Ṛk 6.72.5
Saṃhitā
इंद्रा॑सोमा यु॒वमं॒ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।
यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्यः॒ सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥
इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे |
युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहम् उग्रा ||
índrāsomā yuvámaṅgá tárutramapatyasā́cam śrútyam rarāthe ǀ
yuvám śúṣmam náryam carṣaṇíbhyaḥ sám vivyathuḥ pṛtanāṣā́hamugrā ǁ
indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe |
yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā ||
Padapāṭha
इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ ।
यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥
इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्यऽसाचम् । श्रुत्यम् । रराथे इति ।
युवम् । शुष्मम् । नर्यम् । चर्षणिऽभ्यः । सम् । विव्यथुः । पृतनाऽसहम् । उग्रा ॥
índrāsomā ǀ yuvám ǀ aṅgá ǀ tárutram ǀ apatya-sā́cam ǀ śrútyam ǀ rarāthe íti ǀ
yuvám ǀ śúṣmam ǀ náryam ǀ carṣaṇí-bhyaḥ ǀ sám ǀ vivyathuḥ ǀ pṛtanā-sáham ǀ ugrā ǁ
indrāsomā ǀ yuvam ǀ aṅga ǀ tarutram ǀ apatya-sācam ǀ śrutyam ǀ rarāthe iti ǀ
yuvam ǀ śuṣmam ǀ naryam ǀ carṣaṇi-bhyaḥ ǀ sam ǀ vivyathuḥ ǀ pṛtanā-saham ǀ ugrā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.072.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.16.05
- Maṇḍala · Anuvāka · Ṛk
- 06.06.092
- Devatā देवता
- Indra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.