Ṛk 6.73.1
Saṃhitā
यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑रांगिर॒सो ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥
यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् |
द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ||
yó adribhítprathamajā́ ṛtā́vā bṛ́haspátirāṅgirasó havíṣmān ǀ
dvibárhajmā prāgharmasátpitā́ na ā́ ródasī vṛṣabhó roravīti ǁ
yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān |
dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti ||
Padapāṭha
यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बृह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः । ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥
यः । अद्रिऽभित् । प्रथमऽजाः । ऋतऽवा । बृहस्पतिः । आङ्गिरसः । हविष्मान् ।
द्विबर्हऽज्मा । प्राघर्मऽसत् । पिता । नः । आ । रोदसी इति । वृषभः । रोरवीति ॥
yáḥ ǀ adri-bhít ǀ prathama-jā́ḥ ǀ ṛtá-vā ǀ bṛ́haspátiḥ ǀ āṅgirasáḥ ǀ havíṣmān ǀ
dvibárha-jmā ǀ prāgharma-sát ǀ pitā́ ǀ naḥ ǀ ā́ ǀ ródasī íti ǀ vṛṣabháḥ ǀ roravīti ǁ
yaḥ ǀ adri-bhit ǀ prathama-jāḥ ǀ ṛta-vā ǀ bṛhaspatiḥ ǀ āṅgirasaḥ ǀ haviṣmān ǀ
dvibarha-jmā ǀ prāgharma-sat ǀ pitā ǀ naḥ ǀ ā ǀ rodasī iti ǀ vṛṣabhaḥ ǀ roravīti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.073.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.17.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.093
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.