Ṛk 6.72.3
Saṃhitā
इंद्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।
प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥
इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत |
प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ||
índrāsomāváhimapáḥ pariṣṭhā́m hathó vṛtrámánu vām dyáuramanyata ǀ
prā́rṇāṃsyairayatam nadī́nāmā́ samudrā́ṇi paprathuḥ purū́ṇi ǁ
indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata |
prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi ||
Padapāṭha
इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।
प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥
इन्द्रासोमौ । अहिम् । अपः । परिऽस्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत ।
प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि ॥
índrāsomau ǀ áhim ǀ apáḥ ǀ pari-sthā́m ǀ hatháḥ ǀ vṛtrám ǀ ánu ǀ vām ǀ dyáuḥ ǀ amanyata ǀ
prá ǀ árṇāṃsi ǀ airayatam ǀ nadī́nām ǀ ā́ ǀ samudrā́ṇi ǀ paprathuḥ ǀ purū́ṇi ǁ
indrāsomau ǀ ahim ǀ apaḥ ǀ pari-sthām ǀ hathaḥ ǀ vṛtram ǀ anu ǀ vām ǀ dyauḥ ǀ amanyata ǀ
pra ǀ arṇāṃsi ǀ airayatam ǀ nadīnām ǀ ā ǀ samudrāṇi ǀ paprathuḥ ǀ purūṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.072.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.16.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.090
- Devatā देवता
- Indra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.