátrūn ǀ amítrān ǀ pṛt-sú ǀ sáhan ǁjanāya ǀ cit ǀ yaḥ ǀ īvate ǀ ūṃ iti ǀ lokam ǀ bṛhaspatiḥ ǀ deva-hūtau ǀ cakāra ǀ
ghnan ǀ vṛtrāṇi ǀ vi ǀ puraḥ ǀ dardarīti ǀ jayan ǀ śatrūn ǀ amitrān ǀ pṛt-su ǀ sahan ǁ6.73.2 Aṣṭaka 5.1.17.2Anuvāka 6.6.94
-
Ṛk 3
बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान् गोम॑तो दे॒व ए॒षः ।
अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हंत्य॒मित्र॑म॒र्कैः ॥बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः |
अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ||bṛ́haspátiḥ sámajayadvásūni mahó vrajā́n gómato devá eṣáḥ ǀ
apáḥ síṣāsantsvárápratīto bṛ́haspátirhántyamítramarkáiḥ ǁbṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ |
apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ ||बृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः ।
अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥बृहस्पतिः । सम् । अजयत् । वसूनि । महः । व्रजान् । गोऽमतः । देवः । एषः ।
अपः । सिसासन् । स्वः । अप्रतिऽइतः । बृहस्पतिः । हन्ति । अमित्रम् । अर्कैः ॥bṛ́haspátiḥ ǀ sám ǀ ajayat ǀ vásūni ǀ maháḥ ǀ vrajā́n ǀ gó-mataḥ ǀ deváḥ ǀ eṣáḥ ǀ
apáḥ ǀ sísāsan ǀ sváḥ ǀ áprati-itaḥ ǀ bṛ́haspátiḥ ǀ hánti ǀ amítram ǀ arkáiḥ ǁbṛhaspatiḥ ǀ sam ǀ ajayat ǀ vasūni ǀ mahaḥ ǀ vrajān ǀ go-mataḥ ǀ devaḥ ǀ eṣaḥ ǀ
apaḥ ǀ sisāsan ǀ svaḥ ǀ aprati-itaḥ ǀ bṛhaspatiḥ ǀ hanti ǀ amitram ǀ arkaiḥ ǁ6.73.3 Aṣṭaka 5.1.17.3Anuvāka 6.6.95
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.