Ṛk 6.72.2
Saṃhitā
इंद्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।
उप॒ द्यां स्कं॒भथुः॒ स्कंभ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥
इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह |
उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ||
índrāsomā vāsáyatha uṣā́samútsū́ryam nayatho jyótiṣā sahá ǀ
úpa dyā́m skambháthuḥ skámbhanenā́prathatam pṛthivī́m mātáram ví ǁ
indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha |
upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi ||
Padapāṭha
इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह ।
उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥
इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह ।
उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि ॥
índrāsomā ǀ vāsáyathaḥ ǀ uṣásam ǀ út ǀ sū́ryam ǀ nayathaḥ ǀ jyótiṣā ǀ sahá ǀ
úpa ǀ dyā́m ǀ skambháthuḥ ǀ skámbhanena ǀ áprathatam ǀ pṛthivī́m ǀ mātáram ǀ ví ǁ
indrāsomā ǀ vāsayathaḥ ǀ uṣasam ǀ ut ǀ sūryam ǀ nayathaḥ ǀ jyotiṣā ǀ saha ǀ
upa ǀ dyām ǀ skambhathuḥ ǀ skambhanena ǀ aprathatam ǀ pṛthivīm ǀ mātaram ǀ vi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.072.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.16.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.089
- Devatā देवता
- Indra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.