Ṛk 6.72.1
Saṃhitā
इंद्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।
यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥
इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः |
युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं निदश् च ||
índrāsomā máhi tádvām mahitvám yuvám mahā́ni prathamā́ni cakrathuḥ ǀ
yuvám sū́ryam vividáthuryuvám svárvíśvā támāṃsyahatam nidáśca ǁ
indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ |
yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca ||
Padapāṭha
इन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ ।
यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥
इन्द्रासोमा । महि । तत् । वाम् । महिऽत्वम् । युवम् । महानि । प्रथमानि । चक्रथुः ।
युवम् । सूर्यम् । विविदथुः । युवम् । स्वः । विश्वा । तमांसि । अहतम् । निदः । च ॥
índrāsomā ǀ máhi ǀ tát ǀ vām ǀ mahi-tvám ǀ yuvám ǀ mahā́ni ǀ prathamā́ni ǀ cakrathuḥ ǀ
yuvám ǀ sū́ryam ǀ vividáthuḥ ǀ yuvám ǀ sváḥ ǀ víśvā ǀ támāṃsi ǀ ahatam ǀ nidáḥ ǀ ca ǁ
indrāsomā ǀ mahi ǀ tat ǀ vām ǀ mahi-tvam ǀ yuvam ǀ mahāni ǀ prathamāni ǀ cakrathuḥ ǀ
yuvam ǀ sūryam ǀ vividathuḥ ǀ yuvam ǀ svaḥ ǀ viśvā ǀ tamāṃsi ǀ ahatam ǀ nidaḥ ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.072.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.16.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.088
- Devatā देवता
- Indra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.